हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
कालीकर्पूर स्तोत्रम्

कालीतंत्र - कालीकर्पूर स्तोत्रम्

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


कालीकर्पूर स्तोत्रम्

कालीकर्पूर स्तोत्र भी महाकाल द्वारा रचित है । इस स्तोत्र का प्रातः या सायं नित्य देवी पूजन के बाद पाठ करने से पाठकर्ता कुबेरसम धनी होता है तथा वह सृष्टिगत जीवों का वशीकरण करने में समर्थ होता है । उसके शत्रु का बंधन होता है तथा पाठकर्ता स्वयं दीर्घायु होकर सकल पदार्थों का भोग करने के पश्चात देवी के आश्रय में जाता है ।

कर्पूरं मध्यमात्यस्वरपरिरहितं सेन्दुवामाक्षि युक्तं ।
बीजं ते मातरेरत्त्रिरहर वधु त्रिःकृतं ये जपन्ति ॥
तेषां गद्यानि पद्यानि च मुख कुहरा दुल्लसन्त्येव वाचः ।
स्वच्छन्दं ध्वान्तधाराधररुचि रुचिरे सर्वसिद्धिं गतानाम् ॥
ईशानः सेन्दुवाम श्रवणपरिगतो बीजमन्यन्महेशि ।
द्वन्द्वं ते मन्दचेता यदि जपति जनो वार मेकं कदाचित् ॥
जित्वा वाचामधीशं धनदमपिचिरं मोह यन्त्यम्बुजाक्षी ।
वृन्दं चन्द्रार्द्धचूडे प्रभवति स महाघोर शावावतंसे ॥
ईशोवैश्वानरस्थः शशधर विलसद् वाम नेत्रेण युक्तो ।
बीजं ते द्वन्द्वमन्यद्विगलित चिकुरे कालिके ये जपन्ति ॥
द्वेष्टारंध्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति ।
सृक्द्वन्द्वास्त्रधाराद्वयधरवदने दक्षिणे कालिकेति ॥
ऊर्ध्व वामे कृपाणं करकमलतले छिन्नमुण्डं ततोऽधः ।
सव्ये भीतिंवरं च त्रिजगदघहरे दक्षिणे कालिके च ॥
जप्त्वैतन्नाम ये वा तव विमलतनुं भावयन्त्येतदम्ब ।
तेषामष्टौ करस्थाः प्रकटितरदने सिद्धयस्त्रयम्बकस्य ॥
वर्गाद्यं वह्निसंस्थं विधुरतिल्वलितं तत्त्रयं कूर्च युग्मं ।
लज्जाद्वन्द्वं च पश्चात स्मितमुखितदधष्ठ द्वयं योजयित्वा ॥
मातर्ये त्वां जपन्ति स्मरहरमहिले भावयन्त स्वरूपम् ॥
ते लक्ष्मी लास्य लीला कमलदलसदृशः कामरूपा भवन्ति ॥
प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्त गुह्यं ।
त्वन्नामना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति ॥
तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे
वाग्देवी दिव्यमुंडस्त्र गतिशयलसत् कण्ठि पीनस्तनाढ्‌ये ॥
गतासूनां बाहु प्रकटकृतकाञ्ची परिलस
नितम्बां दिग्वस्त्रां त्रिभुवन विधात्रीं त्रिनयनाम् ।
श्मशानस्थे तल्पे शवह्रदि महाकालसुरतप्रसक्तां
त्वा ध्यान् जजनि जडचेता अपि कविः॥
शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः
परं सङ्कीर्णायां प्रकटित चितायां हरवधूम् ।
प्रविष्टां सन्तुष्टामुपरिसुरतेनाति युवतीं
सदा त्वां ध्यायन्ति क्वचिदपि न तेषां परिभवः ॥
वदामस्ते किं वा जननि वयमुच्यैर्जडधियो
न धाता नापीशो हरिरपि न ते वेत्ति परमम् ।
तथापि त्वद्भक्तिर्मुखरयति चास्भाकषिते
तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः ॥
समन्तादा पीनस्तन जघनदृग् यौवनवती
रतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् ।
विवासास्त्वां ध्यायन् गलित चिकुरस्तस्य वशगाः
समस्ताः सिद्धौघा भुवि चिरतंर जीवति कविः ॥
समाः स्वस्थीभूतां जपति विपरीतां यदि सदा
विचिन्त्य त्वां ध्यायन्नतिशय महाकाल सुरताम् ।
तदा तस्य क्षोणीतल विहरमाणस्य विदुष:
कराम्भोजे वश्या हरवधू महासिद्धि निवहाः ॥
प्रसूते संसारं जननि जगतीं पालयति च
समस्तं क्षित्यादि प्रलय समये संहरति च ।
अतस्त्वं धाताऽसि त्रिभुवनपतिः श्रीपतिरपि
महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥
अनेके सेवन्ते भवदधिक गीर्वाण निवहान्
विमूढास्ते मातः किमपि नहि जानन्ति परमम् ।
समाराध्यामाद्यां हरिहर विरञ्च्यादि विबुधैः
प्रपन्नोऽस्मि स्वैरं रतिरस महानन्द निरताम् ॥
धरित्री कीलालं शुचिरपि समीरोऽपि गगनं
त्वमेका कल्याणी गिरिशरमणी कालि सकलम् ।
स्तुतिः का ते मातस्तव करुणया मामगतिकं
प्रसन्ना त्वं भूया भवमनु न भूयान्मम जनुः ॥
श्मशानस्थः सुस्थो गलित चिकुरो दिक्‌पटधरः
सहस्त्रस्त्वर्काणां निजगलित वीर्जेण कुसुमम् ।
जपंस्त्वत्प्रत्येकं मनुमपि तव ध्यान निरतो
महाकाली स्वैरं स भवति धरित्रीपरिवृढः ॥
गृहे सम्मार्जन्या परिगलित वीर्यं हि चिकुरं
समूलं मध्याह्ने वितरति चितायां कुजदिने ।
समुच्चार्य प्रेम्णा मनुमपि सकृत् कालि सततं
गजारूढो याति क्षिति परिवृढः सत्कविवरः ॥
सुपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो
पुरोध्यायन् ध्यायन् यदि जपति भक्तस्तव मनुम् ।
स गंधर्वश्रेणी पतिरपि कवित्वामृतनदीनदीनः
पर्यन्ते परमपद लीन: प्रभवति ॥
त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां
महाकालेनोच्चैर्मदनरसलावण्यनिरताम् ।
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो
जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥
सलोमास्थि स्वैरं पललमपि मार्जारमसिते
परञ्वौष्ट्रं भेषं नरमहिष योश्छागमपि वा ।
बलिं ते पूजायामपि वितरतां मर्त्यवसतां
सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति ॥
वशी लक्षं मंत्रं प्रजपति हविष्याशनरतो
दिवा मातर्युष्मच्चरण युगलध्यान निपुणः ।
परं नक्तं नग्नो निधुवन विनोदेने च मनुं
जपेल्लक्षं स स्यात् स्मरहर समानः क्षितितले ॥
इदं स्तोत्रं मातस्तव मनुसमुद्धारण जनुः
स्वरूपाख्यं पादाम्बुज युगलपूजा विधियुतम् ।
निशार्द्धे वा पूजासमयमधि वा यस्तु पठित
प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥
कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं
वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः ।
रिपुः कारागारं कलयति च तं केलिकलया
चिरं जीवन्मुक्तः स भवति च भक्तः प्रतिजनुः ॥

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP