प्रेतकाण्डः - अध्यायः ४०
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
तार्क्ष्य उवाच ।
भगवन्ब्राह्मणाः केचिदपमृत्युवशं गताः ।
कथं तेषां भवेन्मार्गः किं स्थानं का गतिर्भवेत् ॥१॥
किञ्च युक्तं भवेत्तेषां विधानं वापि कीदृशम् ।
तदहं श्रोतुमिच्छामि ब्रूहि मे मधुसूदन ॥२॥
श्रीकृष्ण उवाच ।
प्रेतीभूताद्विजातीनां सम्भूते मृत्युवैकृते ।
तेषां मार्गगतिस्थानं विधानं कथयाम्यहम् ॥३॥
शृणु तार्क्ष्य परं गोप्यं जाते दुर्मरणे सति ।
लङ्घनैर्ये मृता विप्रा दंष्ट्रिभिश्चाभिघातिताः ॥४॥
कण्ठग्राह विमग्नानां क्षीणानां तुण्डघातिनाम् ।
विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः ॥५॥
पतनोद्वन्धनजलैर्मृतानां शृणु संस्थितिम् ।
यान्ति ते नरकेघोरे ये च म्लेच्छादिभिर्हताः ॥६॥
श्वशृगालादिसंस्पृष्टा अदग्धाः कृमिसंङ्कुलाः ।
उल्लङ्घिता मृता ये च महारोगैश्च पीडिताः ॥७॥
अभिसस्तास्तथाव्यङ्गा ये च पापान्नपोषिताः ।
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युताग्नितः ॥८॥
दष्ट्रिभ्यश्च पशुभ्यश्च वृक्षादिपतनान्मृताः ।
उदक्यामूतकीशूद्रारजकीसङ्गदूषिताः ॥९॥
तेन पापेन नरकान्मुक्ताः प्रेतत्वभागिनः ।
न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम् ॥१०॥
न विधानं मृताद्यं च न कुर्यादौर्ध्वदैहिकम् ।
तेषां तार्क्ष्य प्रकुर्वीत नारायणबलिक्रियाम् ॥११॥
सर्वलोकहितार्थाय शृणु पापभयापहाम् ।
षण्मासं ब्राह्मणे दाहस्त्रिमासं क्षत्त्रिये मतः ॥१२॥
सार्ध मासं तु वैश्यस्य सद्यः शूद्रे विधीयते ।
गङ्गायां यमुनायाञ्च नैमिषे पुष्करेऽथ च ॥१३॥
तडागे जलूपूर्णे वा ह्रदे वा विमलोदके ।
वाप्यां कूपे गवां गोष्ठे गृहे वा प्रतिमालये ॥१४॥
कृष्णाग्रे कारयेद्विप्र बलिं नारायणाह्वयम् ।
प्रेताय तर्पणं कार्यं मन्त्रैः पौराणवैदिकैः ॥१५॥
सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् ।
कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि ॥१६॥
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुरिति स्मरेत् ।
अनादिनिधनो देवः शङ्खचक्रगदाधरः ॥१७॥
अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेत् ।
तर्पणस्यावसाने च वीतरागो विमत्सरः ॥१८॥
जितेन्द्रियमना भूत्वा शुचिप्मान्धर्मतत्परः ।
दानधर्मरतः शान्तः प्रणम्य वाग्यतः शुचिः ॥१९॥
यजमानो भबेत्तत्र शुचिर्वन्धुसमन्वितः ।
भक्त्या तत्र प्रकुर्वीत श्राद्धत्येकादशैव तु ॥२०॥
सर्वकर्मविपाकेन एकैकाग्रे समाहितः ।
तोयव्रीहियवान् षष्ट्या गोधूमांश्च प्रियङ्गुकान् ॥२१॥
हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च चलेकम् ।
दापयेत्सर्वसस्यानि क्षीरक्षौद्रयुतानि च ॥२२॥
वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् ।
दापयेत्सर्वविप्रेभ्यो न कुर्यात्पङ्क्तिबन्धनम् ॥२३॥
भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् ।
शङ्खपात्रे तथा ताम्रे तर्पणञ्च पृथक्पृथक् ॥२४॥
ध्यानधारणसंयुक्तो जानुभ्यामवनिं गतः ।
दातव्यं सर्वविप्रेभ्यो वेदशास्त्रविधानतः ॥२५॥
ऋचा वै दापयेदर्घ्यमेकोद्दिष्टे पृथक्पृथक् ।
आपोदेवीर्मधुमतीरादिपीठे प्रकल्पितम् ॥२६॥
उपयामगृहीतोऽसि द्वितीयेर्ऽघं निवेदयेत् ।
येनापावकचक्षुषा तृतीये च कसल्पितम् ॥२७॥
ये देवासश्चतुर्थे तु समुद्रं गच्छ पञ्चमे ।
अग्निर्ज्योति स्तथा षष्ठे हिरण्यगर्भः सप्तमे ॥२८॥
यमाय त्वाष्टमे ज्ञेयं यज्जग्रन्नवमे तथा ।
तशमे याः फलिनीति पिण्डे चैकादशे ततः ॥२९॥
भद्रं कर्णेभिरिति च कुर्यात्पिण्डविसर्जनम् ।
कृत्वैकादशदेवत्यं श्राद्धं कुर्यात्परेऽहनि ॥३०॥
विप्रानावाहयेत्पञ्च चतुर्वेदविशारदान् ।
विद्याशीलगुणोपेतान्स्व कीयाञ्छीलसत्तमान् ।
अब्यङ्गान्सप्रशस्तांश्च न त्वर्ज्यान्कदाचन ॥३१॥
विष्णुः स्वर्णमयः कार्यो रुदस्ताम्रमयस्तथा ।
ब्रह्मा रूप्यमयस्तद्वद्यमो लोहमयो भवेत् ॥३२॥
सीसकं तु भवेत्प्रेतं त्वथ वा दर्भकं तथा ।
शन्नोदेवीति मन्त्रेण गोविन्दं पश्चिमे न्यसेत् ॥३३॥
अग्न आयाहीति रुद्रमुत्तरत्रैव विन्यसेत् ।
अग्निमीळेति मन्त्रेण पूर्वेणैव प्रजापतिम् ॥३४॥
इषेत्वोर्जोति मन्त्रेण दक्षिणे स्थापयेद्यमम् ।
मध्ये मण्डलकं कृत्वा स्थाप्यो दर्भमयो नरः ॥३५॥
ब्रह्मा विष्णुस्तथा रुद्रो यमः प्रेतश्च पञ्चमः ।
पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः ॥३६॥
वस्त्रयज्ञोपवीतानि पृथङ्मुद्रापराणि च ।
जपं कर्यात्पृथक्तत्र ब्रह्मादौ देवतासु च ॥३७॥
पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि ।
जलधारां ततो दद्यत्पीठेपीठे पृथक्पृथक् ॥३८॥
शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मयेऽपि वा ।
तिलोदकं समादाय सर्वौषधिसमन्वितम् ॥३९॥
आसनोपानहौ च्छत्रं मुद्रिका च कमण्डलुः ।
भाजनं भाजनाधारं वस्त्राण्यष्टविधं पदम् ॥४०॥
ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् ।
दद्याद्ब्राह्मणमुख्याय विधियुक्तं खगेश्वर ॥४१॥
ऋग्वेदपारगे दद्याज्जातसस्यां वसुन्धराम् ।
यजुर्वेदमये विप्रे गाञ्च दद्यात्पयस्विनीम् ॥४२॥
सामगाय शिवोद्देशात्प्रदद्यात्कलधौतकम् ।
यमोद्देशात्तिलांल्लोहं ततो दद्याच्च दक्षिणाम् ॥४३॥
पश्चात्पुत्तलकं कार्यं सर्वौषधिसमन्वितम् ।
पलाशस्य च वृन्तानां विभागं शृणु काश्यप ॥४४॥
कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ।
शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः ॥४५॥
विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् ।
चत्वारिंशच्छिरोदेशे ग्रीवायां दश विन्यसेत् ॥४६॥
विंशत्युरः स्थले दद्याद्विंशतिं जठरेऽपि च ।
बाहुयुग्मे शतं दद्यात्कटि देशे च विंशतिम् ॥४७॥
ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् ।
दद्याच्चतुष्टयं शिश्रे षड्दद्याद्वृषणद्वये ।
दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत् ॥४८॥
नारिकेलं शिरः स्थाने तुम्बं दद्याच्च तालुके ।
पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम् ॥४९॥
अन्त्रेषु नालकं दद्याद्बालकं प्राण एव च ।
वसायीं मेदकं दद्याद्गोमूत्रेण तु मूत्रकम् ॥५०॥
गन्धकं धातवो देयो हरितालं मनः शिला ।
रेतः स्थाने पारदञ्च पुरीषे पित्तलं तथा ॥५१॥
मनः शिलां तथा गात्रे तिलकल्कञ्च सन्धिषु ।
यवपिष्टं तथा मांसे मधु वै क्षौद्रमेव च ॥५२॥
केशेषु वै वटजटात्वचि दद्यान्मृगत्वचम् ।
कर्णयोस्तालपत्त्रञ्च स्तनयोश्चैव गुञ्जिकाः ॥५३॥
नासायां शतपत्त्रं च कमलं नाभिमण्डले ।
वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम् ॥५४॥
घृतं नाभ्यां प्रदेयं स्यात्कौपीने च त्रपु स्मृतम् ।
मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेन विलेपनम् ॥५५॥
कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ।
परिधानं पट्टसूत्रं हृदये रुक्मकं न्यसेत् ॥५६॥
ऋद्धिवृद्धी भुजौ द्वौ च चक्षुषोश्च कपर्दकौ ।
सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकैः ॥५७॥
सर्वौषधियुतं प्रेतं कृत्वा पूजा यथोदिता ।
साग्निके (कैश्चा) चापि विधिना यज्ञपात्रं न्यसेत्क्रमात् ॥५८॥
शिरोमे श्रीरिति ऋचा पुनन्तु वरुणेति च ।
प्रेतस्य पावनं कृत्वा शालिशालशिलोदकैः ॥५९॥
विष्णुमुद्दिश्य दातव्या सुशीलागौः पयस्विनी ॥६०॥
(तिला लोहं हिरण्यं च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गाव एकैकं पानं समृतम् ॥६१॥
तिलपात्रं ततो दत्त्वा पददानं तथैव च ॥६१*१॥
महादानानि देयानि तिलपात्रं तथेति च ।
ततो वैतरणी देया सर्वाभरणभूषिता ॥६२॥
कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थ मात्मवान् ।
प्रेतंमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्य च ॥६३॥
ओं विष्णुरिति संस्मृत्य प्रेतं तन्मृत्युमेव च ।
अग्निदाहं ततः कुर्यात्सूतकन्तु दिनत्रयम् ॥६४॥
दशाहकर्त्रा पिण्डाश्च कर्तव्याः प्रेतभुक्तये ।
सर्वं वर्षविधिं कुर्यादेवं प्रेतश्च मुक्तिभाक् ॥६५॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽपमृत्यौ सुखदुः खलाभालाभनिरूपणं नाम चत्वारिंशत्तमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP