प्रेतकाण्डः - अध्यायः ४४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
श्रीविष्णुरुवाच ।
स्वेच्छया तार्क्ष्य मरणं शृङ्गिदंष्ट्रिसरीसृपः ।
चाण्डालाद्यात्मघातैश्च विषाद्यैस्ताडनैस्तथा ॥१॥
जलाग्निपातवातैश्च निराहारादिभिस्तथा ।
येषामेव भवेन्मृत्युः प्रोक्तास्ते पापकर्मिणः ॥२॥
पाषड्यनाश्रमाश्चैव महापातकिनस्तथा ।
स्त्रियश्च व्यभिचारिण्य आरूढपतितास्तथा ॥३॥
न तेषां स्यान्नव श्राद्धं न संस्कारः सपिण्डनम् ।
श्राद्धानि षोडशोक्तानि न भवन्ति च तान्यपि ॥४॥
वेतनं यत्क्षिपेदप्सु गृह्याग्निश्च चतुष्पथे ।
पात्राणिनिर्दहेदग्नौ साग्निके पापकर्मणि ॥५॥
पूर्णे संवत्सरे तेषामित्थं कार्यं दयालुभिः ।
एकादशीं समासाद्य शुक्लपक्षे च काश्यप ॥६॥
विष्णुं यमं च सम्पूज्य गन्धपुष्पाक्षतादिभिः ।
दश पिण्डान् घृताक्तांश्च दर्भेषु मधुसंयुतान् ॥७॥
यज्ञोपवीति सतिलान् ध्यायन् विष्णुं यमं तथा ।
दक्षिणाभिमुखस्तूष्णीमेकैकं निर्वपेत्तुतान् ॥८॥
उद्धृत्य मिश्रितान् पश्चात्तीर्थेऽभ्मः सु विनिः क्षिपेत् ।
क्षिपन् संकीर्तयेन्नाम गोत्रं च मृतकस्य च ॥९॥
पुनरप्यर्चयेद्विष्णुं यमं कुसुमचन्दनैः ।
धूपदीपैः सनैवेद्यैर्भक्ष्यभोज्यसमन्वितैः ॥१०॥
तस्मिन्नुपवसेदह्नि विप्रांश्चेव निमन्त्रयेत् ।
कुलविद्यातपोयुक्तान् साधुशीलसमन्वितान् ॥११॥
नव सप्ताथवा पञ्च स्वसामर्थ्यानुसारतः ।
अपरेऽहनि मध्याह्ने यमं विष्णुं तथार्चयेत् ॥१२॥
उदङ्मुखांस्तथा विप्रांस्तान् सम्यगुपवेशयेत् ।
आवाहनार्घदानादौ विष्णुं यमसमन्वितम् ॥१३॥
यज्ञोपवीती कुर्वीत प्रेतनाम प्रकीर्तयेत् ।
प्रेतं यमं च विष्णुं च स्मरन् श्राद्धं समापयेत् ॥१४॥
अन्येभ्यश्चापि सर्वेभ्यः पिण्डदानार्थमुद्धरेत् ।
पृथग्वा दश पिण्डांश्च पञ्च दद्यात्क्रमेण तु ॥१५॥
प्रथमं विष्णवे दद्याद्ब्रह्मणे च शिवाय च ।
सभृत्याय शिवायाथ प्रेतायापि च पञ्चमम् ॥१६॥
नाम गोत्रं स्मरेत्तस्य विष्णुशब्दं प्रकीर्तयेत् ।
नमस्कारशिरस्कन्तु पञ्चमं पिण्डमुद्धरेत् ॥१७॥
गोभूमिपिण्डदानाद्यैः शक्त्या प्रेतं स्मरंश्च तम् ।
तिलैस्तिलांस्तु विप्राणां दर्भयुक्तेषु पाणिषु ॥१८॥
दद्यादन्नं द्विजानां च ताम्बूलं दक्षिणां तथा ।
एवं शिष्टतमं विप्रं हरिण्येन प्रपूजयेत् ॥१९॥
नाम गोत्रं स्मरन् दद्याद्विष्णुप्रीतोस्त्विति ब्रुवन् ।
अनुव्रज्य द्विजान् पश्चात्त्यक्ताम्भो दक्षिणामुखः ॥२०॥
कीर्तयन्नामगोत्रे तु भुवि प्रीतोस्त्विति क्षिपेत् ।
मित्रबन्धुजनैः सार्धं शेषं भुञ्जीत वाग्यतः ।
प्रतिसंवत्सरादि स्यादेकोद्दिष्टविधानतः ॥२१॥
एवं कृते गमिष्यन्ति स्वर्लोकं पापकर्मिणः ।
सपिण्डीकरणादौ तु कृते चैवाप्नुवन्तिते ॥२२॥
अथ कश्चित्प्रमादेन म्रियते ह्युदकादिभिः ।
संसारप्रमुखस्तस्य सर्वं कुर्याद्यथाविधि ॥२३॥
प्रमादादिच्छया मर्त्यो न गच्छेत्सर्पसंमुखः ।
पक्षयोरुभयोर्नागं पञ्चमीषु प्रपूजयेत् ॥२४॥
कुर्यात्पिष्टमयीं लेखां नागानामाकृतिं भुवि ।
अर्चयेत्तां सितैः पुष्पैः सुगन्धैश्चन्दनेनच ॥२५॥
प्रदद्याद्धूपदीपन्तु तण्डुलांश्च सितान् क्षिपेत् ।
आमपिष्टं तथैवान्नं क्षीरञ्च विनिवेदयेत् ॥२६॥
उपस्थाय वदेदेवं मुञ्चन्मुद्रांशुकानि च ।
मधुरं तद्दिनेऽश्रीयाद्देवश्राद्धं समापयेत् ॥२७॥
सौवर्णं शक्तितो नागं ततो दद्याद्द्विजोत्तमे ।
धेनुं दत्त्वा ततो ब्रूयात्प्रीयतां नागराडिति ॥२८॥
यथाविभव्यं कुर्वीत कर्माण्यन्यानि पूर्ववत् ।
स्वशाखोक्तविधानेन इत्थं कुर्याद्यथातथम् ।
प्रेतत्वान्मोचयेत्तांस्तु स्वर्गमार्गं नयेत्च ॥२९॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दुर्मरणे कार्याकार्यक्रियादिनिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP