तृतीयाः पाद: - सूत्र ४७
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
स्मरन्ति च ॥४७॥
स्मरन्ति च ॥ स्मरन्ति च व्यासादयो यथा जैवेन दु:खेन न परमात्मा दु:खायत इति ।
तत्र य: परमात्मा हि स नित्यो निर्गुण: स्मृत ।
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥
कंमात्मा त्वपरो योऽसौ मोक्षबन्धै: स युज्यते ।
स सप्तदशाकेनापि राशिना युज्यते पुनरिति ।
चशब्दात्समामनन्ति चेति वाक्यशेष: ।
तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतीति ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदु:खेन बाहय इति च ।
अत्राह यदि तहर्येक एव सर्वेषां भूतानामन्तरात्मा स्यात्कथमनुज्ञापरिहारौ स्यातां लौकिकौ वैदिकौ चेति ।
ननु चांशो जीव ईश्वरस्येत्युक्तम् ।
तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते किमत्र चोद्यत इति ।
उच्यते । नैतदेवम् ।
अनंशतमपि हि जीवस्याभेदवादिन्य: श्रुतय: प्रतिपादयन्ति तत्सृष्ट्वा ।
तदेवानुप्राविशत् ।
नान्योऽतोऽस्ति द्रष्टा ।
मृत्यो: स मृत्युमाप्नोति य इह नानेव पश्यति ।
तत्त्वमसि ।
अहं ब्रम्हास्मीत्येवंजातीयका: ।
ननु बेदाभेदावगमाभ्यामंशत्वं सिध्यतीत्युक्तम् ।
स्यादेतदेवं यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्यातामभेद एव त्वत्र प्रतिपिपादयिषितो ब्रम्हात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धे: ।
स्वभावप्राप्तस्तु भेदोऽनूद्यते ।
न च निरवयवस्य ब्रम्हाणा मुख्योंऽशो जीव: संभवतीत्युक्तम् ।
तस्मात्पर एवैक: सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्याऽनुज्ञापरिहारोपपत्ति: ॥४७॥
N/A
References : N/A
Last Updated : December 12, 2014
TOP