संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः २ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः २ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः २ Translation - भाषांतर श्रीकृष्ण उवाच ।साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै ।शृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥१॥सम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम् ।यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥२॥गुह्यद्गुह्यतरं तच्च नाख्यातं कस्यचित्क्वचित् ।भक्तस्त्वं हि महाभाग वैनतेयं ब्रवीमि ते ॥३॥अपुत्रस्य गतिर्नास्तु स्वर्गो नैव च नैव च ।येन केनाप्युपायेन कार्यं जन्म सुतस्य हि ॥४॥तारयेन्नरकात्पुत्त्रो यदि मोक्षो न विद्यते ।स्कन्धः पुत्रेण कर्तव्यो ह्यग्निदाता च पौत्रकः ॥५॥तिलदर्भैश्च भूम्यां वै कुटी ऋतुमती भवेत् ।पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥६॥यदा पुष्पं प्रनष्टं हि क्व तदा गर्भधारणम् ।आदराच्च ततो भूमौ येन गर्भं प्रधार्यते ॥७॥लेप्या तु गोमयैर्भूमिस्तिलान्दर्भान्विनिः क्षिपेत् ।तस्यामेवातुरो मुक्तः सर्वं दहति किल्बिषम् ॥८॥दर्भतूली नयेत्स्वर्गमातुरस्य न संशयः ।दर्भांस्तत्र क्षिपेद्वाथ तूलीगेन्दुकमध्यतः ॥९॥सर्वत्र वसुधापूता यत्र लेपो न विद्यते ।यत्र लेपः स्थितस्तत्र पुनर्लेपेन शुध्यति ॥१०॥यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः ।अलेपं ह्यातुरं मुक्तं विशन्त्येते वियोनयः ॥११॥नित्यहोमस्तथा श्राद्धं पादशौचं द्विजे तथा ।मण्डलेन विना भूम्यामातुरो मुच्यते न हि ॥१२॥ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशस्तथैव च ।मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ॥१३॥अन्यथा म्रियते वालो वृद्धस्तार्क्ष्ययुवाथवा ।योन्यन्तरं न गच्छेत्स क्रीडते वायुना सह ॥१४॥मिश्रितं लोहितामिश्रं तदेवं जन्म जीयते ।तस्यैव वायुभूतस्य न श्राद्धं नोदकक्रिया ॥१५॥मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्य पवित्रकाः ।असुरा दानवा दैत्या विद्रवन्ति तिलैस्तथा ॥१६॥तिलाः श्वेतास्तिला कृष्णास्तिला गोमूत्रसंन्निभाः ।दहन्तु ते मे पापानि शरीरेण कृतानि वै ॥१७॥एक एव तिलो दत्तो हेमद्रोणतिलैः समः ।तर्पणे दानहोमेषु दत्तो भवति चाक्षयः ॥१८॥दर्भा रोमसमुद्भूतास्तिलाः स्वेदेषु नान्यथा ।देवता दानवास्तृप्ताः श्राद्धेन पितरस्तथा ॥१९॥प्रयोगविधिना ब्रह्मा विश्वं चाप्युपजीवनाम् ।अपसव्यादितो ब्रह्मा पितरो देवदेवताः ॥२०॥तेन ते पितरस्तृप्ता अपसव्ये कृते सति ।दर्भमूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः ॥२१॥दर्भाग्रे शङ्करं विद्यात्त्रयो देवाः कुशे स्मृताः ।विप्रा मन्त्राः कशा वह्निस्तुलसी च खगेश्वर ॥२२॥नैते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः ।तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ॥२३॥पञ्च प्रवहणान्ये भवाब्धौ मज्जतां नृणाम् ।विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥२४॥असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी ।तिलाः पवित्रमतुलं दर्भाश्चापि तुलस्यथ ॥२५॥निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम् ।हस्ताभ्यामुद्धरेद्दर्भांस्तोयेन प्रोक्षयेद्भुवि ॥२६॥मृत्युकाले क्षिपेद्दर्भान्करयोरातुरस्य च ।दर्भैस्तु क्षिप्यते योऽसौ दर्भैस्तु परिवेष्टितः ॥२७॥विष्णुलोके स वै याति मन्त्रहीनोऽपि मानवः ।तूलीं कृत्वा कृतौ पादौ संस्थितौ क्षितिपृष्ठतः ॥२८॥प्रायाश्चित्तं विशुद्धाग्नौ संसारेऽसारसागरे ।गोमयेनोपलिम्पेत्तु दर्भास्तरणसंस्थिते ॥२९॥यने दत्तेन दानेन सर्वं पापं व्यपोहति ।लवणं तद्रसं दिव्यं सर्वकामप्रदं नृणाम् ॥३०॥यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना ।पितॄणां च प्रियं भव्यं तस्मात्स्वर्गप्रदं भवेत् ॥३१॥विष्णुदेहसमुद्भूतो यतोऽयं लवणो रसः ।एतत्सलवणं दानं तेन शंसन्ति योगिनः ॥३२॥ब्राह्मणक्षत्त्रियविशां स्त्रीणां शूद्रजनस्य च ।आतुरस्य यदा प्राणा न यान्ति वसुधातले ॥३३॥लवणं तु तदा देयं द्वारस्योद्वाटनं दिवः ।अन्यच्च शृणु पक्षीन्द्र मृत्यो रूपं प्रपञ्चतः ॥३४॥यस्य कालेन नो यायाद्वियोगः प्राणदेहयोः ।प्राणिनश्च स्वसमये मृत्युरत्यन्तविस्मृतिः ॥३५॥यथा वायुर्जलधरान्विकर्षति यतस्ततः ।तद्वज्जलदवत्तार्क्ष्य कालस्यैव वशानुगाः ॥३६॥सात्त्विका राजसाश्चैव तामसा ये च केचन ।भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥३७॥आदित्यश्चन्द्रमाः शम्भुरापो वायुः शतक्रतुः ।अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥३८॥सरितः सागराश्चैव भावाभावौ च सर्पहन् ।सर्वे कालेन सृज्यन्ते संक्षिप्यन्ते यथा पुनः ॥३९॥कालेन संह्रियन्ते च नृनं मृत्यावुपस्थिते ।दैवयोगात्त्दा व्याधिः कश्चिदुत्पद्यते खग ॥४०॥वैकल्यमिन्द्रियाणां च बलौ जोरंहसां भवेत् ।युगपद्वश्चिककोटिशूकदंशो भवेद्यदि ॥४१॥तदानुमीयते तेन पीडा मृत्युभवा खग ।ततः क्षणेन चैतन्ये विकले जडतां गते ॥४२॥प्रिचाल्यन्ते ततः प्राणा याम्यैर्निकटवर्तिभिः ।बीभत्सं तु तदा रूपं प्राणैः कण्ठगतैर्भवेत् ॥४३॥फेमुद्गिरते सोऽथ मुखं लालाकुलं भवेत् ।अङ्गुष्ठमात्रपुरुषो हाहा कुर्वंस्ततस्तनोः ॥४४॥तदैव नीयते द्वतैर्याम्यैर्वोक्षन्स्वकं गृहम् ।भूय एव हिते तात मृत्युकालदशामिमाम् ॥४५॥अष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।भिनत्ति मर्मस्थानानि दीप्यमानो निरिन्धनः ॥४६॥उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते ।भक्तानामबुभुक्षाणामधोगतिनिरोधकृत् ॥४७॥यैर्नानृतानि चोक्तानि प्रीतिभेदः कृतो न च ।आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥४८॥यो न कामान्न संरंभान्न द्वेषाद्धर्ममुत्सृजेत् ।यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥४९॥मोहज्ञानप्रदातारः प्राप्नुवन्ति महत्तमः ।कूटसाक्षी मृषावादी ये च विश्वासघातकाः ॥५०॥ते मोहं मृत्युमृच्छन्ति तथा ये वेदनिन्दकाः ।विभीषकाः पूतिगन्धा यष्टिमुद्गरपाणयः ॥५१॥आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा ।प्राप्ते त्वीदृक्पथे घोरे जायते तस्य वेपथुः ॥५२॥क्रन्दत्यविरतं सोऽपि पितृमातृसुतानपि ।सास्य वागस्फुटा यत्नेनैकवर्णा विभासते ॥५३॥दृष्टिर्वै भ्राम्यते त्रासाच्छ्वासाच्छुष्यति चाननम् ।स ततो वेदनाविष्टस्तच्छरीरं विमुञ्चति ॥५४॥अस्पृश्यं कुत्सनीयं च तत्क्षणादेव जायते ।उक्तं मृत्योः स्वरूपं तु प्रसङ्गादन्यदप्यथ ॥५५॥वैचित्र्यस्योत्तरं प्रश्रे द्वितीयस्य वदामि ते ।कर्मणां प्राक्तनानां तु तदसत्त्वेनं भदेतः ॥५६॥भवेद्भोगस्य वैचित्र्यं भ्राम्यतां प्राणिनामिह ।देवत्वमसुरत्वं च यक्षत्वादिसुखप्रदम् ॥५७॥मानुषत्वं पशुत्वं च पक्षित्वाद्यतिदुः खदम् ।कर्मणां तारतम्येन भवतीह खगेश्वर ॥५८॥अत्र ते कीर्तयिष्यामि विपाकं कर्मणामहम् ।वैचित्र्यस्य स्पुटत्वाययैर्जोवः संसरत्ययम् ॥५९॥महापातकजान्घोरान्नरकान्प्राप्य दारुणान् ।कर्मक्षयात्प्रजायन्ते महापातकिनः क्षितौ ॥६०॥जायन्ते लक्षणैर्यैस्तुतानि मे शृणु सत्तम ।मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ॥६१॥कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् ।तृणगुल्मतात्वं च क्रमशो गुरुतल्पगः ॥६२॥ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः ।हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥६३॥यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते ।संवत्सरेण पतति पतितेन सहाचरन् ॥६४॥संलापस्पर्शनिः श्वाससहयानाशनासनात् ।याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥६५॥गत्वा दारान्परेषाञ्च ब्रह्मस्वमपहृत्य च ।अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ॥६६॥हीनजातौ प्रजायेत रत्नानामपहारकः ।पत्रं च शाखिनो हृत्वा गन्धांश्छुच्छुन्दरी पुमान् ॥६७॥मूषको धान्यहारी स्याद्यानमुष्ट्रः फलं कपिः ।निर्मन्त्रभोजनात्काको गृध्रो हृत्वा ह्युपस्करम् ॥६८॥मधुदंशः फलं गृध्रो गां गोधाग्निं बकस्तथा ।स्याच्छ्वेतकुष्ठी स्त्रीवस्त्र ह्यरुची रसहारकः ॥६९॥कांस्यहारी तु हंसः स्यात्परस्वस्य च हारकः ।अपस्मारी गुरोर्हन्ता क्रूरकृद्वामनो भवेत् ॥७०॥धर्मपत्नीं त्यजञ्छब्दवेधी प्राणी भवेत्क्षितौ ।देवविप्रस्वापहारी पाण्डुरः परमांसभुक् ॥७१॥भक्ष्याभक्ष्यो गण्डमाली महारोगी प्रजायते ।न्यासापहारी काणः स्यास्त्रीजीवः खञ्जको भवेत् ॥७२॥कौमारदारत्यागी च दुर्भगोऽथै कमिष्टभुक् ।वातगुल्मी विप्रयोषिद्गामी वा जम्बुको भवेत् ॥७३॥शय्याहर्ता क्षपणकः पतङ्गो वस्त्रहारकः ।मात्सर्यादपि जात्यन्धो कपाली दीपहारकः ॥७४॥कौशिको मित्रहन्ता च क्षयी पित्रादिनिन्दकः ।स्खलद्वागनृतवादी कूटसाक्षी जलोदरी ॥७५॥मशकः सोऽथ चछिन्नोष्ठो विवाहे विघ्नकृद्भवेत् ।स्याद्वाथ वृषलः सोऽयं चत्वरे वै विण्मूत्रकृत् ॥७६॥मूत्रकृच्छ्री दूषकस्तु कन्यायाः क्लीबतामियात् ।द्वीपी स्याद्वेदविक्रेता वराहोऽयाज्ययाजकः ॥७७॥यतस्ततोऽश्रन्मार्जारो खद्योतो वहदाहकः ।कृमिः पर्युषितादः स्यान्मत्सरी भ्रमरो भवेत् ॥७८॥अग्न्युत्सादी तु कुष्ठी स्याददत्ताऽदानतो वृषः ।सर्पो गोहारकोऽन्नस्य हारकः स्यादजीर्णवान् ॥७९॥जलहारी तु मत्स्यः स्यात्क्षीरहारी बलाकिका ।अन्नं पर्युषितं विप्रे प्रददत्कुब्जतां व्रजेत् ॥८०॥फलानि हरते यस्तु सन्ततिर्म्रियते खग ।अदत्त्वा भक्ष्यमश्राति ह्यनपत्यो भवेन्नरः ॥८१॥प्रवज्यागमनाद्राजन् भवेन्मरुपिशाचकः ।चातको जलहर्ता स्याज्जन्मान्धः पुंस्तकं हरन् ॥८२॥प्रतिश्रुत्य द्विजेभ्योर्ऽथमददज्जम्बुको भवेत् ।परिवादादिजातीनां लभते काच्छपीं तनुम् ॥८३॥दुर्भगः फलविक्रेता वृकश्च वृषलीपतिः ।मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ॥८४॥जलप्रस्त्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ।हरेः कथां न शृण्वन्ति ये न साधुजनस्तवम् ॥८५॥तान्नरान्कर्णमूलोऽयं व्याप्नुयान्नेतराञ्जनान् ।परस्याननसंस्थं यो ग्रासं हरि मन्दधीः ॥८६॥देवोपकरणान्येनं गण्डमालिनमीहते ।दम्भेनाचरते धर्मं गजचर्मा भवेत्तु सः ॥८७॥शिरोऽर्तिप्रमुखा रोगा यान्ति विश्वासघातकम् ।लिङ्गपीडी शिवस्वं च शिवनिर्माल्यमेव च ॥८८॥स्त्रियोऽप्यनेन मार्गेण हृत्वा दोषमवाप्नुयुः ।एतेषामेव जन्तूनां भार्यात्वमुपजायते ॥८९॥भोगान्ते नरकस्यैतत्सर्वमित्यवधारय ।खघ प्रदर्श्यमेतत्तु मयोक्तं ते समासतः ।द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥९०॥एवं विचित्रैर्निजकर्मभिर्नृणां सुखस्य दुः खस्य च जन्मनामपि ।वैचित्र्यमुक्तं शुभकर्मतः शुभं तथाशुभाच्चाशुभमीरयन्ति ॥९१॥एतत्ते सर्वंमाख्यातं यत्पृष्टोऽहमिह त्वया ॥९२॥इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रतका(ख)ण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिकविधिकर्मविपाकयोर्वर्णनं नाम द्वितीयोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP