संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र २६ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र २६ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २६ Translation - भाषांतर व्यतिरेको गन्धवत् ॥२६॥कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत न हि पटस्य शुक्लो गुण: पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते ।प्रदीपप्रभावद्भवेदिति चेत् । न ।तस्या अपि द्रव्यत्वाभ्युपगमात् ।निबिडावयवं हि तेजोद्रव्यं प्रदीप: ।प्रविरलावयवं तु ज्तेजोद्रव्यमेव प्रभेति ।अत उत्तरं पठति ।व्यतिरेको गन्धवत् ॥यथा गुणस्याऽपि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति - अप्राप्तेप्वपि कुसुमादिषु गन्धवत्सु गन्धोपलब्धे: - एवमनोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति ।अतश्रानैकान्तिकमेतद्रुपादिवदाश्रयविश्लेषानुपपत्तिरिति ।गुणस्यैव सतो गन्धस्याश्रयविश्लेषदर्शनात् ।गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् । न ।यस्मान्मूलद्रव्याद्विश्लेषस्तस्य क्षयप्रसङ्गात ।अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते ।अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत ।स्यादेतत् । गन्धाश्रयाणां विश्लिष्ताअनामवयवानामल्पत्वात्सन्नपि विश्लेषो नोपलक्ष्यते ।सूक्ष्मा हि गन्धपरमाणव: सर्वतो विप्रसृता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत् । न ।अतीन्द्रियत्वात्परमाणुनां स्फुटगन्धोपलब्धेश्च नगकेसरादिषु । न च लोके प्रतितिर्गन्धवद्द्रव्यमाघ्रातमिति गन्ध एवाघ्रात इति तु लौकिका: प्रतीयन्ति ।रूपादिष्वाश्रयवतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत् । न ।प्रत्यक्षत्वादनुमानाप्रवृत्ते: ।तस्माद्यद्यथा लोके दृष्टं तत्तथैवानुमन्तव्यं निरूपकैर्नान्यथा । न हि रसो गुणो जिव्हायोपलभ्यत इत्यतो रूपादयोऽपि गुणा जिव्हायैवोपलभ्येरन्निति नियन्तुं शक्यते ॥२६॥ N/A References : N/A Last Updated : December 10, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP