संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| षोडशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । षोडशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली षोडशोsध्यायः । Translation - भाषांतर निर्लज्जः पापरतो यन्त्रज्ञः शत्रुदारणे शूरः ।अश्मक्रियासु कुशलः सहस्थितैः सूर्यशशिभौमैः ॥१॥तेजस्वी निपुणमतिः शास्त्रकलगोष्ठिपानरतः ।नृपकृत्यकरो धीरो रविशशिशशिजैः सहैकस्थैः ॥२॥क्रुद्धो मायानिपुणः सेवाकुशलो विदेशगमनरतः ।मेधावी चपलमतिः सहस्थितैरर्कशशिजीवैः ॥३॥परधनहरणे निपुणः परदाररतश्च शास्त्रनिपुणश्च ।रविचन्द्रदैत्यपूज्यैरेकस्थैर्जायते मनुजः ॥४॥कामे विवादकुशलो मूर्खः परतन्त्रगो दरिद्रश्च ।सूर्यनिशाकररविजैरेकस्थैर्जायते मनुजः ॥५॥भवति ख्यातो मल्लः साहसिको निष्ठुरो विगतलज्जः ।धनसुतकलत्ररहितः सहस्थितैरर्ककुजसौम्यैः ॥६॥वचसि निपुणो महार्थः क्षितिपतिमन्त्री च भूपतिर्वाsपि ।सत्यवचनः प्रचण्डः सहस्थितैर्भौमगुरुसूर्यैः ॥७॥नयनातुरः कुलीनः सुभगो वाकूशल्यसंयुतो मनुजः ।भृगुभौमदिवसनाथैः सहस्थितैः स्याद्विभवयुक्तः ॥८॥विकलाङ्गो धनरहितो नित्यं रोगान्वितो मनुजः ।स्वजनरहितोsतिमूर्खः क्षितिजार्कजभानुभिः सहितैः ॥९॥नेत्रातुरोsतिधनवान् मूर्खः शास्त्रादिशिल्पकाव्यरतः ।वाचस्पतिबुधसूर्यैरेकगतैर्लिपिकरः पुरुषः ॥१०॥अतितप्तो वाचाटो भ्रमणरुचिः प्रोषितो गुरुभिः ।स्त्रीहेतोः सन्तप्तः शशिसुतरविभार्गवैः सहितैः ॥११॥क्लीबाचारो द्वेष्यः सर्वजितो बन्धुभिः परित्यक्तः ।सौरादित्येन्द्रुसुतैरेकस्थैर्जायते पुरुषः ॥१२॥दुर्बलचक्षुः शूरः प्राज्ञो निःस्वश्च भूपतेः सचिवः ।परकार्यरतो नित्यं भार्गवगुरुभास्करैः सहितैः ॥१३॥असदृशकायः पूज्यः स्वजनद्वेष्यः सुदारसुतमित्रः ।नृपतीष्टो विगतभयो जीवार्कजदिनकरैः सहितैः ॥१४॥शत्रुभयात्सोद्वेगो मानकलाकाव्यवर्जितो मनुजः ।कुत्सितचरितः कुष्ठी सितार्किरविसंयुतैर्भवति ॥१५॥पापकरा जायन्ते नीचाचाराः सुहृत्स्वजनहीनाः ।आजीविनश्च पुरुषाः शशाङ्कबुधभूमिजैः सहितैः ॥१६॥विनताङ्गः स्त्रीलोलश्चोरः कान्तश्च संमतः स्त्रीणाम् ।भौमशशाङ्कसुरेज्यैरेकस्थैश्चण्डरोषश्च ॥१७॥दुःशीलायाः पुत्रः पतिश्च तस्याः सदैव निर्दिष्टः ।कुजभ्रुगुशशिभिः सहितैर्भ्रमणरुचिः शीतभीतश्च ॥१८॥बाल्ये मृतजननीकः क्षुद्रो विषमश्च लोकविद्विष्टः ।जायेत नरो योगे भूसुतशशिभास्करसुतानाम् ॥१९॥धनवान्कल्यो वाग्मी तेजस्वी ख्यातिमान्विपुलकीर्तिः ।बहुपुत्रभ्रातृयुतो बुधेन्दुसुरपूजितैर्युक्तैः ॥२०॥विद्यासंस्कृतमतिरपि नीचाचारः पुमान्भवेज्जातः ।सौम्यो धनप्रलुब्धो बुधभार्गवचन्द्रसंयोगे ॥२१॥अस्वस्थो विकलाङ्गः प्राज्ञो वाग्मी सुपूजितः क्षितिपः ।भवति नरः संयोगे सौरेन्दुशशाङ्कपुत्राणाम् ॥२२॥साध्वीतनयः प्राज्ञः कलास्वभिज्ञो बहुश्रुतः साधुः ।भार्गवगुरुशशियोगे जातः सुभगो भवेत्पुरुषः ॥२३॥शास्त्रार्थतत्त्वबुद्धिर्वृद्धस्त्रीसङ्गतो विगतरोगः ।शशिवाचस्पतिसौरैरेकस्थैर्ग्रामवृन्दपतिः ॥२४॥लिपिकरपुस्तकवाचकपुरोधसां भवति जन्मसुकृतैश्च ।दैवविदां पुरुषाणां शशिभार्गवसौरिसंयोगे ॥२५॥सुकविः क्षोणीनाथः सद्युवतिपतिः परार्थ उद्युक्तः ।गान्धर्ववेदकुशलः स्याद्बुधगुरुभूसुतैः सहितैः ॥२६॥अकुलीनो विकलाङ्गश्चपलो दुष्टश्च जायते मनुजः ।मुखरो नित्योत्साही कुजबुधभृगुनन्दनैः सहितैः ॥२७॥प्रेष्यः श्यामलनेत्रः प्रवासशीलो भवेद्वदनरोगी ।रमते प्रहसनशीलैर्बुधार्किरुधिरैः सहैकस्थैः ॥२८॥नृपतीष्टः सुत्सुतवा न्विलासिनीभ्यः सदाप्तबहुसौख्यः ।सकलजनानन्दकरो भार्गवगुरुभूमिजैः सहितैः ॥२९॥नृपसंमतः क्षताङ्गो नीचाचारो विगर्हितो मित्रैः ।भवति नरो विगतघृणः सुरेज्यकुजसौरिसंयोगे ॥३०॥चारित्रविहीनायाः पुत्रो भर्ता भवेत्सुखविहीनः ।नित्यं प्रवासशीलः संयुक्तैः सौरिकुजशुकैः ॥३१॥सुतनुः क्षपितारिगणो नृपतिः सुभगस्तथा पृथुलकीर्तिः ।बुधगुरुशुक्रैः सहितैर्भवति नरः सत्यवचनश्च ॥३२॥स्थानधनैश्वर्ययुतं प्राज्ञं बहुभोगिनं स्वदाररतम् ।धृतिसौख्यरतं सुभगं जनयन्ति बुधार्कजीवाख्याः ॥३३॥मुखरो धूर्तोsनृतवाक् परयुवतिरतो भवेद्विषमशीलः ।बुधशुक्रसूर्यतनयैः कलास्वभिज्ञः स्वदेशरतः ॥३४॥न्यूने कुलेsपि जातो भवति नरो भूपतिर्विपुलकीर्तिः ।गुरुभार्गवदिनकरजैरेकस्थैः शीलसम्पन्नः ॥३५॥पापैर्युक्ते चन्द्रे मातुरभावः प्रकीर्तितप्रायः ।सूर्ये पितुस्तथान्यैः शुभं वदेन्मिश्रितैर्मिश्रम् ॥३६॥प्रायः शुभाः समेता धनभूतियशोन्वितं नृपतिचेष्टम् ।उत्पादयन्ति मनुजं भूमण्डलमण्डनं श्रेष्ठम् ॥३७॥पापास्त्रयोsपि मिलिताः कुर्वन्ति नरं सुदुर्भगं लोके ।दारिद्र्यदुःखतप्तं गर्हितरूपं विनयहीनम् ॥३८॥इति कल्याणवर्मविरचितायां सारावल्यां त्रिग्रहयोगो नाम षोडशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP