संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र १४ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र १४ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १४ Translation - भाषांतर विपर्ययेण तु क्रमोऽत उपपद्यते च ॥१४॥विपर्ययेण तु क्रमोस्त उपपद्यते च ।भूतानामुत्पत्तिक्रमस्चिन्तित: ।अथेदानीमप्ययक्रमश्चिन्त्यते किमनियतेन क्रमेणाप्यय उतोत्पत्तिक्रमेणाथ वा तद्विपरीतेनेति ।व्रयोऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्रम्हायत्ता: श्रूयन्ते यतो वा इमानि भूतानि जायन्ते ।येन जातानि जीवन्ति ।यत्प्रयन्त्यभिसंविशन्तीति ।तत्रानियमोऽविशेषादिति प्राप्तम् ।अथवोत्पत्ते: क्रमस्य श्रुतत्वात्प्रलयस्याऽपि क्रमाकाङक्षिण: स एव क्रम: स्यादिति ।एवं प्राप्तं ततो ब्रूम: ।विपर्ययेण तु प्रलयक्रमोऽत उत्पत्तिक्रमाद्भवितुमर्हति ।तथा हि लोके दृश्यते येन क्रमेण सोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति ।अपि च दृश्यते मृदो जातं घटशरावाद्यप्ययकाले मृद्भावमप्येत्यद्भयश्च जातं हिमकरकाद्यब्भावमप्येतीति ।अतश्चोपपद्यत एतत् ।यत्पृथिव्यद्भयो जाता सती स्थिति कालव्यतिकान्ता वपोऽपीयादापश्च तेजसो जाता: सत्यस्तेजोऽपीयुरेवं कमेण सूक्ष्मं सूक्ष्मतरं चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रम्हाप्येतीति वेदितव्यम् ।न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्य: ।स्मृतावप्युत्पतिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितो जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।ज्योतिष्याप: प्रलीयन्ते ज्योतिर्वायौ प्रलीयत इत्येवमादौ ।उत्पत्तिक्रमस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति न चासावयोग्यत्वादप्ययेनाकाङक्ष्यते न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्त: ।कारणाप्यये कार्यस्यावस्थानानुपपत्ते: ।कार्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं वृष्टत्वात् ॥१४॥ N/A References : N/A Last Updated : December 09, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP