संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र ५ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र ५ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ५ Translation - भाषांतर स्याच्चैकस्य ब्रम्हाशब्दवत् ॥५॥स्याच्चैकस्य ब्रम्हाशब्दवत् । इंद पदोत्तरं सूत्रम् । स्यादेतत् ।कथं पुनरेकस्य संभूतशब्दस्य तस्माद्वा एतस्मादात्मन आकाश: संभूत इत्यस्मिन्नधिकारे परेपु तेज:प्रभतिष्वनुवर्तमानस्यमुख्यत्वं संभवत्याकासे च गौणत्वमिति ।अत उत्तरमुच्यते ।स्याच्चैकस्यापि संभूतशब्दस्य विषयविशेषवशाद्नौणो मुख्यश्च प्रयोगो ब्रम्हाशब्दवत् ।यथैकस्यापि ब्रम्हाशब्दस्य तपसा ब्रम्हा विजिज्ञासस्व तपो ब्रम्होत्यस्मिन्नधिकारेऽन्नादिषुगौण: प्रयोग आनन्दे च मुख्यो यथा च तपसि ब्रम्हाविज्ञानसाधने ब्रम्हाशब्दो भक्त्या प्रयुज्यतेऽञ्जसा तु विज्ञेये ब्रम्हाणि तद्वत् । कथं पुनरनुत्पत्तौ नभस एकमेवाद्वितीयमितीयं प्रतिज्ञा समर्थ्यते ।ननु नभसा द्वितीयेन सद्वितीयं ब्रम्हा प्राप्नोति कथं च ब्रम्हाणि विदिते सर्वं विदितं स्यादिति ।तदुच्यते । एकमेवेति तावत्स्त्रकार्यापेक्षयोपपद्यते ।यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयान्मृदेवैकाकिनी पूर्वेद्युरासीदिति स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयान्न दण्डचक्रादि तद्वत् ।अद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयति यथा मृदोऽमत्रप्रकृते: कुम्भकारोऽधिष्ठातास्तीति ।न च नभसाऽपि द्वितीयेन सद्वितीयं ब्रम्हा प्रसज्यते ।लक्षणान्यत्वनिमित्तं हि नानात्वम् ।न च प्रागुत्पत्तेर्ब्रम्हानभसोर्लक्षणान्यत्वमस्ति ।क्षीरोदकयोरिव संमृष्टयोर्व्यापित्वामूर्तत्वादिधर्मसामान्यात् ।सर्गकाले तु ब्रम्हा जगदुतत्पादयितुं यतते स्तिमितमितरत्तिष्ठतितेनान्यत्वमवसीयते । तथा चाकांशशरीरं ब्रम्होत्यादिश्रुतिभ्योऽपि ब्रम्हाकाशयोरभेदोपचारसिद्धि: ।अत एव च ब्रम्हाविज्ञानेन सर्वविज्ञानसिद्धि: ।अपि च सर्वं कार्यंमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते ब्रम्हाणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीत्यतो ब्रम्हाणा अत्कार्येण च विज्ञातेन सह विज्ञातमेवाकाशं भवति ।यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दव: प्रक्षिप्ता: सन्त: क्षीरग्रहणेनैव गृहीता भवन्ति न हि क्षीरग्रहणादब्विन्दुग्रहणं परिशिष्यत एवं ब्रम्हाणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वाद्रृहीतमेव ब्रम्हाग्रहणेन नभो भवति ।तस्माद्भाक्तं नभस: संभवश्रवणमिति ॥५॥ N/A References : N/A Last Updated : December 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP