संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः ३१ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः ३१ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ३१ Translation - भाषांतर श्रीविष्णुरुवाच ।ये नराः पापसंयुक्तास्ते गच्छन्ति यमालयम् ।नृणां मत्साक्षिकं दत्तमनन्तफलदं भवेत् ॥१॥यावद्रजः प्रमाणाब्दंस्वर्गे तिष्ठति भूमिदः ।अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ ॥२॥आतपे श्रमयोगेन न दह्यन्ते च कुत्रचित् ।छत्त्रदानेन वै प्रेता विचरन्ति सुखं पथि ॥३॥यमुद्दिश्य ददात्यन्नं तेन चाप्यायितो भवेत् ॥४॥अन्धकारे महाघोरे अमूर्ते लक्ष्यवर्जिते ।उद्द्योतेनैव ते यान्ति दीपदानेन मानवाः ॥५॥आश्विने कर्तिके वापि माघे मृततिथावपि ।चतुर्दश्याञ्च दीयेत दीपदानं सुखाय वै ॥६॥प्रत्यहञ्च प्रदातव्यं मार्गे सुविषमे नरैः ।यावत्संवत्सरं वापि प्रेतस्य सुखलिप्सया ॥७॥कुले द्योतति शुद्धात्मा प्रकाशत्वं स गच्छति ।ज्योतिर्मयोऽसौ पूज्योऽसौ दीपदानप्रदो नरः ॥८॥प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजातये ।कुर्याद्याम्यमुखं पित्रे अद्भिः सङ्कल्प्य सुस्थिरम् ॥९॥सर्वोपहारयुक्तानि पदान्यत्र त्रयोदश ।यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ।स गच्छति महामार्गे महाकष्टविवर्जितः ॥१०॥आसनं भाजनं भोज्यं दीयते यद्द्विजायते ।सुखे न भुञ्जमानस्तु देन गच्छत्यलं पथि ॥११॥कमण्डलुप्रदानेन तृषितः पिबते जलम् ॥१२॥भाजनं वस्त्रदानञ्च कुसुमञ्चाङ्गुलीयकम् ।एकादशा हे दातव्यं प्रेतोद्धरणहेतवे ॥१३॥त्रयोदश पदानीत्थं प्रेतस्य शुभमिच्छता ।दातव्यानि यथाशक्त्या प्रेतोऽसौ प्रीणितो भवेत् ॥१४॥भोजना नि तिलांश्चैव उदकुम्भांस्त्रयोदश ।मुद्रिकां वस्त्रयुग्मञ्च तया याति परां गतिम् ॥१५॥योऽश्वं नावं गजं वापि ब्राह्मणे प्रतिपादयेत् ।स महिम्नोऽनुसारेण तत्तत्सुखमुपाश्नुते ॥१६॥नानालोकान् विचरति महिषीञ्च ददाति यः ।यमपुत्त्रस्य या माता महिषी सुगतिप्रदा ॥१७॥ताम्बूलं कुसुमं देयं याम्यानां हर्षवर्धनम् ।तेन सम्प्रीणिताः सर्वे तस्मिन् क्लेशं न कुर्वते ॥१८॥गोभूतिलहिरण्यानि दानान्याहुः स्वशक्तितः ॥१९॥मृतोद्देशेन यो यद्याज्जलपात्रञ्च मृन्मयम् ।उदपात्रसहस्रस्य फलमाप्नोति मानवः ॥२०॥यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।न भीषयन्ति तं याम्या वस्त्रदाने कृते सति ॥२१॥मार्गे हि गच्छमानस्तु तृष्णार्तः श्रमपीडितः ।घटान्नदानयोगेन सुखी भवति निश्चितम् ॥२२॥शय्या दक्षिणया युक्ता आयुधाम्बरसंयुता ।हैमश्रीपतिना युक्ता देया विप्राय शर्मणे ।तथा प्रेतत्वमुक्तोऽसौ मोदते सह दैवतैः ॥२३॥एतत्ते कथितं तार्क्ष्य दानमन्त्येष्टिकर्मजम् ।अधुना कथयिष्येऽहमन्यदेहप्रवेशनम् ॥२४॥जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् ।मृतिः कुर्यात्स्वधर्मेण यास्यतश्च परन्तप ॥२५॥पूर्वकाले मृतानाञ्च प्राणिनाञ्च खगेश्वर ।सूक्ष्मोभूत्वा त्वसौ वायुर्निर्गच्छत्यास्यमण्डलात् ॥२६॥नवद्वारै रोमभिश्च जनानां तालुरन्ध्रके ।पापिष्ठानामपानेन जीवो निष्क्रामति ध्रुवम् ॥२७॥शरीरञ्च पतेत्पश्चान्निर्गते मरुतीश्वरे ।वाताहतः पतत्येव निराधारो यथा द्रुमः ॥२८॥पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च ।तेजस्तेजसि लीयते समीरणः समीरणे ।आकाशे च तथा काशः सर्वव्यापी च शङ्करे ॥२९॥तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ।एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः ॥३०॥कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः ।संहारकश्च कालोऽयं पुण्यपापसमन्वितः ॥३१॥जगतश्च स्वरूपन्तु निर्मितं स्वेन कर्मणा ।पुनर्देहान्तरं याति सुकृतैर्दुष्कृतैर्नरः ॥३२॥पञ्चेन्द्रियसमायुक्तं सकलैर्विष्यैः सह ।प्रविशेत्स नवं देहं गृहे दग्धे यथा गृही ॥३३॥शरीरे ये समासीना सम्भवेत्सर्वधातवः ।षाट्कौशिको ह्ययं कायो माता पित्रोश्च धातवः ॥३४॥सम्भवेयुस्तथा तार्क्ष्य सर्वे वाताश्च देहिनाम् ।मूत्रं पुरीषं तद्योगा ये चान्ये व्याधयस्तथा ॥३५॥अस्थि शुक्रं तथा स्नायुः देहेन सह दह्यते ।एष ते कथितस्तार्क्ष्य विनाशः सर्वदेहिनाम् ॥३६॥कथयामि पुनस्तेषां शरीरञ्च यथा भवेत् ।एकस्तम्भं स्नायुबद्धं स्थूणाद्वयसमुद्धृतम् ॥३७॥इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् ।विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम् ॥३८॥रागद्वेषसमाकीर्णं तृष्णादुर्गसुदुस्तरम् ।लोभजालसमायुक्तं पुरं पुरुषसंज्ञितम् ॥३९॥एतद्गुणसमायुक्तं शरीरं सर्वदेहिनाम् ।तिष्ठन्ति देवताः सर्वा भुवनानि चतुर्दश ॥४०॥आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः ।एवमेतन्मयाख्यातं शरीरं ते चतुर्विधम् ॥४१॥चतुरशीतिलक्षाणि निर्मिता योनयः पुरा ।उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ॥४२॥एतत्ते सर्वमाख्यातं यत्पृष्टोहं त्वयानघ ॥४३॥इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दानफ लान्यदेहप्रवेशादिनिरूपणं नामै कत्रिंशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP