संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः ५ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः ५ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ५ Translation - भाषांतर श्रीकृष्ण उवाच ।एवं दग्ध्वा नरं प्रेतं स्नात्वा कृत्वा तिलोदकम् ।अग्रतः स्त्रीजनो गच्छेद्व्रजेयुः पृष्ठतो नराः ॥१॥प्राशयेन्निम्बपत्राणि रुदन्तो नामपूर्वकम् ।विधातव्यं चाचमनं पाषाणोपरि संस्थिते ॥२॥ते प्रविश्य गृहं सर्वे सुताद्याश्च सपिण्डकाः ।भवेयुर्दशरात्रं वै यत आशौचकं खग ॥३॥क्रीतलब्धाशनाः सर्वे स्वपेयुस्ते पृथक्पृथक् ।अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ॥४॥अमांसभोजनाश्चाधः शयीरन्ब्रह्मचारिणः ।परस्परं न संस्पृष्टा दानाध्ययनवर्जिताः ॥५॥मलिनाश्चाधोमुखाश्च दीना भोगविवर्जिताः ।अङ्गसंवाहनं केशमार्जनं वर्जयन्ति ते ॥६॥मृन्मये पत्रजे वापि भुञ्जीरंस्ते च भाजने ।उवासन्तु ते कुर्युरेकाहमथ वा त्र्यहम् ॥७॥गरुड उवाच ।आशौचिन इति प्रोक्तमाशौचस्य च वै प्रभो ।लक्षणं किं कियत्कालं भाव्यं वा तद्युतैर्नरैः ॥८॥शृकृष्ण उवाच ।अपनोद्यन्त्विदं कालादिभिराशु निषेधकृत् ।पिण्डाध्ययनदानादेः पुङ्गतोऽतिशयो हि तत् ॥९॥दशाहं शावमाशौचं सपिण्डेषु विधीयते ।जननेऽप्येवमेव स्यान्निपुणं शुद्धिमिच्छताम् ॥१०॥जन्मन्येकोदकानान्तुत्रिरात्राच्छुद्धिरिष्यते ।शावस्य शेषाच्छुध्यन्ति त्र्यहादुदकदायिनः ॥११॥आदन्तजननत्सद्य आ चौलान्नैशिकी स्मृता ।त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥१२॥आशौचं ते समाख्यातं संक्षेपात्प्रकृतं ब्रुवे ।जलं त्रिदिवमाकाशे स्थाप्यं क्षीरञ्च मृन्मये ॥१३॥अत्र स्नाहि पिबात्रेति मन्त्रेणानेन काश्यप ।काष्ठत्रये गुणैर्बद्धे प्रीत्यै रात्रौ चतुष्पथे ॥१४॥प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा ।अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥१५॥तदूर्ध्वमङ्गसंस्पर्शः सपिण्डानां विधीयते ।योग्याः सर्वक्रियाणां च समानसलिलास्तथा ॥१६॥प्रेतपिण्डं बहिर्दद्याद्दर्भमात्रविवर्जितम् ।प्रागुदीच्यां चरुं कृत्वा स्नात्वा प्रयतमानसः ॥१७॥भूमावसंस्कृतानां च संस्कृतानां कुशेषु च ।नवभिर्दिवसैः पिण्डान्नव दद्यात्समाहितः ॥१८॥दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत् ।असगोत्रः सगोत्रो वा यदि स्त्री यति वा पुमान् ॥१९॥प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ।शालिना सक्तुभिर्वापि शाकैर्वाप्यथ निर्वपेत् ॥२०॥प्रथमेऽहनि यद्द्रव्यं तदेव स्याद्दशाहिकम् ।यावदाशौचमेकैकस्याञ्जलेर्दानमुच्यते ॥२१॥यद्वा यस्मिन्दिने दानं तस्मिंस्तद्दिनसंख्यया ।दशाहेऽञ्जलयः पक्षिन्पञ्चाशदन्तिमे ॥२२॥द्विवृद्ध्या वा भवेत्पक्षिन्नञ्जलीनां शतं पुनः ।यदाहि त्र्यहमाशौचं तदा वाञ्जलयो दश ॥२३॥त्रयोऽञ्जलय एवं तु प्रथमेऽहनिवै तदा ।चत्वारस्तु द्वितीयेऽह्नि तृतीये स्युस्त्रयस्तथा ॥२४॥शताञ्जलि यदा पक्षिन्नाद्ये त्रिंशत्तदाहनि ।चत्वारिंशद्द्वितीयेऽह्नि त्रिंशदह्नि तृतीयके ॥२५॥एवं जलस्याञ्जलयो विभाज्याः पक्षयोर्द्वयोः ।सर्वेषु पितृकार्येषु पुत्रो मुक्योऽधिकारवान् ॥२६॥पिण्डप्रसेकस्तूष्णीञ्च पुष्पधूपादिकं तथा ।दशमेऽहनि सम्प्राप्ते स्नानं ग्रामाद्वहिश्चरेत् ॥२७॥तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ।विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्त्रियो वाहनं तथा ॥२८॥वैश्यः प्रतोदं रश्मीन्वा शूद्रो यष्टिं कृतक्रियः ।मृतादल्पवयोभिश्च सपिण्डैः परिवापनम् ॥२९॥कार्यन्तु षोडशी षड्भिः पिण्डैर्दशभिरैव च ।प्रथमा मलिना ह्येतैरादशाहं मृतेर्भवेत् ॥३०॥दिनानि दश यान्षिण्डान्कुर्वन्त्यत्र सुतादयः ।प्रत्यहं ते विभज्यन्ते चतुर्भागैः खगोत्तम ॥३१॥भागद्वयेन देहः स्यात्तृतीयेन यमानुगाः ।तृप्यन्ति हि चतुर्थेन स्वयमप्युपजीवति ॥३२॥अहोरात्रैस्तु नवभिर्देहो निष्पत्तिमाप्नुयात् ।शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते तथा ॥३३॥द्वितीयेन तु कर्णाक्षिनासिकं तु समासतः ।गलांसभुजवक्षश्च तृतीयेन तथा क्रमात् ॥३४॥चतुर्थेन च पिण्डेन नाभिलिङ्गगुदं तथा ।जानुजङ्घं तथा पादौ पञ्चमेन तु सर्वदा ॥३५॥सर्वमर्माणि षष्ठेन सप्तमेन तु नाडयः ।दन्तलोमान्यष्टमेन वीर्यन्तु नवमेन च ॥३६॥दशमेन तु पूर्णत्वं तृप्तता क्षुद्विपर्ययः ।मध्यमां षोडशीं वच्मि वैनतेय शृणुष्व मे ॥३७॥विष्णवादिविष्णुपर्यन्तान्येकादश तथा खग ।श्राद्धानि पञ्च देवानामित्येषां मध्यषीडशी ॥३८॥निमित्तं दुर्मतिं कृत्वा यदि नारायणो बलिः ।एकादशाहे कर्तव्यो वृषोत्सर्गोऽपि तत्र वै ॥३९॥एकादशाहे प्रेतस्य यस्यात्सृज्येत नो वृषः ।प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥४०॥अकृत्वा यद्वृषोत्सर्गं कृतं वै पिण्डपातनम् ।निष्फलं सकलं विद्यात्प्रमीताय न तद्भवेत् ॥४१॥वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले ।पुत्रः पत्न्यथ दौहित्रः पिता वा दुहिताथ वा ॥४२॥मृतादनन्तरं तस्य ध्रुवं कार्यो वृषोत्सवः ।चतुर्वत्सतरीयुक्तो यस्योत्सृज्येत वा वृषः ॥४३॥अलङ्कृतो विधानेन प्रेतत्वं तस्य नो भवेत् ।एकादशेऽह्नि सम्प्राप्ते वृषालाभो भवेद्यदि ॥४४॥दर्भैः पिष्टैस्तु सम्पाद्य तं वृषं मोचयेद्वुधः ।वृषोत्सर्जनवेलायां वृषाभाव (लाभ) कथञ्चन ॥४५॥मृत्तिकाभिस्तु दर्भैर्वा वृषं कृत्वा विमोचयेत् ।यदिष्टं जीवतस्तस्य दद्यादेकादशेऽहनि ॥४६॥मृतमुद्दिश्य दातव्यं शय्याधेन्वादिकं तथा ।विप्रान्बहून् भोजयीत प्रेतस्य क्षुद्विशान्तये ॥४७॥तृतीयां षोडशीं वच्मि वैनतेय शृणुष्व ताम् ।द्वादश प्रतिमास्यानि आद्यं षाण्मासिकं तथा ॥४८॥सपिण्डीकरणं चैव तृतीया षोडशी मता ।द्वादशाहे त्रिपक्षे च षण्मासे मासिकेऽब्दिके ॥४९॥तृतीयां षोडशीमेनां वदन्ति मतभेदतः ।यस्यैता नि न दत्तानि प्रेतश्राद्धानि षोडश ॥५०॥पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि ।एकादशे द्वादशे वा दिने आद्यं प्रकीर्तितम् ॥५१॥मासादौ प्रतिमासञ्च शुद्धं मृततिथौ खग ।एकेनाह्ना त्रिभिर्वापि हीनेषु विनतासुत ॥५२॥मासषण्मासवर्षेषु त्रिपक्षेषु भवन्ति हि ।श्राद्धान्यथस्यात्सापिण्ड्यं पूर्णे वर्षे तदर्धके ॥५३॥त्रिपक्षेऽभ्युदये वापि द्वादशाहेऽथ वा नृणाम् ।आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् ॥५४॥अस्थिरत्वाच्छरीरस्य द्वादशाहे प्रशस्यते ।सपिण्डीकरणेष्वेवं विधिं पक्षीन्द्र मे शृणु ॥५५॥एकोद्दिष्टविधानेन कार्यं तदपि काश्यप ।तिलगन्धोदकैर्युक्तं कुर्यात्पात्रचतुष्टयम् ॥५६॥पात्रं प्रेतस्य तत्रैकं पित्र्यं पात्रत्रयं तथा ।सेचयेत्पितृपात्रेषु प्रेतपात्रं खग त्रिषु ॥५७॥चतुरो निर्वपेत्पिण्डान्पूर्वन्तेषु समापयेत् ।ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते ॥५८॥ततः पितृत्वमापन्ने तस्मिन्प्रेते खगेश्वर ।श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितॄन् ॥५९॥एकचित्यारोहणे च एकाह्नि मरणे तथा ।सापिण्ड्यन्तु स्त्रिया नास्ति मृते भर्तुः स्त्रियो भवेत् ॥६०॥पाकैक्यमथ कालैक्यं कर्त्रैक्यञ्च भवेत्खग ।श्राद्धादौ सह दाहे च पतिपत्न्योर्न संशयः ॥६१॥भर्तुर्मृततिथेरन्यतिथौ चितिमथारुहेत् ।तांमृताहनि तु सम्प्राप्ते पृथक्पिण्डेन योजयेत् ॥६२॥प्रत्यब्दञ्च युगपत्तु समापयेत् ॥६३॥यस्य संवत्सरादर्वाक्सपिण्डीकरणं भवेत् ।मासिकञ्चोदकुम्भञ्च देयं तस्यापि वत्सरम् ॥६४॥नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश ।एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥६५॥पितामहीभिः सापिण्ड्यं तथा मातामहैः सह ।उक्तं भर्त्रापि सापिण्ड्यं स्त्रिया वेषयभेदतः ॥६६॥नवश्राद्धस्य ते कालं वक्ष्यामि शृणु काश्यप ।मरणाह्नि मृतिस्थाने श्राद्धं पक्षिन्प्रकल्पयेत् ॥६७॥द्वितीयञ्च ततो मार्गे विश्रामो यत्र कारितः ।ततः सञ्चयनस्थाने तृतीयं श्राद्धमुच्यते ॥६८॥पञ्चमे सप्तमे तद्वदष्टमे नवमे तथा ।दशमैकादशे चैव नव श्राद्धानि वै खग ॥६९॥श्राद्धानि नव चैतानि तृतीया षोडशी स्मृता ।एकोद्दिष्टविधानेन कार्याणि मनुजैस्तथा ॥७०॥प्रथमेऽह्नि तृतीये वा पञ्चमे सप्तमे तथा ।नवमैकादशे चैव नवश्राद्धं प्रकीर्तितम् ॥७१॥उच्यन्ते षडिमानीह नव स्युरपि यागेतः ।उक्तानि ते मया तानि ऋषीणां मतभेदतः ॥७२॥रूढिपक्षो ममाभीष्टो योगः कैश्चिदिहेष्यते ।आद्ये द्वितीये दातव्यस्तथैवैकं पवित्रकम् ॥७३॥प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ।प्रश्रस्तत्राभिरण्येति यजमानद्विजन्मना ॥७४॥अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा ।एकोद्दिष्टं मे निबोध चेत्थमावत्सरं स्मृतम् ॥७५॥सपिण्डीकरणादूर्ध्वं यानि श्राद्धानि षोडश ।एकोद्दिष्टविधानेन चरेद्वा पार्वणादृते ॥७६॥प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ।एकादशे द्वादशेऽह्नि प्रेतो भुङ्क्ते दिनद्वयम् ॥७७॥योषितः पुरुषस्यापि पिण्डं प्रेतेति निर्वपेत् ।सापिण्ड्ये तु कृते तस्य प्रेतशब्दो निवर्तते ॥७८॥दीपदानं प्रकर्तव्यमावर्षन्तु गृहाद्बहिः ।अन्नं दीपो जलं वस्त्रमन्यद्वादीयते च यत् ॥७९॥तृप्तिदं प्रेतशब्देन सपिण्डीकरणावधि ।अब्दकृत्यं मयोक्तन्ते समासाद्विनतासुत ॥८०॥वैवस्वतगृहे यानं यथा तत्तु निबोधमेः ।त्रयोदशेऽह्नि श्रवणाकर्मणोनन्तरन्तु सः ॥८१॥त्वग्गृहीताहिवत्तार्क्ष्य गृहीतो यमकिङ्करैः ।तस्मिन्मार्गे व्रजत्येको गृहीत इव मर्कटः ॥८२॥वाय्वग्रसारिवद्रूपं देहमन्यत्प्रपद्यते ।तत्पिण्डजं पातनार्थमन्यत्तु पितृसम्भवम् ॥८३॥तत्प्रमाणवयोऽवस्थासंस्थानां प्रग्भवो यथा ।षडशीति सहस्राणि योजनानां प्रमाणतः ॥८४॥अध्वान्तरालिको ज्ञेयो यममानुषलोकयोः ।साधिकार्धक्रोशयुतं योजनानां शतद्वयम् ॥८५॥चत्वारिं शत्तथा सप्त प्रत्यहं याति तत्र सः ।अष्टाचत्वारिंशता च त्रैंशता दिवसैरिति ॥८६॥वैवस्वतपुरं याति कृष्यमाणो यमानुगैः ।एवं क्रमेण यातब्ये मार्गे पापरतैस्तु यत् ॥८७॥जायते सप्रपञ्चं तच्छृणु त्वमरुणानुज ।त्रयोदशदिने दत्तः पाशैर्बद्ध्वातिदारुणैः ॥८८॥यमस्याङ्कुशहस्तो वै भृकुटीकुटिलाननः ।दण्डप्रहारसम्भ्रान्तः कृष्यते दक्षिणां दिशम् ॥८९॥कुशकण्टकवल्मीकशङ्कुपाषाणकर्कशे ।तथा प्रदीप्तज्वलने क्वचिच्छ्वभ्रशतोत्कटे ॥९०॥प्रदीप्तादित्यतप्ते च दह्यमानः सदंशके ।कृष्यते यमदूतैश्च शिवावन्नादभीषणैः ॥९१॥प्रयातिः दारुणे मार्गे पापकर्मा यमालये ।कलेवरे दह्यमाने महान्तं क्षयमृच्छति ॥९२॥भक्ष्यमाणे तथैवाङ्गे भिद्यमाने च दारुणम् ।छिद्यमाने चिरतरं जन्तुर्दुः खमवाप्नुते ॥९३॥स्वेन कर्मवि पाकेन देहान्तरगतोऽपि सन् ।पुराणि षोडशामुष्मन्मार्गे तानि च मे शृणु ॥९४॥याम्यं सौरिपुरं नगेद्वभवनं गन्धर्वशैलागमौ क्रौञ्चं क्रूरपुरं विचित्रभवनं बह्वापदं दुः खदम् ।नानाक्रन्दपुरं सुतप्तभवनं रौद्रं पयोवर्षणं शीताढ्यं बहुभीतिषोडशपुराण्येतान्यदृष्टनि ते ॥९५॥तत्र याम्य पुरं गच्छन्पुत्रपुत्रेति च ब्रुवन् ।हाहेति क्रन्दते नित्यं स्वकृतं दुष्कृतं स्मरन् ॥९६॥अष्टादशोदिने तार्क्ष्य तत्पुर प्राप्नुयादसौ ।पुष्पभद्रा नदी यत्र न्यग्रोधः प्रियदर्शनः ॥९७॥विश्रामेच्छां करोत्यत्र कारयन्ति न ते भटाः ।क्षितौ दत्तं सुतैस्तस्य स्नेहाद्वा कृपया तथा ॥९८॥मासिकं पिण्डमश्नाति ततः सौरिपुरं व्रजेत् ।व्रजन्नेवं प्रलपते मुद्गराहतिपीडितः ॥९९॥जलाशयो नैव कृतो मया तदा मनुष्यतृप्त्यै पशुपक्षितृप्तय ।गोतृप्तिहेतोर्न च गोचरः कृतः शरीर हे निस्तर यत्त्वया कृतम् ॥१००॥तत्र नाम्ना तु राजासौ जङ्गमः कामरूपधृक् ।भयात्तद्दर्शनाज्जाताद्भुङ्क्ते पिण्डं स शङ्कितः ॥१०१॥त्रिपक्षे जलसंयुक्तं क्षितौ दत्तं ततो व्रजेत् ।व्रजन्नेवं प्रलपते खड्गाघातप्रपीडितः ॥१०२॥न नित्यदानं न गवाह्निकं कृतं पुस्तं च दत्तं न हि वेदशास्त्रयोः ।पुराणदृष्टो न हि सेवितोऽध्वा शरीर हे निस्तर यत्त्वया कृतम् ॥१०३॥नगेन्द्रनगरं गत्वा भुक्त्वा चान्नं तथाविधम् ।मासि द्वितीये यद्दत्तं बान्धवैस्तु ततो व्रजेत् ॥१०४॥व्रजन्नेवं प्रलपते कृपाणत्सरुताडितः ।पराधानमभूत्सर्वंमम मूर्खशिरोमणेः ॥१०५॥महता पुण्ययोगेन मानुष्यं लब्धवानहम् ।तृतीये मासि सम्प्राप्ते गन्धर्वनगरे शुभम् ॥१०६॥तृतीयमासिकं पिण्डं तत्र भुक्त्वा ब्रजत्यसौ ।व्रजन्नेवं विलपते तदग्रेणाहतः पथि ॥१०७॥मया न दत्तं न हुतं हुताशने तपो न तप्तं हिमशैलगह्वरे ।न सेवितं गाङ्गमहो महाजलं शरीर हे निस्तर यत्त्वया कृतम् ॥१०८॥तुर्ये शैलागमं मासि प्राप्नुयात्तत्र वर्षणम् ।तस्योपरि भवेत्पक्षिन्पाषाणानां निरन्तरम् ॥१०९॥चतुर्थमासिकं श्राद्धं भुक्त्वा तत्र प्रसर्पति ।स पतन्नेव विलपन्पाषाणाद्यतिपीडितः ॥११०॥न ज्ञानमार्गो न च योगमार्गो न कर्ममार्गो न च भक्तिमार्गः ।न साधुसङ्गात्किमपि श्रुतं मया शरीर हे निस्तर यत्त्वया कृतम् ॥१११॥ततः क्रूरपुर मासि पञ्चमे याति काश्यप ।भुवि दत्तं पिण्डजलं भुक्त्वा क्रूरपुरं व्रजेत् ॥११२॥व्रजन्नेवं विलपते पट्टिशैः पातितः पथि ।हा मातर्हापितर्भ्रातः सुता हा हा मम स्त्रियः ॥११३॥युष्माभिर्नोपदिष्टोऽहमवस्थां प्राप्त ईदृशीम् ।एवं लालप्यमानं ते यमदूता वदन्तिहि ॥११४॥क्व माता क्व पिता मूढ क्व जाया क्व सुतः सुहृत् ।स्वकर्मोपार्जिते भुङ्क्ष्वं मूर्ख याताश्चिरं पथि ॥११५॥जानासि शम्बलमलं बलमध्वगानां नोऽशम्बलः प्रयतते परलोकगत्यै ।गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण येन न भवेत्क्रयविक्रयोऽपि ॥११६॥ऊनषाण्मासिके क्रौञ्चे भुक्त्वा पिण्डन्तु सोदकम् ।घटीमात्रन्तु विश्रम्य विचित्रनगरं व्रजेत् ॥११७॥व्रजन्नेवं विलपते शूलाग्रेण विदारितः ॥११८॥कुत्र यामि न हि गामि जीवितं हा मृतस्य मरणं पुनर्न वै ।इत्थमेव विलपन् प्रयात्यसौ यातनार्हधृतविग्रहः पति ॥११९॥विचित्रनगरे तत्र विचित्रो नाम पारिथिवः ।तत्र षण्मासपिण्डेन तृप्तः सन् व्रजते पुरः ॥१२०॥व्रजन्नेवं विलपते प्रासाग्रेण प्रपीडितः ॥१२१॥माता भ्राता पिता पुत्रः कोऽपि मे वर्तते न वा ।यो मामुद्धरते पापं पतन्तं दुः खसागरे ॥१२२॥व्रजतस्तत्र मार्गे तु तत्र वैतरणी शुभा ।शतयोजनविस्तीर्णा पूयशोणितसंकुला ॥१२३॥आयाति तत्र दृश्यन्ते नाविका धीवरादयः ।ते वदन्ति प्रदत्ता गौर्यदि वैतरणी त्वया ।नावमेनां समारोह सुकेनोत्तर वै नदीम् ॥१२४॥तत्र येन प्रदत्ता गौः स सुखेनैव तां तरेत् ।अदायी तत्र घृष्येत करग्राहन्तु नाविकैः ॥१२५॥उखैः काकैर्बकोलूकैस्तीक्ष्णतुण्डैर्वितुद्यते ।मनुजानां हितं दानमन्ते वैतरणी खग ॥१२६॥दत्ता पापं दहेत्सर्वं मम लोकन्तु सा नयेत् ।मप्तमे मासि सम्प्राप्ते पुरं बह्वापदं मृतः ॥१२७॥व्रजेत्तु सोदकं भुक्त्वा पिण्डं वै सप्तमासिकम् ।व्रजन्नेवं विलपते परिघाहतिपीडितः ॥१२८॥न दत्तं न हुतं तप्तं न स्नातं न कृतं हितम् ।यादृशं चरितं कर्म मूढात्मन् भुङ्क्ष्व तादृशम् ॥१२९॥मास्यष्टमे दुः खदे तु परे भुक्त्वाथ सोदकम् ।पिण्डं प्रयात्सयौ तार्क्ष्य नानाक्रन्दपुरं ततः ॥१३०॥प्रयाणे च प्रवदते मुसलाघातपीडितः ।क्व जायाचटुलैश्चाटुपटुभिर्वचनैर्मम ॥१३१॥भोजनं भल्लभल्लीभिर्मुसलैश्च क्व मारणम् ।नवमे मासि दत्तं वै नानाक्रन्दपुरे ततः ॥१३२॥पिण्डमश्राति करुणं नानाक्रन्दान् करोत्यपि ।दशमे मासि दत्तं वै सुतप्तभवनं ततः ॥१३३॥सरन्नेवं विलपते हलाहतिहतः पथि ।क्व सूनुपेशलकरैः पादसंवाहनं मम ॥१३४॥क्व दूतवज्रप्रतिमकैर्मत्पदकर्षणम् ।दशमे मासि पिण्डादि तत्र भुक्त्वा प्रसर्पति ॥१३५॥मासे चैकादशे पूर्णे पुरं रौद्रं स गच्छति ।गच्छन्नेव विलपते यथा पृष्ठे प्रपीडितः ॥१३६॥क्वाहं सतूलीशयने परिवर्तन् क्षणे क्षणे ।भटहस्तभ्रष्टयष्टिकृष्टपृष्ठः क्व वा पुनः ॥१३७॥क्षितौ दत्तञ्च पिण्डादि भुक्त्वा तत्र ततो व्रजेत् ।पयोवर्षणमित्येतन्नामकं पुरमण्डज ॥१३८॥व्रजन्नेवं विलपते कुठारैर्मूर्ध्नि ताडितः ।क्व भृत्यकोमलकरैर्गन्धतैलावसेचनम् ॥१३९॥क्व कीनाशानुगैः क्रोधात्कुठारैः शिरसि व्यथा ।ऊनाब्दिकञ्च यच्छ्राद्धं तत्र भुङ्क्ते सुदुः खितः ॥१४०॥संपूर्णे तु ततो वर्षे शीताढ्यं नगरं व्रजेत् ।गच्छन्नेवं छुरिकया च्छिन्नजिह्वस्तु रोदिति ॥१४१॥प्रियालापैः क्व च ससमधुरत्वस्य वर्णनम् ।उक्तमात्रेऽसिपत्रादिजिह्वाच्छेदः क्व चैव हि ॥१४२॥वार्षिकं पिण्डदानादि भुक्त्वा तत्र प्रसर्पति ।बहुभीतिकरं तत्तत्पिण्डजं देवमास्थितः ॥१४३॥प्रकाशयति पाप्पानमात्मानञ्च विनिन्दति ।योषिदप्येवमेतस्मिन्मार्गे वै परिदेवति ॥१४४॥ततो याम्यं नातिदूरे नगरं स हि गच्छति ।चत्वारिंशद्योजनानि चतुर्युक्तानिविस्तृतम् ॥१४५॥त्रयोदश प्रतीहाराः श्रवणा नाम तत्र वै ।श्रवणाकर्मतस्तुष्यन्त्यन्यथा क्रोधमाप्नुयुः ॥१४६॥ततस्तत्राशु रक्ताक्षं भिन्नाञ्जनचयोपमम् ।मृत्युकालान्तकादीनां मध्ये पश्यति वै यमम् ॥१४७॥दंष्ट्राकरालवदनं भृकुटीदारुणाकृतिम् ।विरूपैर्भोषणैर्वक्त्रैर्वृतं व्याधिशतैः प्रभुम् ॥१४८॥दण्डासक्तमहाबाहुं पाशहस्तं सुभैरवम् ।तन्निर्दिष्टां ततो जन्तुर्गतिं याति शुभाशुभाम् ॥१४९॥पापी पापां गतिं याति यथा ते कथितं पुरा ।छत्रोपानहदातारो ये च वेश्मप्रदायकाः ॥१५०॥ये तु पुण्यकृतस्तत्र ते पश्यन्ति यमं तदा ।सौम्याकृतिं कुण्डलिनं मौलिमन्तं धृतश्रियम् ॥१५१॥एकादशे द्वादशे हि षण्मासे आब्दिके तथा ।विप्रान् बहून् भोजयेत्तत्र यन्महती क्षुधा ॥१५२॥जीवन् पुत्रकलत्रादिप्रदिष्टमितरैः खग ।यो न साधयति स्वार्थमेवं पश्चाद्धिखिद्यते ॥१५३॥एतत्ते सर्वमाख्यातं संयमिन्यां यथागति ।प्रोक्तमावर्षकृत्यं ते किमन्यच्छ्रोतुमिच्छसि ॥१५४॥इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वर्षकृत्ययमलोकमार्गयातनादिनिरूपणं नाम पञ्चमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP