प्रेतकाण्डः - अध्यायः ४९
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
गरुड उवाच ।
श्रुता मया दयासिन्धो ह्यज्ञानाज्जीवसंसृतिः ।
अधुना श्रोतुमिच्छामि मोक्षोपायं सनातनम् ॥१॥
भगवन्देवदेवेश शरणागतवत्सल ।
असारे घोरसंसारे सर्वदुः खमलीमसे ॥२॥
नानाविधशरीरस्था अनन्ता जीवराशयः ।
जायन्ते च म्रियन्ते च तेषामन्तो न विद्यते ॥३॥
सदा दुः खातुरा एव न सखी विद्यते क्कचित् ।
केनोपायेन मोक्षेश मुच्यन्ते वद मे प्रभो ॥४॥
श्रीभगवानुबाच ।
शृणु तार्क्ष्य प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥५॥
अस्ति देवः परब्रह्मस्वरूपो निष्कलः शिवः ।
सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोऽद्वयः ॥६॥
स्वयञ्ज्योतिरनाद्यन्तो निर्विकारः परात्परः ।
निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः ॥७॥
अनाद्यविद्योपहता यथाग्नौ विस्फुलिङ्गकाः ।
देहाद्युपाधिसम्भिन्नास्ते कर्मभिरनादिभिः ॥८॥
सुखदुः खप्रदैः पुण्यपारूपैर्नियन्त्रिताः ।
तत्तज्जातियुतं देहमायुर्भोगञ्च कर्मजम् ॥९॥
प्रतिजन्म प्रपद्यन्ते तेषामपि परं पुनः ।
ससूक्ष्मलिङ्गशरीरमामोक्षादक्षरं खग ॥१०॥
स्थावराः कृमयश्चाजाः पक्षिणः पशवो नगः ।
धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥११॥
चतुर्विधशरीराणि धृत्वा मुक्त्वा सहस्रशः ।
सुकृतान्मा नवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् ॥१२॥
चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् ।
न मानुषं विनान्यत्र तत्त्वज्ञानन्तु लभ्यते ॥१३॥
अत्र जन्मसहस्राणां सहस्रैरपि कोटिभिः ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥१४॥
सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् ।
यस्तार यति नात्मानं तस्मात्पापतरोऽत्र कः ॥१५॥
नरः प्राप्येतरज्जन्म लब्ध्वा चेन्द्रियसौष्ठवम् ।
न वेत्त्यात्महितं यस्तु स भवेद्ब्रह्मघातकः ॥१६॥
विना देहेन कस्यापि पुरुषार्थो न विद्यते ।
तस्माद्देहं धनं रक्षेत्पुण्यकर्माणि साधयेत् ॥१७॥
रक्षेच्चसर्वदात्मानमात्मा सर्ब्वस्य भाजनम् ।
रक्षणे यत्नमातिष्ठेज्जीवन् भद्राणि पश्यति ॥१८॥
पुनर्ग्रामः पुनः क्षेत्र पुनर्वित्तं पुनर्गृहम् ।
पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥१९॥
शरीररक्षणोपायाः क्रि यन्ते सर्वदा बुधैः ।
नेच्छन्ति च पुनस्त्यागमपि कुष्ठादिरोगिणः ॥२०॥
तद्गोपितं स्याद्धर्मार्थं धर्मो ज्ञानार्थमेव च ।
ज्ञानं तु ध्यानयोगार्थमचिरात्प्रविमुच्यते ॥२१॥
आत्मैव यदि नात्मानमहीतेभ्यो निवारयेत् ।
कोऽन्यो हितकरस्तस्मादात्मानं सुखयिष्यति ॥२२॥
इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
गत्वा निरौषधं देशं व्याधिम्थः किं करिष्यति ॥२३॥
व्याघ्रीवास्ते जरा चायुर्याति भिन्नघटाम्बुवत् ।
निघ्नन्ति रिपुवद्रोगास्तस्माच्छ्रेयः समभ्यसेत ॥२४॥
यावन्नाश्रयते दुः खं यावन्नायान्ति चापदः ।
यावन्नेन्द्रियवैकल्यं तावच्छ्रेयः समभ्यसेत् ॥२५॥
यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समभ्यसेत् ।
सन्दीप्तकोशभवने कूपं खनति दुर्मतिः ॥२६॥
कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः ।
सुखं दुःखं जनो हन्त न वेत्ति हितमात्मनः ॥२७॥
जातानार्तान्मृतानापद्भष्टान्दृष्ट्वा च दुः खितान् ।
लोको मोहसुरां पीत्वा न बिभेति कदाचन ॥२८॥
सम्पदः स्वप्नसंकाशा यौवनं कुसुमोपमम् ।
तडिच्चपलमायुष्यं कस्य स्याज्जानतो धृतिः ॥२९॥
शतं जीवितमत्यल्पं निद्रालस्यैस्तदर्धकम् ।
बाल्यरोगजरादुः खैरल्पं तदपि निष्फलम् ॥३०॥
प्रारब्धव्ये निरुद्योगी जागर्तव्ये प्रसुप्तकः ।
विश्वस्तश्च भयस्थाने हा नरः को न हन्यते ॥३१॥
तोयफेनसमे देहे जीवेनाक्रम्य संस्थिते ।
अनित्याप्रयसवासे कथ तिष्ठति निर्भयः ॥३२॥
अहिते हितसंज्ञः स्यादध्रुवे ध्रुवसंज्ञकः ।
अनर्थे चार्थविज्ञानः स्वमर्थं यो न वेत्ति सः ॥३३॥
पश्यन्नपि प्रस्खलति शृण्वन्नपि न बुध्यति ।
पठन्नपि न जानाति देवमायाविमोहितः ॥३४॥
तन्निमज्जज्जगदिदं गम्भीरे कालसागरे ।
मृत्युरोगजराग्राहैर्न कश्चिदपि बुध्यते ॥३५॥
प्रतिक्षणभयं कालः क्षीयमाणो न लक्ष्यते ।
आमकुंभ इवांभः स्थो विशीर्णो न विभाव्यते ॥३६॥
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।
ग्रथनञ्च तरङ्गाणामास्था नायुषि युज्यते ॥३७॥
पृथिवी दह्यते येन मेरुश्चापि विशीर्यते ।
शुष्यते सागरजलं शरीरस्य च का कथा ॥३८॥
अपत्यं मे कलत्रं मे धनं मे बान्धवाश्च मे ।
जल्पन्तमिति मर्त्याजं हन्ति कालवृको बलात् ॥३९॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ।
एवमीहासमायुक्तं कृतान्तः कुरुते वशम् ॥४०॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् ।
न हि मृत्युः प्रतीक्षेत कृतं वाप्यथ वाकृतम् ॥४१॥
जरादर्शितपन्थानं प्रचण्डव्याधिसैनिकम् ।
अधिष्ठितो मृत्युशत्रुं त्रातारं किं न पश्यति ॥४२॥
तृष्णासूचीविनिर्भिन्नं सिक्तं विषयसर्पिषा ।
रागद्वेषानले पक्वं मृत्युरश्राति मानवम् ॥४३॥
बालांश्च यौवनस्थांश्च वृद्धान गर्भगतानपि ।
सर्वानाविशते मृत्युरेवम्भूमिदं जगत् ॥४४॥
स्वदेहमपि जीवोऽयं मुक्त्वा याति यमालयम् ।
स्त्रीमातृपितृपुत्त्रादिसम्बन्धः केन हेतुना ॥४५॥
दुः खमूलं हि संसारः स यस्यास्ति स दुः खितः ।
तस्य त्यागः कृतो येन स सुखी नापरः क्वचित् ॥४६॥
प्रभवं सर्वदुः खानामालयं सकलापदाम् ।
आश्रयं सर्वपापानां संसारं वर्जयेत्क्षणात् ॥४७॥
लोहदारुमयैः पाशैः पुमान्बद्धो विमुच्यते ।
पुत्त्रदारमयैः पाशैर्मुच्यते न कदाचन ॥४८॥
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ।
तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥४९॥
वञ्चिताशेषवित्तैस्तैर्नित्यं लोको विनाशितः ।
हा हन्त विषयाहारैर्देहस्थोन्द्रियतस्करैः ॥५०॥
मांसलुब्धो यथा मत्स्यो लोहशङ्कुं न पश्यति ।
सुखलुब्धस्तथा देही यमवाधां न पश्यति ॥५१॥
हिताहितं न जानन्तो नित्यमुन्मार्गगामिनः ।
कुक्षिपूरणनिष्ठा ये ते नरा नारकाः खग ॥५२॥
निद्राभीमैथुनाहाराः सर्वेषां प्राणिनां समाः ।
ज्ञानवान्मानवः प्रोक्तो ज्ञानहीनः पशुः स्मृतः ॥५३॥
प्रभाते मलमूत्त्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ ।
रात्रौ मदननिद्राभ्यां बाध्यन्ते मूढमानवाः ॥५४॥
स्वदेहधनदारादिनिरताः सर्वजन्तवः ।
जायन्ते च म्रियन्ते च हा हन्ताज्ञानमोहिताः ॥५५॥
तस्मात्सङ्गः सदा त्याज्यः सचेत्त्यक्तुं न शक्यते ।
महद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥५६॥
सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् ।
यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः ॥५७॥
स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः ।
न जानन्ति परं धर्मं वृथा नश्यन्ति दाम्भिकाः ॥५८॥
किमायासपराः केचिद्व्रतचर्यादिसंयुताः ।
अज्ञानसंवृतात्मानः सञ्चरन्ति प्रचारकाः ॥५९॥
नाममात्रेण सन्तुष्टाः कर्मकाण्डरता नराः ।
मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः क्रतुविस्तरैः ॥६०॥
एकभुक्तोपवासाद्यैर्नियमैः कायशोषणैः ।
मूढाः परोक्षमिच्छन्ति मम मायाविमोहिताः ॥६१॥
देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् ।
वल्मीकताडनादेव मृतः किन्नु महोरगः ॥६२॥
जटाभाराजिनैर्युक्ता दाम्भिका वेषधारिणः ।
भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि ॥६३॥
संसारजसुखासक्तं ब्रह्मज्ञोऽस्मीतिवादिनम् ।
कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥६४॥
गृहारण्यसमा लोके गतव्रीडा दिगम्बराः ।
चरन्ति गर्दभाद्याश्च विरक्तास्ते भवन्ति किम् ॥६५॥
मृद्भस्मोद्धूलनादेव मुक्ताः स्युर्यदि मानवाः ।
मृद्भस्मवासी नित्यं श्वा स किं मुक्तो भविष्यति ॥६६॥
तृणपर्णोदकाहाराः सततं वनवासिनः ।
जम्बूकाखुमृगाद्याश्च तापसास्ते भवन्ति किम् ॥६७॥
आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः ।
मण्डूकमत्स्यप्रमुखा योगिनस्ते भवन्ति किम् ॥६८॥
पारावताः शिलाहाराः कदाचिदपि चातकाः ।
न पिबन्ति महीतोयं व्रतिनस्ते भवन्ति किम् ॥६९॥
तस्मान्नित्यादिकं कर्म लोकरञ्जनकारकम् ।
मोक्षस्य कारणं साक्षातत्त्वज्ञान खगेश्वर ॥७०॥
षर्ड्शनमहाकूपे पतिताः पशवः खग ।
परमार्थं न जानन्ति पशुपाशनियन्त्रिताः ॥७१॥
वेदशास्त्रार्णवैर्घेरैरुह्यमाना इतस्ततः ।
षडूर्मिनिग्रहग्रस्तास्तिष्ठन्ति हि कुतार्किकाः ॥७२॥
वेदागमपुराणज्ञः परमार्थं न वेत्ति यः ।
विडम्बकस्य तस्यैव तत्सर्वं काकभाषितम् ॥७३॥
इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः ।
पठन्त्यहर्निशं शास्त्रं परतत्त्वपराङ्मुखाः ॥७४॥
वाक्यच्छन्दोनिबन्धेन काव्यालङ्कारशोभिताः ।
चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः ॥७५॥
अन्यथा परमं तत्त्वं जनाः क्लिश्यन्ति चान्यथा ।
अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा ॥७६॥
कथयन्त्युवन्मनीभावं स्वयं नानुभवन्ति च ।
अहङ्कारस्ताः केचिदुपदेशादिवार्जिताः ॥७७॥
पठन्ति वेदशास्त्राणि बोधयन्ति परस्परम् ।
न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा ॥७८॥
शिरो वहति पुष्पाणि गन्धं जानाति नासिका ।
पठन्ति वेदशास्त्राणि दुर्लभो भावबोधकः ॥७९॥
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु मुह्यति ।
गोपः कक्षागते च्छागे कूपं पश्यति दुर्मतिः ॥८०॥
संसारमोहनाशाय शाब्दबोधो न हि क्षमः ।
न निवर्तेत तिमिरं कदाचिद्दीपवार्तया ॥८१॥
प्रज्ञाहीनस्य पठनं यथान्धस्य च दर्पणम् ।
अतः प्रज्ञावतां शास्त्रं तत्त्वज्ञानस्य लक्षणम् ॥८२॥
इदं ज्ञानमिदं ज्ञेयं सर्वन्तु श्रोतुमिच्छति ।
दिव्यवर्षसहस्राच्च शास्त्रान्तं नैव गच्छति ॥८३॥
अनेकानि च शास्त्राणि स्वल्पायुर्विघ्नकोटयः ।
तस्मात्सारं विजानीयात्क्षीरं हंस इवाम्भसि ॥८४॥
अभ्यस्य वेदशास्त्राणि तत्त्वं ज्ञात्वाथ बुद्भिमान् ।
पलालमिव धान्यार्थी सर्वशास्त्राणि सन्त्यजेत् ॥८५॥
यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् ।
तत्त्वज्ञस्य तथा तार्क्ष्य न शास्त्रेण प्रयोजनम् ॥८६॥
न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि ।
ज्ञानादेव हि कैवल्यं नान्यथा विनतात्मजः ॥८७॥
नाश्रमः कारणं मुक्तेर्दर्शनानि न कारणम् ।
तथैव सर्वकर्माणि ज्ञानमेव हि कारणम् ॥८८॥
मुक्तिदा गुरुवागेका विद्याः सर्वा विडम्बिकाः ।
शास्त्रभारसहस्रेषु ह्येकं सञ्जीवनं परम् ॥८९॥
अद्वैतं हि शिवं प्रोक्तं क्रिययापरिवर्जितम् ।
गुरुवक्त्रेण लभ्येत नाधीतागमकोटिभिः ॥९०॥
आगमोक्तं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते ।
शब्दव्रह्मागममयं परं ब्रह्म विवेकजम् ॥९१॥
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे ।
समं तत्त्वं न जानन्ति द्वैताद्द्वैतविवर्जितम् ॥९२॥
द्वे पदे बन्धमोक्षाय नममेति ममेति च ।
ममेति बध्यते जन्तुर्नममेति प्रमुच्यते ॥९३॥
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तिदा ।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥९४॥
यावत्कर्माणि दीप्यन्ते यावत्संसारवासना ।
यावदिन्द्रियचापल्यं तावत्तत्त्वकथा कुतः ॥९५॥
यावद्देहाभिमानश्च ममता यावदेव हि ।
यावत्प्रयत्नवेगोऽस्ति यावत्संकल्पकल्पना ॥९६॥
यावन्नो मनसः स्थैर्यं न यावच्छास्त्रचिन्तनम् ।
यावन्न गुरुकारुण्यं तावत्तत्त्वकथा कुतः ॥९७॥
तावत्तपो व्रतं तीर्थं जपहोमार्चनादिकम् ।
वेदशास्त्रागमकथा यावत्तत्त्वं न विन्दति ॥९८॥
तस्मात्सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
तत्त्वनिष्ठो भवेत्तार्क्ष्य यदीच्छेन्मोक्षमात्मनः ॥९९॥
धर्मज्ञानप्रसूनस्य स्वर्गमोक्षफलस्य च ।
तापत्रयादिसन्तप्तश्छायां मोक्षतरोः श्रयेत् ॥१००॥
तस्माज्ज्ञानेनात्मतत्त्वं विज्ञेयं श्रीगुरोर्मुखात् ।
सुखेन मुच्यते जन्तुर्घोरसंसारबन्धनात् ॥१०१॥
तत्त्वज्ञस्यान्तिमं कृत्यं शृणु वक्ष्यामि तेऽधुना ।
येन मोक्षमवाप्नोति ब्रह्म निर्वाणसंज्ञकम् ॥१०२॥
अन्तकाले तु पुरुष आगते गतसाध्वसः ।
छिन्द्यादसंगशस्त्रेण स्पृहां देहेऽनु या च तम् ॥१०३॥
गृहात्प्रव्राजितो धीरः पुण्यतीर्थजलाप्लुतः ।
शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥१०४॥
अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् ।
मनो यष्छेज्जितश्वासो ब्रह्म बीजमविस्मरन् ॥१०५॥
नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धि सारथिः ।
मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥१०६॥
अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।
एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ॥१०७॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥१०८॥
न यत्र दाम्भिका यान्ति ज्ञानवैराग्यवर्जिताः ।
सुधियस्तां गतिं यान्ति तानहं कथयामि ते ॥१०९॥
निर्मानमोहा जितसंगदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुः खसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥११०॥
ज्ञानह्रदे सत्यजले रागद्वेषमलापहे ।
यः स्नाति मानसे तीर्थे स वै मोक्षमवाप्नुयात् ॥१११॥
प्रौढवैराग्यमास्थाय भजते मामनन्यभाक् ।
पूर्णदृष्टिः प्रसन्नात्मा स वै मोक्षमवाप्नुयात् ॥११२॥
त्यक्त्वा गृहं च यस्तीर्थे निवसेन्मरणोत्सुकः ।
मुक्तिक्षेत्रेषु म्रियते स वै मोक्षमवाप्नुयात् ॥११३॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिक ।
पुरी द्वारवती ज्ञेयाः सप्तैता मोक्षदायिकाः ॥११४॥
इति ते कथितं तार्क्ष्य मोक्षधर्मं सनातनम् ।
ज्ञानवैराग्यसहितं श्रुत्वा मोक्षमवाप्नुयात् ॥११५॥
मोक्षं गच्छन्ति तत्त्वज्ञा धार्मिकाः स्वर्गतिं नराः ।
पापिनो दुर्गतिं यान्ति संसरन्ति खगादयः ॥११६॥
सूत उवाच ।
स्वप्रश्रोत्तरराद्धान्तमेवं भगवतो मुखात् ।
श्रुत्वा हृष्टतनुस्तार्क्ष्यो ननाम जगदीश्वरम् ॥११७॥
सन्देहो मे महान्नष्टो भवद्वाक्यविरोचनात् ।
इत्युक्त्वा विष्णुमामन्त्र्य स गतः कश्यपाश्रमम् ॥११८॥
सद्यो देहान्तरं याति यथा याति विलम्बतः ।
अनयोरुभयोश्चैव न विरोधस्तथैव वः ॥११९॥
सर्वमाख्यातवांस्तात श्रुतो भगवतो यथा ।
मारीचोऽपि मुदं लेभे श्रुत्वा वाक्यं रमापतेः ॥१२०॥
अपाकृतस्तु सन्देहो ब्राह्मणा भवतां मया ।
उक्तं सुपर्णसंज्ञन्तु पुराणं परमाद्भुतम् ॥१२१॥
इदमाप हरेस्तार्क्ष्यस्तार्क्ष्यादाप ततो भृगुः ।
भृगोर्वसिष्ठः संप्राप वामदेवस्ततः पुनः ॥१२२॥
पराशरमुनिः प्राप तस्माद्व्यासस्ततो ह्यहम् ।
मया तु भवतां प्रोक्तं परं गुह्यं हरेरिदम् ॥१२३॥
य इदं शृणुयान्मर्त्यो यो वाप्यभिदधाति च ।
इहामुत्र च लोके स सर्वत्र सुखमाप्नुयात् ॥१२४॥
व्रजतः संयमन्यां यद्दुः खमत्र निरूपितम् ।
अस्य श्रवणतः पुण्यं तन्मुक्तो जायते ततः ॥१२५॥
अत्रोक्तकर्मपाकादिश्रवणाच्च नृणामिह ।
वैराग्यमावहेद्यस्मात्तस्माच्छ्रोतव्यमेव च ॥१२६॥
भजत जितहृषीकाः कृष्णमेनं मुनीशं समजनि बत यस्माद्गीः सुधासारधारा ।
पृषतमपि यदीयं वर्णरूपं निपीय श्रुतिपुटचुलुकेन प्राप्नुयादात्मनैक्यम् ॥१२७॥
व्यास उवाच ।
इति सूतमुखोद्गीर्णांसर्वशास्त्रार्थमण्डिताम् ।
वैष्णवीं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः ॥१२८॥
प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम् ।
प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः ॥१२९॥
इति हरिवचनानि सूतवाचा खगपतिसंशयभेदकानि यानि ।
स मुनिरपि निशम्य शौनकेन्द्रो बहुतरमानयति स्म चात्मनि स्वम् ॥१३०॥
अपूजयंस्ते मुनयस्तदानीमुदाखाग्भिर्मुहुरेव सूतम् ।
धन्योऽसि सूत त्वमिहेत्युदैरयन्व्यसर्जयंस्तं च निवर्तितेऽध्वरे ॥१३१॥
पुराणं गारुडं पुण्यं पवित्रं पापनाशनम् ॥
शृण्वतां कामनापूरं श्रोतव्यं सर्वदैव हि ॥१३२॥
श्रुत्वा दानानि देयानि वाचकायाखिलानि च ।
पूर्वोक्तशयनादीनि नान्यथा सफलं भवेत् ॥१३३॥
पुराणं पूजयेत्पूर्वं वाचकं तदनन्तरम् ।
वस्त्रालङ्कारगोदानैर्दक्षिणाभिश्च सादरम् ॥१३४॥
अन्नदानैर्हेमदानैर्भमिदानैश्च भूरिभिः ।
पूजयेद्वाचकं भक्त्या बहुपुण्यफलाप्तये ॥१३५॥
यश्चेदं शृणुयान्मर्त्यो यथापि परिकीर्तयेत् ।
विहाय यातनां घोरां धूतपापो दिवं व्रजेत् ॥१३६॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे श्रीकृष्णगरुडसंवादे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे मोक्षोपायनिरूपणं नामैकोनपञ्चाशत्तमोऽध्यायः
इति श्रीगारुडे महापुराणे द्वितीयो धर्मकाण्डः समाप्तः
N/A
References : N/A
Last Updated : November 11, 2016
TOP