तृतीयाः पाद: - सूत्र ३८-३९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


शक्तिविपर्ययात् ॥३८॥

शक्तिविपर्ययात् ।
इतश्च विज्ञनव्यतिरिक्तो जीव: कर्ता भवितुमर्हति ।
यदिपुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात्तत: शक्तिविपर्यय: स्यात् ।
करणशक्तिबुद्धेर्हीयेत कर्तृशक्तिश्चापद्येत ।
सत्यां च बुद्धे: कर्तृसकौ तस्या एवाहंप्रत्ययविषयत्वमभ्युपगन्तव्यम् ।
अहङ्कारपूर्विकाया एव प्रवृत्ते: सर्वत्र दर्शनात् ।
अहं गच्छाम्यहमागच्छाम्यहं भुञ्जेऽहं पिबामीति च ।
तस्याश्च कर्तृशक्तियुक्ताया: सर्वार्थकारि करणमन्यत्कल्पैय्तव्यम् ।
शक्तोऽपि हि सन्कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यत इति ।
ततश्च संज्ञामात्रे विवाद: स्यान्न वस्तुभेद: कश्चित् ।
करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात् ॥३८॥

समाध्यभावाच्च ॥३९॥

समाध्यभावाच्च ।
योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयौजन: समाधिरुपदिष्टो वेदान्तेष्वात्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य: सोऽन्वेष्टव्य: स विजिज्ञासितव्य ओमित्येवं व्यायथा आत्मानमित्यवंलक्षण: सोऽप्यसत्यात्मन: कर्तृत्वे नापपद्येत ।
तस्मादप्यस्य कर्तृत्वसिद्धि: ॥३९॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP