संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र १७ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र १७ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १७ Translation - भाषांतर नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्य: ॥१७॥नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्य: । अस्त्यात्मा जीवाख्य: शरीरेन्द्रियपञ्जराध्यक्ष: कमंफलसंबन्धी ।स किं व्योमादिवदुत्पद्यते ब्रम्हाण आहोस्विदब्रम्हावदेव नोत्पद्यत इति श्रुतिविप्रतिपत्तेर्विशय: ।कामुचिच्छुतिष्वग्निविस्फुविस्फुलिङ्गादिनिदर्शनैर्जीवात्मन: परस्मादब्रम्हाण उत्पत्तिरान्नायते कासुचित्त्वविक्रुतस्यैव परस्य ब्रम्हाण: कार्यप्रवेशेन जीवभावो विज्ञायते न चोत्पत्तिरान्नायत इति ।तत्र प्राप्तं तावदुत्पद्यते जीव इति ।कुत: । प्रतिज्ञानुपरोधादेव ।एकस्मिन्विदिते सर्वमिदं विदितमितीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रम्हाप्रभवत्वे सति नोपरुध्येत ।तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्ये । न चाविकृत: परमात्मैव जीव इति शक्यते विज्ञातुं लक्षणभेदात् ।अपहतपाप्मत्वादिधर्मको हि परमात्मा तद्विपरीतो हि जीव: ।विभागाच्चास्य विकारत्वसिद्धि: ।यावान्हयाकाशादि: प्रविभक्त: स सर्वो विकारस्तस्य चाकाशादेरुत्पत्ति: समधिगता ।जीवात्मापि पुण्यापुण्यकर्मा सुखदु:खयुक्प्रतिशरीरं विभक्त इति तस्यापि प्रपञ्चोत्पत्त्यवसर उत्पत्तिर्भवितुमर्हति ।अपि च यथाग्ने: क्षुद्रा विस्फुलिङ्गा व्यौच्चरन्त्येवमेवास्मादात्मन: सर्वे प्राणा इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्टवा सर्व एत आत्मानो व्युच्चरन्तीति भोक्तृणामात्मनां पृथक्सृष्टिं शास्ति ।यथा सुदीप्तात्पावकाद्विस्फुलिङगा: सहस्रशा: प्रभवन्ते सरूपा: ।तथाक्षराद्विविधा: सोम्य भावा: प्रजायन्ते तत्र चैवापि यन्तीति च जीवात्मनामुत्पत्तिप्रलयावुच्येते ।सरूपवचनाज्जीवात्मानो हि परमात्मना सरूपा भवन्ति चैतन्ययोगात् ।न च क्वचिद्श्रवणमन्यत्र श्रुतं वारयितुमर्हति ।श्रुत्यन्त्रगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात्।प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या तदात्मान स्वयमकुरुतेत्यादिवत् ।तस्मादुत्पद्यते जीव इति ।एवं प्राप्ते ब्रूम: ।नात्मा जीव उत्पद्यत इति । कस्मात् । अश्रुते: ।न हयस्योत्पत्तिप्रकरणे श्रवणमस्ति भूय:सु प्रदेशेषु ।ननु क्वचिदश्रवणमन्त्रत्र श्रुत न वारयतीत्युक्तम । सत्यमुक्तम् । उत्पत्तिरेव त्वस्य न संभवतीति वदाम: ।कस्मात् ।नित्यत्वाच्च ताभ्य: ।चशब्दादजत्वादिभ्यश्च ।नित्यत्वं हयस्य श्रुतिभ्योऽवगम्यते तथाजत्वमविकारित्वमविकृतस्यैव ब्रम्हाणो जीवात्मनावस्थानं ब्रम्हात्मना चेति ।न चैवंरूपस्योत्पत्तिरुपपद्यते ।ता: का: श्रुतय: ।न जीवो म्रियते स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रम्हा न जायते म्रियते वा विपश्चिदजो नित्य: शाश्चतोऽयं पुराणस्तत्सृष्ट्वा तदेवानुप्राविशदनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि स एष इह प्रविष्ट आनखाग्रेभ्यस्तत्त्वमस्यहं ब्रम्हास्म्ययमात्मा ब्रम्हा सर्वानुभूरित्येवमाद्या नित्यत्ववादिन्य: सत्यो जीवस्योत्पत्तिं प्रतिबन्धन्ति ।ननु प्रविभक्तत्वाद्विकारोविकारत्वाच्चोत्पद्यत इत्युक्तम ।अत्रोच्यते ।नास्य प्रविभाग: स्वतोऽस्ति ।एको देव: सर्वभूतेषु गूढ: सर्वव्यापी सर्वभूतान्तरात्मेति श्रुते: ।बुद्धयाद्युपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येव घटादिसंबन्धनिमित्तम् ।तथा च शास्त्रं स वा अयमात्मा ब्रम्हा विज्ञानमयो मनोमय: प्राणमयश्चक्षुर्मय: श्रोत्रमय इत्येवमादि ब्रम्हाण एवाविकृतस्य सतोऽस्यैकस्यानेकबुद्धादिमयत्वं दर्शयति ।तन्मयत्वं चास्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इत्यादिवद्द्रव्यम् ।यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसंबन्धान्नेतव्यम् ।उपाध्युत्पत्त्या चास्योत्पत्तिस्तत्प्रलये च प्रलय इति ।तथा च दर्शयति ।प्रज्ञानघन एवैतेभ्यो भूतेभ्य: समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीति ।तथोपाधिप्रलय एवायं नात्मप्रलय इत्येतदप्यत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञाऽस्तीति प्रश्नपूर्वकं प्रतिपादयति ।न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतीति ।प्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्रम्हाणो जीवभावाभ्युपगमात् ।लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव ।अत ऊर्ध्वं विमोक्षायैव ब्रूहीति च प्रकृतस्यैव विज्ञानमयस्यात्मन: सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात् ।तस्मान्नैवात्मोत्पद्यते प्रविलीयते चेति ॥१७॥ N/A References : N/A Last Updated : December 09, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP