प्रेतकाण्डः - अध्यायः ४५
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
श्रीविष्णुरुवाच ।
प्रत्यब्दं श्राद्धमेवं ते कथयामि खगेश्वर ।
प्रत्यब्दं पार्वणेनैव कुर्यातां क्षेत्रजोरसौ ॥१॥
विधिनाचेतरैरेवमेकोद्दिष्टं न पार्वणम् ॥२॥
अनग्नेश्च सुतौ स्यातामनग्नी क्षेत्रजोरसौ ।
एकोद्दिष्टं न कुर्यातां प्रत्यब्दं तौ तु पार्वणम् ॥३॥
यदा त्वन्यतरः साग्निः पुत्रो वाप्यथवा पिता ।
प्रत्यब्दं पार्वणं तत्र कुर्यातां क्षेत्रजौरसौ ॥४॥
अनग्नयः साग्नयो वा पुत्रा वा पितरोऽपि वा ।
एकोद्दिष्टं सुतैः कार्यं क्षयाह इति केचन ॥५॥
दर्शकाले क्षयो यस्य प्रेतपक्षेऽथ वा पुनः ।
प्रत्यब्दं पार्वणं कार्यं तस्य सर्वैः सुतैरपि ॥६॥
एकोद्दिष्टमपुत्राणां पुंसां स्याद्योपितामपि ।
एकोद्दिष्टे कुशा ग्राह्याः समूला यज्ञकर्मणि ।
बहिर्लूनाः सकृल्लनाः श्राद्धं वृद्धिमृते सदा ॥७॥
कर्तव्ये पार्वणे श्राद्धे आशौचं यदि जायते ।
आशौचावगमे कुर्याच्छ्राद्धं हि तदनन्तरम् ॥८॥
एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते ।
मासेन्यस्मिन् तिथौ तस्यां कुर्याच्छ्राद्धं तदैव हि ॥९॥
तूष्णीं श्राद्धान्तु शूद्रस्य भार्यायास्तत्सुतस्य च ।
कन्यायाश्च द्विजातीनामनुपेतद्विजस्य च ॥१०॥
एककाले गता सूनां बहूनामथ वा द्वयोः ।
तन्त्रेण श्रपणं कुर्याच्छ्राद्धं कुर्यात्पृथक्पृथक् ॥११॥
दद्यात्पूर्वं मृतस्यादौ द्वितीयस्य ततः पुनः ।
तृतीयस्य ततः कुर्यात्संनिपाते त्वयं विधिः (क्रमः) ॥१२॥
प्रत्यब्दमेवं यः कुर्याद्यथातथमतन्द्रितः ।
तारयित्वा पितॄन् सर्वान् प्राप्नोति परमां गतिम् ॥१३॥
न ज्ञायते मृताहश्चेत्प्रस्थानदिनमेव च ।
मासश्चेत्स्यात्परिज्ञातस्तद्दर्शे स्यान्मृताहिकम् ॥१४॥
यदा मासो न विज्ञातो विज्ञातं दिनमेव च ।
तदा मार्गशिरे मासि माघे वा तद्दिनं भवेत् ॥१५॥
दिनमासावविज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानदिनमासौ तु ग्राह्यौ श्राद्धे मयोदितौ ॥१६॥
प्रस्थानस्यापि न ज्ञातौ दिनमासौ यदा पुनः ।
मृतवार्ताश्रुतौ ग्राह्यौ पूर्वप्रोक्तक्रमेण तु ॥१७॥
प्रवासमन्तरेणापि स्यातां तौ विस्मृतौ यदा ।
तदानीमपि तौ ग्राह्यौ पूर्ववत्तु मृताहिके ॥१८॥
गृहस्थे प्रोषिते यच्च कश्चित्तु म्रियते गृहे ।
आसौचापगमे यत्र प्रारब्धे श्राद्धकर्मणि ॥१९॥
प्रत्यागतश्चेज्जानाति तत्र वृत्तं गृही तथा ।
आशौचं गृहिणस्तेषां न द्रव्यादेस्तदा भवेत् ॥२०॥
पुत्रादिना यदारब्धं श्राद्धं तत्त्वेन वाखिलम् ।
समापनीयं तत्रापि श्राद्धं गृहीतु दूरतः ॥२१॥
दात्रा बोक्त्रा च न ज्ञातं सूतकं मृतकं तथा ।
उभयोरपि तद्दोषं नारोपयति कर्हिचित् ॥२२॥
यदा त्वन्यतरज्ञातं सूतकं मृतकं तथा ।
भोक्तुरेव तदा दोषो नान्यो दाता प्रदुष्यति ॥२३॥
इत्युक्तेन प्रकारेण यः कुर्यान्मृतवासरम् ।
अविज्ञातमृताहस्य सततं तारयत्यसौ ॥२४॥
नित्यश्राद्धेऽथ गन्धाद्यैर्द्विजानभ्यर्च्य भक्तितः ।
सर्वान् पितृगणान् सम्यक्सहैवोद्दिश्य योजयेत् ॥२५॥
आवाहनं स्वधाकारो पिण्डाग्नौकरणादिकम् ।
ब्रह्मचर्यादिनियमा विश्वदेवास्तथैव च ॥२६॥
नित्यश्राद्धे त्यजेदेतान् भोज्यमन्नं प्रकल्पयेत् ।
दत्त्वा तु दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् ॥२७॥
देवानुद्दिश्य विश्वादीन् यद्दद्याद्द्विजभोजनम् ।
तन्नित्यश्राद्धवत्कार्यं देवश्राद्धं तदुच्यते ॥२८॥
मातृश्राद्धन्तु पूर्वेण कर्मादौ पैतृकं तथा ।
उत्तरेऽहनि वृद्धौ स्यान्मातामहगणस्य तु ॥२९॥
श्राद्धत्रयं प्रकुर्र्वीत वैश्वदेवन्तुतान्त्रिकम् ॥३०॥
मातृभ्यः कल्पयेत्पूर्वं पितृभ्यस्तदनन्तरम् ।
मातामहेभ्यश्च तथा दद्यादित्थं क्रमेण तु ॥३१॥
मातृश्राद्धे तु विप्राणामभावे सुकुलोद्गताः ।
पतिपुत्रान्विताः साध्व्यो योषितोऽष्टौ च भावयेत् ॥३२॥
इष्टापूर्तादिके श्राद्धं कुर्यादाभ्युदयं तथा ।
उत्पातादिनिमित्तेषु नित्य श्राद्धवदेव तु ॥३३॥
नित्यं दैवञ्च वृद्धिञ्च काम्यं नैमित्तिकं तथा ।
श्राद्धान्युक्तप्रकारेण कुर्वन् सिद्धिमवाप्नुयात् ।
इति ते कथितं तार्क्ष्य किमन्यत्परिपृच्छसि ॥३४॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रत्याब्दिकादिश्राद्धनिरूपणं नाम पञ्चचत्वारिंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP