प्रेतकाण्डः - अध्यायः १४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
गरुड उवाच ।
आर्तेन म्रियमाणेन यद्दत्तं तत्फलं वद ।
स्वस्थावस्थेन दत्तेन विधिहीनेन वा विभो ॥१॥
श्रीकृष्ण उवाच ।
एका गौः स्वस्थचित्तस्य ह्यातुरस्य च गोशतम् ।
सहस्रं म्रियमाणस्य दत्तं वित्तविवर्जितम् ॥२॥
मृतस्यैव पुनर्लक्षं विधिपूतं च तत्समम् ।
तीर्थपात्रसमायोगादेका गौर्लक्षपुण्यदा ॥३॥
पात्रे दत्ते खगश्रेष्ठ अहन्यहनि वर्धते ।
दातुर्दानमपापाय ज्ञानिनां च प्रतिग्रहः ॥४॥
विषशीतापहो मन्त्रवह्निः किं दोषभाजनम् ।
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ॥५॥
नापात्रे विदुषा किञ्चिदात्मनः श्रेय इच्छता ।
अपात्रे जातु गौर्दत्ता दातारं नरकं नयेत् ॥६॥
कुलैकविंशतियुतं ग्रहीतारं च पातयेत् ।
देहान्तरं परिप्राप्य स्वहस्तेन कृतं च यत् ॥७॥
धनं भूमिगतं यद्वत्स्वहस्तेन निवेशितम् ।
तद्वत्फलमवाप्नोति ह्यहं वच्मि खगेश्वर ॥८॥
अपुत्रोऽपि विशेषेण क्रियां चैवान्ध्वदौहिकीम् ।
प्रकुर्यान्मोक्षकामश्च निर्धनश्च विशेषतः ॥९॥
स्वल्पेनापि हि वित्तेन स्वयं हस्तेन यत्कृतम् ।
अक्षयं याति तत्सर्वं यथाज्यं च हुताशने ॥१०॥
एका चैकस्य दातव्या शय्या कन्या पयस्विनी ।
सा विक्रीता वा दहत्यासप्तमं कुलम् ॥११॥
तस्मात्सर्वं प्रकुर्वीत चञ्चले जीविते सति ।
गृहीतदानपाथेयः सुखं याति महाध्वनि ॥१२॥
अन्यथा क्लिश्यते जन्तुः पाथेयरहितः पथि ।
एवं ज्ञात्वा खगश्रेष्ठ वृषयज्ञं समाचरेत् ॥१३॥
अकृत्वा म्रियते यस्तु अपुत्रो नैव मुक्तिभाक् ।
अपुत्रोऽपि हि यः कुर्यात्सुखं याति महापथे ॥१४॥
अग्निहोत्राधिभिर्यज्ञैर्दानैश्च विविधैरपि ।
न तां गतिमवाप्नोति वृषोत्सर्गेण या गतिः ॥१५॥
यज्ञानां चैव सर्वेषां वृषयज्ञस्तथोत्तमः ।
तस्मात्सर्वप्रयत्नेन वृषयज्ञं समाचरेत् ॥१६॥
गरुड उवाच ।
कथयस्व प्रसादेन क्षयाहं चौर्ध्वदैहिकम् ।
कस्मिन्काले तिथौ कस्यां विधिना केन तद्भवेत् ॥१७॥
कृत्वा किं फलमाप्नोति एतन्मे वद साम्प्रतम् ।
त्वत्प्रसादेन गोविन्द मुक्ते भवति मानवः ॥१८॥
श्रीकृष्ण उवाच ।
कार्तिकादिषु मासेषु याम्यायतगते रवौ ।
शुक्लपक्षे तथा पक्षिन्द्वादश्यादितिथौ शुभे ॥१९॥
शुभे लग्ने मुहूर्ते वा शुचौ देशे समाहितः ।
ब्राह्मणं तु समाहूय विधिज्ञं शुभलक्षणम् ॥२०॥
जपहोमैस्तथा दानैः कुर्याद्दहेस्य शोधनम् ।
पुण्येऽभिजित्सुनक्षत्रे ग्रहान्देवान्समर्चयेत् ॥२१॥
होमं कुर्याद्यथाशक्ति मन्त्रैश्च विविधैरपि ।
ग्रहाणां स्थापनं कुर्यात्पूर्वं चैव खगेश्वर ॥२२॥
मातॄणां पूजनं कार्यं वसोर्धारां च पातयेत् ।
वह्निं संस्थाप्य तत्रैव पूर्णं होमं तु कारयेत् ॥२३॥
शालग्रामं च संस्थाप्य वैष्णवं श्राद्धमाचरेत् ।
वृषं सम्पूज्य तत्रैव वस्त्रालङ्कारभूषणैः ॥२४॥
चतस्रो वत्सतर्यश्च पूर्वं समधिवासयेत् ।
प्रदक्षिणं ततः कुर्याद्धोमान्ते च विसर्जनम् ॥२५॥
इमं मन्त्रं समुच्चार्य उत्तराभिमुखः स्थितः ।
धर्म त्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा ॥२६॥
तवोत्सर्गप्रभावान्मामुद्धरस्वभवार्णावात् ।
अबिषिच्य शुभैर्मन्त्रैः पावनैर्विधिपूर्वकम् ॥२७॥
तनक्रीडन्तिमन्त्रेण वृषोत्सर्गं तु कारयेत् ।
अभिषिञ्चेत्ततो नीलं रुद्रकुम्भो दकेन तु ॥२८॥
नाभिमूले समास्थाय तदम्बु मूर्धनि न्यसेत् ।
अन्न (आत्म) श्राद्धं ततः कुर्याद्दद्याद्दानं द्विजोत्तमे ॥२९॥
उदकेचैव गन्तव्यं जलं तत्र प्रदापयेत् ।
यदिष्टं जीवतस्त्वासीत्तच्च दद्यात्स्वशक्तितः ॥३०॥
न्यूनं संपूर्णतां याति वृषोत्सर्गे कृते सति ।
सुतृप्तो दुस्तरे मार्गे मृतो याति न संशयः ॥३१॥
यमलोकं न पश्यन्ति सदा दानरता नराः ।
यावन्न दीयते जन्तोः श्राद्धं चैकादशाहिकम् ॥३२॥
स्वदत्तं परदत्तं वा नेहामुत्रोपतिष्ठति ।
त्रयोदशा तथा सप्त पञ्च त्रीणी क्रमेण तु ॥३३॥
पददानानि कुर्वीत श्रद्धाभक्तिसमन्वितः ।
तिलपात्राणि कुर्वीत सप्त पञ्च यथाक्रमम् ॥३४॥
ब्राह्मणान् भोजयेत्पश्चादेकां गां च प्रदापयेत् ।
वृषं हि शन्नोदेवीति वेदोक्तविधिना ततः ॥३५॥
चतसृभिर्वत्सतरीभिः परिणयनमाचरेत् ।
वामे चक्रं प्रदातव्यं त्रिशूलं दक्षिणे तथा ॥३६॥
मूल्यं दद्याद्वृषस्यापि तं वृषं च विसर्जयेत् ।
एकोद्दिष्टविधानेन स्वाहाकारेण वुद्धिमान् ॥३७॥
कुर्यादेकादशाहं च द्वादशाहं च यत्नतः ।
सपिण्डीकरणादर्वाक्कुर्याच्छ्राद्धानि षोडश ॥३८॥
ब्राह्मणान् भोजयित्वा तु पददानानि दापयेत् ।
कापोसोपरि संस्थाप्य ताम्रपात्रे तथाच्युतम् ॥३९॥
वस्त्रेणाच्छाद्य तत्रस्थमर्घं दद्याच्छुभैः फलैः ।
नावमिक्षुमयीं कृत्वा पट्टसूत्रेण वेष्टयेत् ॥४०॥
कांस्यपात्रे घृतं स्थाप्य वैतरण्या निमित्ततः ।
नावारोहणं कुर्यात्पूजयेद्गरुडध्वजम् ॥४१॥
आत्मवित्तानुसारेण तच्च दानमनन्तकम् ।
भवसागरमग्नानां शोकतापार्तिदुः खिनाम् ॥४२॥
धर्मप्लवविहीनानां तारको हि जनार्दनः ।
तिला लोहं हिरण्यं च कार्पासं लवणं तथा ॥४३॥
सप्तधान्यं क्षितिर्गावो ह्येकैकं पावनं स्मृतम् ।
तिलपात्राणि कुर्वीत शय्यादानं च दापयेत् ॥४४॥
दीनानाथविशिष्टेभ्यो दद्याच्छक्त्या च दक्षिणाम् ।
एवं यः कुरुते तार्क्ष्य पुत्रवानप्यपुत्रवान् ॥४५॥
स सिद्धिं समवाप्नोति यथा ते ब्रह्मचारिणः ।
नित्यं नैमित्तिकं कुर्याद्यावज्जीवति मानवः ॥४६॥
यः कश्चित्क्रियते धर्मस्तत्फलं चाक्षयं भवेत् ।
तीर्थयात्राव्रतादीनां श्राद्धं संवत्सरस्य हि ॥४७॥
देवतानां गुरूणां च मातापित्रोस्तथैव च ।
पुण्यं देयं प्रयत्नेन प्रत्यहं वर्धते खग ॥४८॥
अस्मिन्यज्ञेः हियः कश्चिद्भूरिदानं प्रयच्छति ।
तत्तस्य चाक्षयं सर्वं वेदिकायां यथा किल ॥४९॥
यथा पूज्यतमा लोके यतयो ब्रह्मचारिणः ।
तथैव प्रतिपूज्यन्ते लोके सर्वे च नित्यशः ॥५०॥
वरदोऽहं सदा तस्य चतुर्वक्त्रस्तथा हरः ।
ते यान्ति परमांल्लोकानिति सत्यं वचो मम ॥५१॥
उत्सृष्टो वृषभो यत्र पिबत्यपो जलाशये ।
शृङ्गेणालिखते वापि भूमिं नित्यं प्रहर्षितः ॥५२॥
पितॄणामन्नपानं च प्रभूतमुपतिष्ठति ।
पौर्णमास्याममायां वा तिलपात्राणि दापयेत् ॥५३॥
संक्रान्तीनां सहस्राणि सूर्यपर्वशतानि च ।
दत्त्वा यत्फलमाप्नोति तद्वै नीलविसर्जने ॥५४॥
वत्सतर्यः प्रदातव्या ब्राह्मणेभ्यः पदानि च ।
तिलपात्राणि देयानि शिवभक्तद्विजेषु च ॥५५॥
उमामहेश्वरं चैकं परिधाप्य प्रिदापयेत् ।
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ॥५६॥
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ।
प्रेतत्वान्मोक्षमिच्छन्तो ये करिष्यन्ति सत्क्रियाम् ॥५७॥
यास्यन्ति ते परांल्लोकानिति सत्यं वचो मम ।
एतत्ते सर्वमाख्यातं मया चैवोर्ध्वदैहिकम् ॥५८॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
श्रुत्वा महात्म्यमतुलं गरुडो हर्षमागतः ।
मानुषाणां हितार्थाय पुनः प्रपच्छकेशवम् ॥५९॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे गोदानवृषोत्सर्गदशदानभूरिदानादिनिरूपणं नाम चतुर्दशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP