तृतीयाः पाद: - सूत्र १८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


ज्ञोऽत एव ॥१८॥

ज्ञोऽत एवा ।
स किं काणभुजानामिवागन्तुकचैतन्य: स्वतोऽचेतन आहोस्वित्सांख्यानामिव नित्यचैतन्यस्वरूप एवेति वादिविप्रतिपत्ते: संशय: ।
किं तावत्प्राप्तम् ।
आगन्तुकमात्मनश्चैतन्यमात्ममन: संयोगजमग्निघट्संयोगजरोहितादिगुणवदिति प्राप्तम् ।
नित्यचैतन्यत्वे हि सुप्तमूर्च्छितग्रहविष्टानामपि चैतन्यं स्यात् ।
ते पृष्टा: सन्तो न किंचिद्वयमचेतयामहीति जल्पन्ति स्वस्थाश्च चेतयमाना दृश्यन्ते ।
अत: कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति ।
एवं प्राप्तेऽभिधीयते ।
ज्ञो नित्यचैतन्योऽमात्मात एव यस्मादेव नोत्पद्यते परमेव ब्रम्हाविकृतमुपाधिसंपर्काज्जीवभावेनावतिष्ठते ।
परस्य हि ब्रम्हाणश्चैतन्यस्वरूफत्वमान्नातं विज्ञानमानन्दं ब्रम्हा सत्यं ज्ञानमनन्तं ब्रम्हा ।
अनन्तरोऽबाह्य: कृस्न: प्रज्ञानघन एवेत्यादिषु श्रुतिषु ।
तदेव चेत्परं ब्रम्हा जीवस्तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्णप्रकाशवदिति गम्यते ।
विज्ञानमयप्रक्रियायां च श्रुतयो भवन्ति - असुप्त: सुप्तानभिचाकशीतीत्यत्रायं पुरुष: स्वयंज्योतिर्भवति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यत  इत्येवंरूपा: ।
अथ यो वेदेहं जिघ्राणीति स आत्मा इति च सर्वै: करणद्वारैरिदं वेदेदं वेदेति विज्ञानेनानुसंधानात्तद्रूपत्वसिद्धि: ।
नित्यस्वरूपचैतन्यत्वे घ्राणाद्यानर्थक्यामिति चेत् । न ।
गन्धादिविषयविशेषपरिच्छेदार्थत्वात् ।
तथा हि दर्शयति गन्धाय घ्राणमित्यादि ।
यत्तु सुप्तादयो न चेतयन्त इति तस्य श्रुत्यैव परिहारोऽभिहित: ।
सुषुप्तं प्रकृत्य यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टोर्विपरिलोपो विद्यतेऽविनाशित्वान्न् तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येदित्यादिना ।
एतदुक्तं भवति ।
विषयाभावादियमचेतयमानता न चैतन्याभावादिति ।
यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्याभावादनभिव्यक्तिर्न स्वरूपाभावात्तद्वत् ।
वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवति ।
तस्मान्नित्यचैतन्यस्वरूप एवात्मेति निश्चिनुम: ॥१८॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP