प्रेतकाण्डः - अध्यायः ३८
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
तार्क्ष्य उवाच ।
दानतीर्थार्थितं मोक्षं स्वर्गञ्च वद मे प्रभो ।
केन मोक्षमवाप्नोति केन स्वर्गे वसेच्चिरम् ॥१॥
केन गच्छति तेजस्तु स्वर्लोकात्सत्यलोकतः ।
मानुष्यं केन लभते नरकेशु निमज्जति ॥२॥
एतन्मे वदनिश्चित्य भक्तानां मोक्षदायक ।
ब्रूहि कस्मिन्मृते स्वर्गे पुनर्जन्म न विद्यते ॥३॥
श्रीविष्णुरुवाच ।
मानुष्यं भारते वर्षे त्रयोदशसु जातिषु ॥४॥
तत्प्राप्य म्रियते क्षेत्रे पुनर्जन्म न विद्यते ।
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ॥५॥
पुरी द्वारवती ज्ञेया सप्तैता मोक्षदायिकाः ।
सन्न्यस्तमिति यो ब्रुयात्प्राणैः कण्ठगतैरपि ॥६॥
मृतो विष्णुपुरं याति न पुनर्जायते क्षितौ ।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥७॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः ॥८॥
जल भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ।
शालग्रामजिला यत्र यत्र द्वारवती शिला ॥९॥
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ।
शालग्रामशिला यत्र पापदोषक्षयावहा ॥१०॥
तत्सन्निधानमरणान्मुक्तिर्जन्तोः सुनिश्चता ।
रोपणात्पालनात्सेकाद्ध्यानस्पर्शनकीर्तनात् ।
तुलसी दहते पापं नृणां जन्मार्जितं खग ॥११॥
ज्ञानहृदे सत्यजले रागद्वेषमलापहे ।
यः स्नातो मानसे तीर्थे न स लिप्येत पातकैः ॥१२॥
न काष्ठे विद्यते देवो न शिलायां कदाचन ।
भावे हि विद्यते देवस्तस्माद्भावं समाचरेत् ॥१३॥
प्रातः प्रातः प्रपश्यन्ति नर्मदां मत्स्यघातिनः ।
न ते शिवपुरीं यान्ति चित्तवृत्तिर्गरीयसी ॥१४॥
यादृक्चित्तप्रतीतिः स्यात्तादृक्कर्मफलं नृणाम् ।
परलोकगतिस्तादृक सूचीसूत्रविचारवत् ॥१५॥
ब्राह्मणार्थे गवार्थे च स्त्रीणां बलवधेषु च ।
प्राणत्यागपरो यस्तु स वै मोक्षमवाप्नुयात् ॥१६॥
अनाशके मृतौ यस्तु स वै मोक्षमवाप्नुयात् ।
अनाशके मृतो यस्तु स मुक्तः सर्वबन्धनैः ॥१७॥
दत्त्वा दानानि विप्रेभ्यस्ततो मोक्षमवाप्नुयात् ।
एते वै मोक्षमार्गाश्च स्वर्गमार्गास्तथैव च ॥१८॥
गोग्रहे देशविध्वंसे मरणं रणतीर्थयोः ।
उत्तमाधममध्यस्य बाध्यमानस्य देहिनः ।
आत्मानं तत्र सन्त्यज्य स्वर्गवासं लभेच्चिरम् ॥१९॥
जीवितं मरणञ्चैव द्वयं शिक्षेत पण्डितः ।
जीवितं दानभोगाभ्यां मरणं रणतीर्थयोः ॥२०॥
हरिक्षेत्रे कुरुक्षेत्रे भृगुक्षेत्रे तथैव च ।
प्रभासे श्रीस्थले चैव अर्बुदे च त्रिपुष्करे ॥२१॥
भूतेश्वरे मृतो यस्तु स्वर्गे वसति मानवः ।
ब्रह्मणो दिवसं यावत्ततः पतति भूतले ॥२२॥
वर्षवृत्तिन्तु यो दद्याद्ब्राह्मणे दोषवर्जिते ।
सर्वं कलं स मुद्धृत्य स्वर्गलोके महीयते ॥२३॥
कन्यां विवाहयेद्यस्तु ब्राह्मणं वेदपारगम् ।
इन्द्रलोके वसेत्सोऽपि स्वकुलैः परिवेष्टितः ॥२४॥
महादानानि दत्वा च नरस्तत्फलमामुयात् ॥२५॥
वापी कूपतडागानामारामसुरसद्मनाम् ।
जीर्णोद्धारं प्रकुर्वाणः पूर्वकर्तुः फलं लभेत् ।
जीर्णोद्धारेण वा तेषां तत्पुण्यं द्विगुणं भवेत् ॥२६॥
शीतवा तातपहरमपि पर्णकुटीरकम् ।
कृत्वा विप्राय विदुषे प्रददाति कुटुम्बिने ॥२७॥
तिस्रः कोट्योर्धकोटी च नरः स्वर्गे महीयते ॥२८॥
या स्त्री सवर्णा संशुबा मृतं पतिमनुव्रजेत् ।
सा मृता स्वर्गमाप्नोति वर्षाणां रोमसंख्यता ॥२९॥
पुत्रपौत्रादिकं त्यक्त्वा स्वपतिं यानुगच्छति ।
स्वर्गं लभेतां तौ चोभौ दिव्यस्त्रीभिरलङ्कृतौ ॥३०॥
कृत्वा पापान्यनेकानि भर्तृद्रोहमतिः सदा ।
प्रक्षालयति सर्वाणि या स्वं पतिमनुव्रजेत् ॥३१॥
महापापसमाचारो भर्ता चेद्दुष्कृती भवेत् ।
तस्याप्यनुव्रता नारी नारायेत्सर्वकिल्बिषम् ॥३२॥
ग्रासमात्रं नियमतो नित्यदानं करोति यः ।
चतुश्चामरसंयुक्तविमानेनाधिगच्छति ॥३३॥
यत्कृतं हि मनुष्येण पापमामरणान्तिकम् ।
तत्सर्वं नाशमायाति वर्षवृत्तिप्रदानतः ॥३४॥
भूतं भव्यं बविष्यञ्च पापं जन्मत्रयार्जितम् ।
पक्षालयति तत्सर्वं विप्रकन्योपनायनात् ॥३५॥
दशकूपसमा वापि दशवापीसमं सरः ।
सरो भिर्दशभिस्तुल्या या प्रपा निर्जले वने ॥३६॥
या वापी निर्जले देशे यद्दानं निर्धने द्विजे ।
प्राणिनां यो दयां धत्ते स भवेन्नाकनायकः ॥३७॥
एवमादिभिरन्यैश्च सुकृतैः स्वर्गभाग्भवेत् ।
स तत्सर्वं फलं प्राप्य प्रतिष्ठां परमां लभेत् ॥३८॥
फल्गु कार्यं परित्यज्य सततं धर्मवान् भवेत् ।
दानं दमो दया चेति सारमेतत्त्रयं भुवि ॥३९॥
दानं साधोर्दरिद्रस्य शून्यलिङ्गस्य पूजनम् ।
अनाथप्रेतसंस्कारः कोटियज्ञफलप्रदः ॥४०॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे उत्तमलोकगत्यागतिमोक्षमानुष्यहेतुनिरूपणं नामाष्टात्रिंशत्तमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP