संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र ५१-५३ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र ५१-५३ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ५१-५३ Translation - भाषांतर अद्दष्टानियमात् ॥५१॥स्यादेतत् । अदृष्टनिमित्तो नियमो भविष्यतीति । नेत्याह ॥अदृष्टानियमात् ॥बहुष्वात्मस्वाकाशावत्सर्वगतेषु प्रतिशरीरं बाहयाभ्यन्तराविशेषेण संनिहितेषु मनोवाक्कायैर्धर्माधर्मलक्षणमदृष्टमुपार्ज्यते ।सांख्यानां तावत्तदनात्मसमवायिप्रधानवर्तिप्रधानासाधारण्यान्न प्रत्यात्मं सुखदु:खोपभोगस्य नियामकमुपपद्यते ।काणादानामपि पूर्ववत्साधारणेनात्ममन: संयोगेन निर्वर्तितस्यादृष्टस्याप्यस्यैवत्मन इदमदृमिति नियमे हेत्वभावादेष एव दोष: ॥५१॥अभिसंध्यादिष्वपि चैवम् ॥५२॥स्यादेतत् । अहमिदं फलं प्राप्नवानीदं परिहराणीत्थं प्रयत इत्थं करवाणीत्येवंविधा अभिसन्ध्यादय: प्रयात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति ।नेत्याह ।अभिसन्ध्यादिष्वपि चैवम् ॥अभिसन्ध्यादीनामपि साधारणेनैवात्ममन: संयोगेन सर्वात्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव ॥५२॥प्रदेशादिति चेन्नान्तर्भावात् ॥५३॥प्रदेशादिति चेन्नान्तर्भावात् ॥ अथोच्येत विभुत्वेऽप्यात्मन: शरीरप्रतिष्ठेन मनसा संयोग: शरीरावच्छिन्न एवात्मप्रदेशे भविष्यत्यत: प्रदेशकृता व्यवस्थाऽभिसन्ध्यादीनामदृष्टस्य सुखदु:खयोश्च भविष्यतीति ।तदपि नोपपद्यते ।कस्मात् ।अन्तर्भावात् ।विभुत्वाविशेषाद्धि सर्व एवात्मान: सर्वशरिरेष्वन्तर्भवन्ति ।तत्र न विअशेषिकै: शरीरावच्छिन्नोऽप्यात्मन: प्रदेश: कल्पयितुं शक्य: ।कल्प्यमानोऽप्ययं निष्प्रदेशस्यात्मन: प्रदेश: काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति ।शरीरमपि सर्वात्मसंनिधावुत्पद्यमानमस्यैवात्मनो नेतरेषामिति न नियन्तुं शक्यम् ।प्रदेशविशेषाभ्युपगमेऽपि च द्वयोरात्मनो: समानसुखदु:खभाजो: कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धि: स्यात् ।समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् ।तथा हि देवदत्तो यस्मिन्प्रदेशे सुखदु: खमन्वभूत्तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापीतरेण समान: सुखदु: खानुभवो दृश्यते स न स्याद्यदि देवदत्तयज्ञदत्तयो: समानप्रदेशमदृष्टं न स्यात् ।स्वर्गाद्यनुपभोग प्रसङ्गश्च प्रदेशवादिन: स्यात् ।ब्राम्हाणादिशरीरप्रदेशेष्वदृष्टनिष्पत्ते: प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्य ।सर्वगतत्वानुपपत्तिश्च बहूनामात्मनां दृष्टान्ताभावात् ।वद तावत्त्वं के बहव: समानप्रदेशाश्चेति ।रूपादय इति चेत् । न ।तेषामपि धर्म्यंशेनाभेदाल्लक्षणभेदाच्च ।न तु बहूमानात्मनां लक्षणभेदोऽस्ति ।अन्त्यविशेषवशाद्भेदोपपत्तिरिति चेत् । न ।भेदकल्पनाया अन्त्यविशेषकल्पनायाश्चेतरेतराश्रयत्वात् ।आकाशादीनामपि विभुत्वं ब्रम्हावादिनोऽसिद्धं कार्यत्वाभ्युपगमात् ।तस्मादात्मैकत्वपक्ष एव सर्वदोपाभाव इति सिद्धम् ॥५३॥इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवत्पूज्यपादकृतौ श्रीशारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य तृतीय: पाद: ॥३॥ N/A References : N/A Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP