संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र १० तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र १० ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १० Translation - भाषांतर तेजोऽतस्तथा हयाह ॥१०॥तेजोऽतस्तथा हयाह । छान्दोग्ये सन्मूलत्वं तेजस श्रावितं तैत्तिरीयके तु वायुमूलत्वं तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्यां प्राप्त तावदब्रम्हायोनिकं तेज इति । कुत: । सदेवेत्युपक्रम्य तत्तेजोऽसृजतेत्युपदेशात् ।सर्वविज्ञानप्रतिज्ञायाश्च ब्रम्हाप्रभवत्वे सर्वस्य संभवात् ।तज्जलानिति चाविशेषश्रुते: ।एतस्माज्जायते प्राण इति चोपक्रम्य श्रुत्यन्तरे सर्वस्याविशेपेण ब्रम्हाजतोपदेशात् ।तैत्तिरीयके च स तपस्तप्त्वा ।इदसर्वमसृजत । यदिदं किंच ।इत्यविशेषश्रवणात् । तस्माद्वायोरग्निरिति क्रमोपदेशो द्रष्टव्यो वायोरनन्तरमन्गि: संभूत इति ।एवं प्राप्त उच्यते । तेजोऽतो मातरिश्वनो जायत इति ।कस्मात् । तथा हयाह वायोरग्निरिति ।अव्यवहिते हि तेजसो ब्रम्हाजत्वे सत्यसति वायुजत्वे वायोरग्निरितीयं श्रुति: कदर्थिता स्यात् ।ननु क्रमार्थैषा भविष्यतीत्युक्तम् । नेति ब्रूम: ।तस्माद्वा एतस्मादात्मन आकाश: संभूत इति पुरस्तात्संभवत्यपादानस्यात्मन: पञ्चमीनिर्देशात्तस्यैव च संभवतेरिहाधिकारात्परस्तादपि च तदधिकारे पृथिव्या ओषधय इत्यपादानपञ्चमीदर्शनाद्वायोरग्निरित्यपादानपञ्चम्येवैषेति गम्यते ।अपि च वायोरूर्ध्वमग्नि: संभूत इति कल्प्य उपपदार्थयोग: क्लृप्तस्तु कारकार्थयोगो वायोरग्नि: संभूत इति ।तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसोऽवगमयति ।नन्वितरापि श्रुतिर्ब्रम्हायोनित्वं तेजसोऽवगमयति तत्तेजोऽसृजतेति । न ।तस्या: पारम्पर्यजत्वेऽप्यविरोधात् ।यदापि हयाकाशं वायुं च सृष्टवा वायुभावापन्नं ब्रम्हा तेजोऽसृजतेति कल्प्यते तदापि ब्रम्हाजत्वं तेजसो न विरुध्यते यथा तस्या: श्रृतं तस्या दधि तस्या आमिक्षेत्यादि ।दर्शयति च ब्रम्हाणो विकारात्मनावस्थानं तदात्मान स्वयमकुरुतेति ।तथा चेश्वरस्मरणं भवति ।बुद्धिर्ज्ञानमसंमोह इत्याद्यनुक्रम्य भवन्ति भावा भूतानां मत्त एव पृथग्विधा इति ।यद्यपि बुद्धयादय: स्वकारणेभ्य: प्रत्यक्षं भवन्तो दृश्यन्ते तथापि सर्वस्य भावजातस्य साक्षात्प्रणाडया वेश्चरवंश्यत्वात् ।एतेनाक्रमसृष्टिवादिन्य: श्रुतयो व्याख्याता: ।तासं सर्वथोपपने: ।क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्ते: ।प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते नाव्यवहितजन्यत्वमित्यविरोध: ॥१०॥ N/A References : N/A Last Updated : December 09, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP