प्रेतकाण्डः - अध्यायः ४६
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
तार्क्ष्य उवाच ।
सुकृतस्य प्रभावेण स्वर्गो नानाविधो नणाम् ।
भोगाः सौख्याति रूपञ्च बलं बुद्धैः पराक्रमः ॥१॥
सत्यं पुण्यवतां देव जायतेऽत्र परत्र च ।
सत्यंसत्यं पुनः सत्यं वेदवाक्यं न चान्यथा ॥२॥
धर्मो जयति नाधर्मः सत्यं जयाते नानृतम् ।
क्षमा जयति न क्रोधो विष्णुर्जयति नासुरः ॥३॥
तद्वत्सत्यं मया ज्ञातं सुकृताच्छोभनं भवेत् ।
यतोत्कृष्टतमं पुण्यं तथोत्कृष्टतरोनरः ॥४॥
एवन्तु श्रोतुमिच्छामि जायन्ते पापिनो यथा ।
येन कर्मविपाकेन यथा नियमभाग्भवेत् ॥५॥
यांयां योनिमवाप्नोति यथारूपश्च जायते ।
तन्मे वद सुरश्रेष्ठ समासेनापि काङ्क्षितम् ॥६॥
श्रीकृष्ण उवाच ।
शुभाशुभफलैस्तार्क्ष्य भुक्तभोगा नरास्त्विह ।
जायन्ते लक्षणैर्यैस्तुतानि मे शृणु काश्यप ॥७॥
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥८॥
प्रायश्चित्तेष्वचीर्णेषु यमलोका ह्यनेकधा ।
यातनाभिर्विमुक्ता ये यान्ति ते जीवसन्ततीम् ॥९॥
गत्वा मानुषभावे तु पापचिह्ना भवन्ति ते ।
तान्यहं तव चिह्नानि कथयिष्ये खगोत्तम ॥१०॥
सोढ्वा वै यातनाः सर्वा गत्वा वैवस्वतक्षयम् ।
निस्तीर्णयातनास्ते तु लोकमायान्ति चिह्निताः ॥११॥
गद्गदोऽनतवादी स्यान्मूकश्चैव गवानृते ।
ब्रह्महा जायते कुष्ठी श्यावदन्तश्च मद्यपः ॥१२॥
कुनखी स्वर्णहरणाद्दुश्चर्मा गुरुतल्पगः ।
संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः ॥१३॥
अयाज्ययाजको याति ग्राहमसूकरतां द्विजः ।
खरो वै बहुयाजी स्यात्काको निर्मन्त्रभोजनात् ॥१४॥
अपरीक्षितभोक्तारो व्याघ्राः स्युर्निर्जने वने ।
बहुतर्जको मार्जरः खद्योतः कक्षदाहकः ॥१५॥
पात्रे विद्याप्रदाता यो बलीवर्दो भवेत्तसः ।
अन्नं पर्युषितं विप्रे प्रददत्कुक्करो भवेत् ॥१६॥
मात्सर्यादपि जात्यन्धो जन्मान्धः पुस्तकं हरन् ।
फलान्याहरतोऽपत्यं म्रियते नात्र संशयः ॥१७॥
मृतो वानरतां याति तन्मुखो गण्डवान् भवेत् ।
अदत्त्वा भक्ष्यमश्राति अनपत्यो भवेत्तु सः ॥१८॥
हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः ।
प्रवज्यागमनाद्राजन् भवेन्मरुपिशाचकः ॥१९॥
चातको जलहर्ता स्याद्धान्यहर्ता च मूषिकः ।
अप्राप्तयौवनां सेवन् भवेत्सर्प इति श्रुतिः ॥२०॥
गुरुदाराभिलाषी च कृकलासो भवेद्ध्रुवम् ।
जलप्रस्त्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥२१॥
अविक्रेयक्रयाच्चैव बको गृध्रो भवेन्नरः ।
अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात् ॥२२॥
मृतस्यैकादशाहे तु भुञ्जानश्चाभिजायते ।
प्रतिश्रुत्य द्विजेभ्योर्ऽथमददज्जम्बुको भवेत् ॥२३॥
राज्ञरिं गत्वा भवेद्दंष्ट्री तस्करो विङ्वराहकः ।
शारिवा फलविक्रेता वृषश्च वृषलीपतिः ॥२४॥
मार्जरोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ।
उदक्यागमनात्षण्डो दुर्गन्धश्च सुगन्धहृत् ॥२५॥
यद्वा तद्वापि पारक्यं स्वल्पं वा हरते बहु ।
हृत्वा वै योनिमाप्नोति तिरश्चां नात्र संशयः ॥२६॥
एवमादीनि चिह्नानि अन्यान्यपि खगेश्वर ।
स्वकर्मविततान्येव? दृश्यन्ते यैस्तु मानवैः ॥२७॥
एवं दुष्कृतकर्मा हि भुक्त्वा च नरकान्क्रमात् ।
जायते कर्मशेषेण उक्तास्वेतासु योनिषु ॥२८॥
ततो जन्मशतं मर्त्ये सर्वजन्तुषु काश्यप ।
जायते नात्र सन्देहः समीभूते शुभाशुभे ॥२९॥
स्त्रीपुंसयो प्रसङ्गेन निरुद्धे शुक्रसोणिते ।
समुपेतः पञ्चभूतैर्जायते पाञ्चभौतिकः ॥३०॥
इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः ।
धारणा प्रेरणं दुः खं मिथ्याहङ्कार एव च ॥३१॥
प्रयताकृतिवर्णस्तु रागद्वेषौ भवाभवौ ।
तस्येदमात्मनः सर्वमनादेरादिमिच्छतः ॥३२॥
स्वकर्म बद्धस्य तदा गर्भवृद्धिर्भवेदिति ।
पुरा यथा मया प्रोक्तं तव जन्तोर्हि लक्षणम् ॥३३॥
एवं प्रवर्तितं चक्रं भूतग्रामे चतुर्विधे ।
समुत्पत्तिर्विनाशश्च जायते तार्क्ष्य देहिनाम् ॥३४॥
स्वधर्मेणैवोर्ध्वगतिरधर्मेणाप्यधोगतिः ।
जायते सर्ववर्णानां स्वधर्मचलनात्खग ॥३५॥
देवत्वे मानुषत्वे च दानभोगादिकाः क्रियाः ।
या दृश्यन्ते वैनतेय तत्सर्वं कर्मजं फलम् ॥३६॥
अकर्मविहिते घोरे कामक्रोधार्जितेऽशुभे ।
पतेद्वै नरके भूयो तस्योत्तारो न विद्यते ॥३७॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे जीवस्य शुभाशुभगतिनिरूपणं नाम षट्चत्वारिंशोध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP