संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र ७ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र ७ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ७ Translation - भाषांतर यावद्विकारं तु विभागो लोकवत् ॥७॥यत्पुनरेतदुक्तमसंभवाद्नौणी गगनस्योत्पत्तिश्रुतिरिति ।अत्र ब्रूम: ।यावद्विकारं तु विभागो ॥तुशब्दोऽसंभवाशङ्काव्यावृत्त्यर्थ: ।न खल्वाकाशोत्पत्तावसंभवाशङ्का कर्तव्या ।यतो यावत्किंचिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा कटककेयृरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागो लोके लक्ष्यते न त्वविकृतं किंचित्कुतश्चिद्विभक्तमुपलभ्यते ।विभागश्चाकाशस्य प्रथिव्यादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति । न ।आत्मन आकाश: संभूत इति श्रुते: ।यदि हयात्मापि विकार: स्यात्तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मन: कार्यत्वे स्यात ।तथा च शून्यवाद: प्रसज्येत ।आत्मत्वाच्चात्मनो निराकरणशङ्गकानुपपत्ति: ।न हयात्माऽऽगनुक: कस्यचित्स्वयं सिद्धत्वात् ।न हयात्माऽऽत्मन: प्रमाणमपेक्ष्य सिध्यति ।तस्य हि प्रत्यक्षादीनि प्रमाणान्यसिद्धप्रमेयसिद्धय उपादीयन्ते ।न हयाकाशादय: पदर्था: प्रमाणनिरपेक्षा: स्वयं सिद्धा: केनचिदभ्युपगम्यन्ते ।आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति ।न चेदृशस्य निराकरणं संभवति ।आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् ।य एवं हि निराकर्ता तदेव तस्य स्वरूपम् ।न हयग्नेरौष्ण्यमग्निना निराक्रियते ।तथाहमेवेदानीं जानामि वर्तमानं वस्त्वहमेवातीतमतीततरं चाज्ञासिषमहमेवानागतमनागततरं च ज्ञास्यामित्यतीतानागतवर्तमानभावेनान्यथा भवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति सर्वदा वर्तमानस्वभावत्वात् ।तथा भस्मीभवत्यपि देहे नात्मन उच्छेदो वर्तमानस्वभावादन्यस्वभावत्वं वा न संभावयितुं शक्यम् ।एवमप्रत्याख्येयस्वभावत्वादकार्यत्वमात्मन: कार्यत्वं चाकाशस्य ।यत्तूकं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति तत्प्रत्युच्यते ।न तावत्समानजातीयमेवारभते न भिन्नजातीयमिति नियमोऽस्ति ।न हि तन्तूनां तत्संयोगानां च समानजातियत्वमस्ति द्रव्यगुणत्वाभ्युपगमात् ।न च निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति ।स्यादेतत् । समवायिकारणविषय एव समानजातीयत्वाभ्युपगमो न कारणान्तरविषय इति तदप्यनैकान्तिकम् ।सूत्रगोवालैहर्यनेकजातीयैरेका रज्जु: सृज्यमाना दृश्यते ।तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलन्वितन्वते ।सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यं सर्वस्य सर्वेण समानजातीयकत्वात् ।नाप्यनेकमेवारभते नैकमिति नियमोऽस्ति ।अणुमनसोराद्यकर्मारम्भाभ्युपगमात् ।एकैको हि परमाणुर्मनश्चाद्यं कर्मारभते न द्रव्यान्तरै: संहत्येत्यभ्युपगम्यते ।द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेन्न ।पर्माणाभ्युपगमात् । भवेदेष नियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत ।तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते ।तच्च क्वचिदनेकं परिणमते मृद्वीजाद्यङ्कुरादिभावेन क्वचिदेकं परिणमते क्षीरादिदध्यादिभावेन ।नेश्वरशासनमस्त्यनेकमेव कारणं कार्यं जनयतीति ।अत: श्रुतिप्रामण्यादेकस्मादब्रम्हाण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्रीयते ।तथा चोक्तमुपसंहारदर्शनान्नेति चेन्न क्षीरवद्धीति ।यच्चोक्तमाकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेष: संभावयितुं शाक्यत इति तदयुक्तम् ।येनैव हि विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभ: स्वरूपवदिदानीमध्यवसीयते स एव विशेष: प्रागुत्पत्तेर्नासीदिति गम्यते ।यथा च ब्रम्हा न स्थूलादिभिं: पृथिव्यादिस्वभावै: स्वभाववदस्थूलमनण्वित्यादिश्रुतिभ्य एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते ।तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम् ।यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति तदप्यसत् ।श्रुतिविरोधे सत्युत्पत्त्यसंभवानुमानस्याभासत्वोपपत्ते: ।उत्पत्त्यनुमानस्य च दर्शितत्वात् ।अनित्यमाकाशमनित्यगुणाश्रयत्वाद्धटादिवदित्यादिप्रयोगसंभवाच्च ।आत्मन्यनैकान्तिकमिति चेत् । न ।तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धे: ।विभुत्वादीनां चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् ।यच्चोक्तमेतच्चब्दाच्चेति तत्रामृतत्वश्रुतिस्तावद्वियत्यमृता दिवौकस इतिवद्द्रष्टव्या ।उत्पत्तिप्रलययोरुपपादितत्वात् ।आकाशवत्सर्वगतश्च नित्य इत्यपि प्रसिद्धमहत्त्वेनाकाशोपमानं क्रियते निरतिसयमहत्त्वाय नाकाशसमत्वाय ।यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्यगतित्वाय तद्वत् ।एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता ।ज्यायानाकाशादित्यादिश्रुतिभ्यश्च ब्रम्हाण आकाशस्योनपरिमाणत्वसिद्धि: ।न तस्य प्रतिमास्तीति च ब्रम्हाणोऽनुपमानत्वं दर्शयति ।अतोऽन्यदार्त्तमिति च ब्रम्हाणोऽन्येषामाकाशादीनामार्तत्वं दर्शयति ।तपसि ब्रम्हाशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसंभवश्रुत्यनुमानाभ्यां परिहृतम् ।तस्मादब्रम्हाकार्यं वियदिति सिद्धम् ॥७॥ N/A References : N/A Last Updated : December 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP