संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र ४९-५० तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र ४९-५० ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४९-५० Translation - भाषांतर असन्ततेश्चाव्यतिकर: ॥४९॥असन्ततेश्वाव्यतिकर: ॥ स्यातां नामानुज्ञापरिहरारावेकस्याप्यात्मनो देहविशेषयोगात् ।तस्त्वयं कर्मफलसंबन्ध: स चैकात्म्याभ्युपगमे व्यतिकीर्येत स्वाम्येकत्वादिति चेत् ।नैतदेवम् ।असन्तते: । न हि कर्तुर्भोक्तुश्चात्मन: संतति: सर्वै: शरीरै: संबन्धोऽस्ति ।उपाधितन्त्रो हि जीव इत्युक्तम् ।उपाध्यसन्तानाच्च नास्ति जीवसन्तान: ।ततश्च कर्मव्यतिकर: फलव्यतिकरो वा न भविष्यति ॥४९॥आभास एव च ॥५०॥आभास एव चा ॥ आभास एव चैषां जीव: परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्य: ।न स एव साक्षात् ।नापि वस्त्वन्तरम् ।अतश्च यथा नैकस्मिञ्चलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पत एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्ध: । एवमप्यव्यतिकर एव कर्मफलयो: ।आभासस्य चाविद्याकृतत्वाततदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति ।तद्वयुदासेन च परमार्थिकस्य ब्रम्हात्मभावस्योपदेशोपपत्ति: ।येषां तु बहव आत्मानस्ते च सर्वे सर्वगतास्तेषामेवैष व्यतिकर: प्राप्नोति ।कथम् । बहवो विभवश्वात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च तदर्थं साधारणं प्रधानं तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्या: ।सति बहुत्वे विभुत्वे च घटकुडयादिसमाना द्रव्यमात्रस्वरूपा: स्वतोऽचेतनाआत्मानस्तदुपकरणानि चाणूनि मनांस्यचेतनानि ।तत्रात्मद्रव्याणां मनोद्रव्याणां च संयोगान्नवेच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते ।ते चाव्यतिकरेण प्रत्येकमात्मसु समवयन्ति स संसार: । तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादा: ।तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्चैकस्य सुखदु:खसंबन्धे सर्वेषां सुखदु:खसंबन्ध: प्राप्नोति ।स्यादेतत् ।प्रधानप्रवृत्ते: पुरुषकैवल्यार्थत्वाव्द्यवस्था भविष्यति ।अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्ति: स्यात् ।तथा चानिर्मोक्ष: प्रसज्येतेति ।नैतत्सरम् ।न हयभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् ।उपपत्त्या तु कयाचिव्द्यवस्थोच्येत ।असत्यां पुनरुपपत्तौ कामं मा भूदभिलपितं पुरुषकैवल्यं प्राप्नोति तु व्यवस्थाहेत्वभावाव्द्यतिकर: ।काणादानामपि यदैकेनात्मना मन: संयुज्यते तदात्मान्तरैरपि नान्तरीयक: संयोग: स्यात्संनिधानाद्यविशेषात् ।ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मन: सुखदु:खसंयोगे सर्वात्मनामपि समानं सुखदु:खित्वं प्रसज्येत ॥५०॥ N/A References : N/A Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP