प्रेतकाण्डः - अध्यायः २१
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
गरुड उवाच ।
मुक्तिं यान्ति कथं प्रेतास्तदहं प्रष्टुमुत्सुकः ।
यन्मुक्तौ च मनुष्याणां न पीडा जायते पुनः ॥१॥
एतैश्च लक्षणैर्देव पीडोक्ता प्रेतजा त्वया ।
तेषां कदा भवेन्मुक्तिः प्रेतत्वं न कथं भवेत् ॥२॥
प्रेतत्वे हि प्रमाणं च कति वर्षाणि संख्यया ।
चिरं प्रेतत्वमापन्नः कथं मुक्तिमवाप्नुयात् ॥३॥
श्रीकृष्ण उवाच ।
मुक्तिं प्रायन्ति ते प्रेतास्तदहं कथयामि ते ।
यदैव मनुजोऽवैति मम पीडा कृता त्वियम् ॥४॥
पृच्छार्थं हितमन्विच्छन्दै वज्ञे विनिवदयेत् ।
स्वप्ने दृष्टः शुभो वृक्षः फलितश्चूतचम्पकः ॥५॥
विप्रो वा वृषभो देवो भ्रमते तीर्थगो यदि ।
एवं दृष्टो यदा स्वप्नो मृतः कोऽपिस्वगोत्रजः ॥६॥
स्वप्ने सत्यं परिज्ञाय दृष्टं प्रेतप्रभावतः ।
अद्भुतानि प्रदृश्यन्ते प्रेतदोषाद्विनिश्चितम् ॥७॥
तीर्थस्नाने मतिर्यावच्चित्तं धर्मपरायणम् ।
धर्मापायं प्रकुरुते प्रेतपीडा तदा व्रजेत् ॥८॥
तदा तत्र विनाशाय चित्तभङ्गं करोति सा ।
श्रेयांसि बहुविघ्नानि सम्भवन्ति पदेपदे ॥९॥
अश्रेयसि प्रवृत्ति च प्रेरयन्ति पुनः पुनः ।
उच्चाटनं च क्रूरत्वं सर्वं प्रेतकृतं खग ॥१०॥
सर्वविघ्नानि सन्त्यज्य मुक्त्युपायं करोति यः ।
तस्य कर्मफलं साधु प्रेतवृत्तिश्च शाश्वती ॥११॥
स भवेत्तेन मुक्तस्तु दत्तं श्रेयस्करं परम् ।
स्वयं तृप्यति भोः पक्षिन्यस्योद्देशेन दीयते ॥१२॥
शृणु सत्यमिदं तार्क्ष्य यद्ददाति भुनक्ति सः ।
आत्मानं श्रेयसा युञ्ज्यात्प्रेतस्तृप्तिं चिरं व्रजेत् ॥१३॥
ते तृप्ताः शुभमिच्छन्ति निजबन्धुषु सर्वदा ।
अज्ञातयस्तु ये दुष्टाः पीडयन्ति स्ववंशजान् ॥१४॥
निवारयन्ति तृप्तास्ते जायमानानुकम्पकाः ।
पश्चात्ते मुक्तिमायन्ति काले प्राप्ते स्वपुत्रतः ।
सदा बन्धुषु यच्छन्ति वृद्धिमृद्धिं खगाधिप ॥१५॥
दर्शनाद्भाषणाद्यस्तु चेष्टातः पीडनाद्गतिम् ।
न प्रापयति मूढात्मा प्रेतशापैः स लिप्यते ॥१६॥
अपुत्रकोऽपशुश्चैव दरिद्रो व्याधितस्तथा ।
वृत्तिहीनश्च हीनश्च भवेज्जन्मनिजन्मनि ॥१७॥
एवं ब्रुवन्ति ते प्रेताः पुनर्याभ्यं समाश्रिताः ।
तत्रस्थानां भवेन्मुक्तिः स्वकाले कर्मसंक्षये ॥१८॥
गरुड उवाच ।
नाम गोत्रं न दृश्येत प्रतीतिर्नैव जायते ।
केचिद्वदन्ति दैवज्ञाः पीडां प्रेतसमुद्भवाम् ॥१९॥
न स्वप्नश्चैष्टितं नैव दर्शनं न कदाचन ।
किं कर्तव्यं सुरश्रेष्ठ तत्र मे ब्रूहि निश्चितम् ॥२०॥
श्रीभगवानुवाच ।
सत्यं वाप्यनृतं वापि वदन्ति क्षितिदेवताः ।
तदा सञ्चिन्त्य हृदये सत्यमेतद्द्विजेरितम् ॥२१॥
भावभक्तिं पुरस्कृत्य पितृभक्तिपरायणः ।
कृत्वा कृष्णबलिं चैव पुरश्चरण पूर्वकम् ॥२२॥
जपहोमैस्तथा दानैः प्रकुर्याद्देहसोधनम् ।
कृतेन तेन विघ्नानि विनश्यन्ति खगेश्वर ॥२३॥
भूतप्रेतपिशाचैर्वा स चेदन्यैः प्रपीड्यते ।
पित्रुद्देशेन वै कुर्यान्नारायणबलिं तदा ।
विमुक्तः सर्वपीडाभ्य इति सत्यं वचो मम ॥२४॥
पितृपीडा भवेद्यत्र कृत्यैरन्यैर्न मुच्यते ।
तस्मात्सर्वप्रयत्नेन पितृभक्तिपरो भवेत् ॥२५॥
नवमे दशमे वर्षे पिक्षुद्देशेन वै पुमान् ।
गायत्त्रीमयुतं जप्त्वा दशांशेन च होमयेत् ॥२६॥
कृत्वा कृष्णबलिं पूर्वं वृषोत्सर्गादिकाः क्रियाः ।
सर्वोपद्रवहीनस्तु सर्वसौख्यमवाप्नुयात् ।
उत्तमं लोकमाप्नोति ज्ञातिप्राधान्यमेव च ॥२७॥
पितृमा तृसमं लोके नास्त्यन्यद्दैवतं परम् ।
तस्मात्सर्वप्रयत्नेन पूजयेत्पितरौ सदा ॥२८॥
हितानामुपदेष्टा हि प्रत्यक्षं दैवतं पिता ।
अन्या या देवता लोके न देहप्रभवो हि ताः ॥२९॥
शरीरमेव जन्तूनां स्वर्गमोक्षैकसाधनम् ।
देहो दत्तो हि येनैवं कोऽन्यः पूज्यतमस्ततः ॥३०॥
इति सञ्चिन्त्यहृदये पक्षिन्यद्यत्प्रयच्छति ।
तत्सर्वमात्मना भुङ्क्ते दानं वेदविदो विदुः ॥३१॥
पुन्नामनरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्त्र इति प्रोक्त इह चापि परत्र च ॥३२॥
अपमृत्युमृतौ स्यातां पितरौ कस्यचित्खग ।
व्रततीर्थाविवाहादिश्राद्धं संवत्सरं त्यजेत् ॥३३॥
स्वप्नाध्यायमिमं यस्तु प्रेत लिङ्गनिदर्शकम् ।
यः पठेच्छृणुयाद्वापि प्रेतचिह्नं न पश्यति ॥३४॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकादृप्रेतकल्पे श्रीकृष्णगरुडसंवादे स्वप्नाध्यायो नामैकविंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP