तृतीयाः पाद: - सूत्र २९
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
तदनुणसारत्वात्तुतद्वयपदेश: प्राज्ञवत् ॥२९॥
तशब्द: पक्षं व्यावर्तयति । नैतदस्त्यणुरात्मेति ।
उत्पत्त्यश्रवणात्परस्यैव तु ब्रम्हाण: प्रवेशश्रवणात्तादात्म्योपदेशाच्च परमेव ब्रम्हा जीव इत्युक्तम् ।
परमेव चेद्द्रहय जीव्स्तस्माद्यावत्परं ब्रम्हा तावानेव जीवो भवितुमर्हति परस्य च ब्रम्हाणो विभुत्वमान्नातम् ।
तस्माद्विभुर्जीव: ।
तथा च स वा एष महानज आत्मा योऽयं विज्ञानमय: प्राणेष्वित्येवंजातीयका जीवविषया विभुत्ववादा: श्रौता: स्मार्ताश्च समर्थिता भवन्ति ।
न चाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते ।
त्वक्संबधात्स्यादिति चेत् । न ।
कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत ।
त्वक्कण्टकयोर्हि संयोग: कृत्स्नयां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति ।
पादतल एव तु कण्टकनुन्नो वेदनां प्रतिलभते ।
न चाणोर्गुणव्याप्ति रुपपद्यते गुणस्य गुणिदेशत्वात् ।
गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत ।
प्रदीपपरभायाश्च द्रव्यान्तरत्वं व्याख्यातम् ।
गन्धोऽपि गुणत्वाभ्युपगमात्साश्रयएव संचरितुमर्हति ।
अन्यथा गुणत्वहानिप्रसङगात् ।
तथा चोक्तं भगवता द्वैपायनेन ।
उपलभ्याप्सु चेन्द्रन्धं केचिदब्रूयुरनैपुणा: ।
पृथिव्यामेव तं विद्यादपो वायुं च संश्रितमिति ।
यदि च चैतन्यं जीवस्य समस्तशरीरं व्याप्नुयान्नाणुर्जीव: स्यात् ।
चैतन्यमेव हयस्य स्वरूपमग्नेरिवौष्ण्यप्रकाशौ ।
नात्र गुणगुणिविभागो विद्यते इति ।
शरीरपरिमाणत्वं च प्रत्याख्यातम् ।
परिशेषाद्विभुर्जीव: ।
कथं तहयणुत्वादिव्यपदश इत्यत आह तदनुणसारत्वात्तु तव्द्यपदेश इति ।
तस्या बुद्धेर्गुणास्तदनुणा इच्छा द्वेष: सुखं दु:खमित्येवमादय: ।
तदनुणा: सार: प्रधानं यस्यात्मन: संसारित्वे संभवति स तदनुणसारस्तस्य भावस्तदनुणसारत्वम् ।
न हि बुद्धेर्गुणैर्विना केवलस्यात्मन: संसारित्वमस्ति ।
बुद्धयुपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वमकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मन: ।
तस्मात्तदनुणसारत्वादबुद्धिपरमाणेनास्य पर्माणव्यपदेश: ।
तदुत्क्रान्य्त्यादिभिश्चास्योत्क्रान्त्यादिव्यपदेशोन स्वत: ।
तथा च बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीव; स विज्ञेय: स चानन्त्याय कल्पतैत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह ।
तच्चैवमेव समञ्जस स्याद्यद्यौपचारिकमणुत्वं जीवस्य भवेत्पारमार्थिकं चानन्त्यम् ।
न हयुभयं मुख्यमवकल्पेत ।
न चानन्त्यमौपचारिकमिति सक्यं विज्ञातुं सर्वोपनिषत्सु ब्रम्हात्मभावस्य प्रतिपिपादयिषितत्वात् ।
तथेतरस्मिन्नप्युन्माने बुद्धेर्गुणेनात्मगुणेन चैवाराग्रमात्रो हयवरोऽपि द्दष्ट इति च बुद्धिगुणसंबन्धेनैवाराग्रमात्रतां शास्ति न स्वेनैवात्मना ।
एषोऽणुरात्मा चेतसा वेदितव्य इत्यत्राऽपि न जीवस्याणुपरिमाणत्वं शिष्यते परस्यैवात्मनश्वक्षुराद्यनवग्राहयत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् ।
जीवस्याऽपि च मुख्याणुपरिमणत्वानुपपत्ते: ।
तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनमुपाध्यभिप्रायं वा द्रष्टव्यम् ।
तथा प्रज्ञया शरीरं समारुहयेत्येवंजातीयकेष्वपि भेदोपदेशेषु बुद्धयैवोपाधिभूतया जीव: शरीरं समारुहयेत्येवं योजयितव्यम् ।
व्यपदेशमात्रं चात्र शिलापुत्रकस्य शरीरमित्यादिवत् ।
न हयत्र गुणगुणिविभागो विद्यत इत्युक्तम् ।
ह्रदयायतनत्ववचनमपि बुद्धेरवे तदायतनत्वात् ।
तथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति कस्मिन्न्वहमुत्क्राअन्त उत्क्रन्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजतेति ।
उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते ।
न हयनपसृप्तस्य देहादनत्यागती स्याताम् ।
एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेश: प्राज्ञवत् ।
यथा प्राज्ञस्य परमात्मन: सगुणेषूपासनेषूपाधिगुन्सारत्वादणीयस्त्वादिव्यपदेशोऽणीयान्त्रीहेर्वा यवाद्वा मनोमय: प्राणशरीर: सर्वगन्ध: सर्वरस: सत्यकाम: सत्यसंकल्प इत्येवंप्रकारस्तद्वत् ॥२९॥
N/A
References : N/A
Last Updated : December 10, 2014
TOP