संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः ३ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः ३ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ३ Translation - भाषांतर सूत उवाच ।एवमुत्साहितः पक्षी स्वरूपं निरयस्य तु ।पप्रच्छनरकाण्येवं श्रुत्वा चोत्कूलितान्तरः ॥१॥गरुड उवाच ।नरकाणां स्वरूपं मे वद येषु विकर्मिणः ।पात्यन्ते दुः खभूयिष्ठास्तेषां भेदांश्च कीर्तय ॥२॥श्रीभगवानुवाच ।नरकाणां सहस्राणि वर्तन्ते ह्यरुणानुज ।शक्यं विस्तरतो नैव वक्तुं प्राधान्यतो ब्रुवे ॥३॥रौरवं नाम नरकं मुख्यं तद्वैनिबोध मे ।रौरवे कूटसाक्षी तु याति यश्चानृती नरः ॥४॥योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः ।जानुमात्रप्रमाणं तु तत्र गर्तं सुदुस्तरम् ॥५॥तत्राङ्गारचयौघेन कृतं तद्धरणीसमम् ।तत्राग्निना सुतीव्रेण तापिताङ्गारभूमिना ॥६॥तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः ।स दह्यमानस्तीव्रेण वह्निना परिधावति ॥७॥पदेपदे च पादोऽस्य स्फुट्यते शीर्यते पुनः ।अहोरात्रेणोद्धरणं पादन्यासेन गच्छति ॥८॥एवं सहस्रं विस्तीर्णं योजनानां विमुच्यते ।ततोऽन्यत्पापशुद्ध्यर्थं तादृङ्निरयमृच्छति ॥९॥रौरवस्ते समाख्यातः प्रथमो नरको मया ।महारौरवसंज्ञं तु शृणुष्व नरकं खग ॥१०॥योजनानां सहस्राणि सन्ति पञ्च समन्ततः ।तत्र ताम्रमयी भूमिरधस्तस्या हुताशनः ॥११॥तया तपन्त्या सा सर्वा प्रोद्यद्विद्युत्समप्रभा ।विभाव्यते महारौद्रा पापिनां दर्शनादिषु ॥१२॥तस्यां बद्धकराभ्यां च पद्भ्यां चैव यमानुगैः ।मुच्यते पापकृन्मध्ये लुण्ठमानः स गच्छति ॥१३॥काकैर्बकैर्वृकोलूकैर्मशकैर्वृश्चिकैस्तथा ।भक्ष्यमाणैस्तथा रौद्रैर्गतो मार्गे विकृष्यते ॥१४॥दह्यमानो गतमतिर्भ्रान्तस्तातेति चाकुलः ।वदत्यसकृदुद्वग्नो न शान्तिमधिगच्छति ॥१५॥एवं तस्मान्नरैर्मोक्षस्त्वतिक्रान्तैरवाप्यते ।वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥१६॥तथान्यस्तु ततो नाम सोऽतिशीतः स्वभावतः ।महारौरववद्दीर्घस्तथान्धतमसा वृतः ॥१७॥शीतार्तास्तत्र बध्यन्ते नरास्तमसि दारुणे ।परस्परं समासाद्य परिरभ्याश्रयन्ति ते ॥१८॥दन्तास्तेषां च भज्यन्ते शीतार्तिपरिकम्पिताः ।क्षुतृषातिबलाः पक्षिन्नथ तत्राप्युपदवाः ॥१९॥हिमखण्डवहो वायुभिनत्त्यस्थीनि दारुणः ।मज्जासृगस्थिगलितमश्रन्त्यत्र क्षुधान्विताः ॥२०॥आलिङ्ग्यमाना भ्राम्यन्ते परस्परसमागमे ।एवं तत्रापि सुमहान्क्लेशस्तमसि मानवैः ॥२१॥प्राप्यते शकुनिश्रेष्ठ यो बहूकृतसञ्चयः ।निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ॥२२॥कुलालचक्राणि तत्र भ्राम्यन्त्यविरतं खग ।तेष्वापाष्ये निकृष्यन्ते कालसूत्रेण मानवाः ॥२३॥यमानुमाङ्गुलिस्थेन आपादतलमस्तकम् ।न चैषां जीवितभ्रंशो जायते पक्षिसत्तम ॥२४॥छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति हि ।एवं वर्षसहस्राणि भ्राम्यन्ते पापकर्मिणः ॥२५॥तावद्यावदशेषं च तत्पापं संक्षयं गतम् ।अप्रातष्ठं च नरकं शृणुष्व गदतो मम ॥२६॥तत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते ।तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥२७॥दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम् ।चक्रेष्वारोपिताः केचिद्भाम्यन्ते तत्र मानवाः ॥२८॥यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा ।घटीयन्त्रेषु बद्वा ये बद्धा तोयवटी यथा ॥२९॥भ्राम्यन्ते मानवा रक्तमुद्गिरन्तः पुनः पुनः ।अन्त्रैर्मुखविनिष्क्रान्तैर्नेत्रैरन्त्रावलम्बिभैः ॥३०॥दुः खानि प्राप्नुवन्तीह यान्यसह्यानि जन्तुभिः ।असिपत्रवनं नाम नरकं शृणु चापरम् ॥३१॥योजनानां सहस्रं यो ज्वलत्यग्न्याशृतावनिः ।सप्ततीव्रकराश्चैण्डर्यत्र तीव्र सुदारुणे ॥३२॥प्रतपन्ति सदा तत्र प्राणिनो नरकौकसः ।तन्मध्ये चरणं शीतस्निग्धपत्रं विभाष्यते ॥३३॥पत्राणि यत्र खण्डानि फलानां पक्षिसत्तम ।श्वानश्च तत्र सुबलाश्चरन्त्यामिषभोजनाः ॥३४॥महावक्त्रा महादंष्ट्रा व्याघ्रा इव महाबलाः ।ततश्च वनमालोक्य शिशिरच्छायमग्रतः ॥३५॥प्रयान्ति प्राणिनस्तत्र क्षुत्तापपरिपीडिताः ।मातर्भ्रातस्तात इति क्रन्दमानाः सुदुः खिताः ॥३६॥दह्यमानाङ्घ्रियुगला धरणिस्थेन वह्निना ।तेषां गतानां तत्रापि अति शीतिः समीरणः ॥३७॥प्रवाति तेन पात्यन्ते तेषां खड्गास्तथोपरि ।छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसंचये ॥३८॥लेलिह्यमाने चान्यत्र तप्ताशेषमहीतले ।सारमेयाश्च ते शीघ्रं शातयन्ति शरीरतः ॥३९॥तेषां खण्डान्यनेकानि रुदतामतिभीषणे ।असिपत्रवनं तात मयैतत्परिकीर्तितम् ॥४०॥अतः परं भीमतरं तप्तकुंभं निबोध मे ।समन्ततस्तप्तकुम्भा वह्निज्वालासमन्विताः ॥४१॥ज्वलदग्निचयास्तप्ततैलायश्चूर्णपूरिताः ।एषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥४२॥क्वाथ्यन्ते विस्फुटद्गात्रा गलन्मज्जाजलान्विताः ।स्फुटत्कपालेनत्रास्थिच्छिद्यमाना विभीषणैः ॥४३॥गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः ।पुनश्चिमचिमायन्ते तैलनैक्यं व्रजन्ति च ॥४४॥द्रवीभूतैः शिरोगात्रैः स्नायुमांसत्वगास्थिभिः ।ततो याम्यैर्नरैराशु दर्व्याघट्टनघट्टिताः ॥४५॥कृतावर्ते महातैले क्वाथ्यन्ते पापकर्मिणः ।एष ते विस्तरेणोक्तस्तप्तकुम्भो मया खग ॥४६॥आदिमो रौरवः प्रोक्तो महारौरवकोऽपरः ।अतिशीतस्तृतीयस्तु चतुर्थो हि निकृन्तनः ॥४७॥अप्रतिष्ठः पञ्चमः स्यादसिपत्रवनोऽपरः ।सप्तमस्तप्तकुम्भस्तु सप्तैते नरका मताः ॥४८॥श्रूयन्तेन्यान्यपि तथा नरकाणि नराधमाः ।कर्मणां तारतम्येन तेषुतेषु पतन्ति हि ॥४९॥तथा हि नरको रोधः शूकरस्ताल एव च ।तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः ॥५०॥क्रिमिश्च क्रिमभक्षश्च लालाभक्षो विषञ्जनः ।अधः शिराः पूयवहो रुधिरान्धश्च विड्रभुजः ॥५१॥तथा वैतरणी सू (मू) मसिपत्रवनं तथा ।अग्निज्वालो महाघोरः सन्दंशो वाप्यभोजनः ॥५२॥तमश्च कालसूत्रं च लोहश्चाप्यभिदस्तथा ।अप्रतिष्ठोऽप्यवीचिश्च नरका एवमादयः ॥५३॥तामसा नरकाः सर्वे यमस्य विषये स्थिताः ।येषु दुष्कृतकर्माणः पतन्ति हि पृथक्पृथक् ॥५४॥भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्तिताः ।रोघो गोघ्नो भ्रूणहा च अग्निदाता नरः पतेत् ॥५५॥सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ।ताले पतेत्क्षत्त्रहन्ता हत्वा वैश्यं च दुर्गतिः ॥५६॥ब्रह्महत्यां च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ।स्वसृगामी तप्तकुम्भी तथा राजभटोऽनृती ॥५७॥तप्तलोहैश्च विक्रेता तथा बन्धनरक्षिता ।माध्वी विक्रयकर्तां च यस्तु भक्तं परित्यजेत् ॥५८॥महाज्वाली दुहितरं स्नुषां गच्छति यस्तु वै ।वेदो विक्रीयते यैश्च वेदं दूषयते तु यः ॥५९॥गुरुं चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च ।अगम्यागामी च नरो नरकं शबलं व्रजेत् ॥६०॥विमोहे पतते शूरे मर्यादां यो भिनत्ति वै ।दुरिष्टं कुरुते यस्तु कृमिभक्षं प्रपद्यते ॥६१॥देवब्राह्मणविद्वेष्टा लालाभक्षे पतत्यपि ।कुण्डकर्ता कुलालश्च न्यासहर्ता चिकित्सकः ॥६२॥आरामेष्वग्निदाता च एते यान्ति विषञ्जने ।असत्प्रतिग्रही यस्तु तथैवायाज्ययाजकः ॥६३॥न क्षत्त्रैर्जोवते यस्तु नरो गच्छेदधोमुखम् ।क्षीरं सुरां च मासं लाक्षां गन्धं रसं तिलान् ॥६४॥एवमादीनि विक्रीणन् घोरे पूयवहे पतेत् ।यः कुक्कुटान्निबध्नाति मार्जारान् सूकरांश्च तान् ।पक्षिणश्च मृगांश्छा गान्सोऽप्येवं नरकं व्रजेत् ॥६५॥आजाविको माहिषिकस्तथा चक्री ध्वजी च यः ।रङ्गोपजीविको विप्रः शाकुनिर्ग्रामयाजकः ॥६६॥अगारदाही गरदः कुण्डाशी सोमविक्रयी ।सुरापो मांसभक्षी च तथा च पशुघातकः ॥६७॥रुधिरान्धे पतन्त्येते पतन्त्येते एवमाहुर्मनीषिणः ।उपविष्टन्त्वेकपङ्क्त्यां विषं सम्भोजयन्ति ये ॥६८॥पतन्ति निरये घोरे विड्भुजे नात्र संशयः ।मधुग्राहो वैतरणीमाक्रोशी मूत्रसंज्ञके ॥६९॥असिपत्रवनेऽसौची क्रोधनश्च एतेदपि ।अग्निज्वालां मृगव्याधो भोज्यते यत्र वायसैः ॥७०॥इज्यायां व्रतलोपाच्च सन्दंशे नरके पतेत् ।स्कन्दन्ते यदि वा स्वप्ने यतिनो ब्रह्मचारिणः ॥७१॥पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये ।ते सर्वे नरकं यान्ति निरयं चाप्यभोजनम् ॥७२॥वर्णाश्रमविरुद्धानि क्रोधहर्षसमन्विताः ।कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः ॥७३॥उपरिष्टात्स्थितो घोर उष्णात्मा रौरवो महान् ।सुदारुणः सुशीतात्मा तस्या धस्तामसः स्मृतः ॥७४॥एवमादिक्रमेणैव सर्वेऽधोऽधः परिस्थिताः ।दुः खोत्कर्षश्च सर्वेषु कर्मस्वपि निमित्ततः ॥७५॥सुखोत्कर्षश्च सर्वत्र धर्मस्येहनिमिततः ।पश्यन्तिनरकान्देवा ह्यधोवक्त्रान्सुदारुणान् ॥७६॥नारकाश्चापि ते देवान्सर्वान्पश्यन्ति ऊर्ध्वगान् ।एतान्यान्यानि शतशो नरकाणि वियद्गते ॥७७॥दिनेदिने तु नरके पच्यते दह्यतेन्यतः ।शीर्यते भिद्यतेऽन्यत्र चूर्यते क्लिद्यतेन्यतः ॥७८॥क्वथ्यते दीप्यतेऽन्यत्र तथा वातहतोऽन्यतः ।एकं दिनं वर्षशतप्रमाणं नरके भवेत् ॥७९॥ततः सर्वेषु निस्तीर्णः पापी तिर्यक्त्वमश्नते ।कृमिकीटपतङ्गेषु स्थावरैकशफेषु च ॥८०॥गत्वा वनगजाढ्येषु गोष्वषु तथैव च ।खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ॥८१॥एते चैकशफाः षट्च शृणु पञ्चनखानतः ।अन्यासु बहुपापासु दुः खदासु च यो निषु ॥८२॥मानुष्यं प्राप्यते कुब्जो कुत्सितो वामनोऽपि वा ।चण्डालपुक्कसाद्यासु नरयोनिषु जायते ॥८३॥मुहुर्गर्भे वसन्त्येव म्रियन्ते च मुहुर्मुहुः ।अवशिष्टेन पापेन पुण्येन च समन्वितः ॥८४॥ततश्चारोहिणीं योनिं शूद्रवैश्यनृपादिकम् ।विप्रदेवेन्द्रतां चापि कदाचिदधिरोहति ॥८५॥एवं तु पापकर्माणो निरयेषु पतन्त्यधः ।यथा पुण्यकृतो यान्ति तन्मे निगदतः शृणु ॥८६॥ते यमेन विनिर्दिष्टां योनिं पुण्यगतिं नराः ।प्रगीतगन्धर्वगणा नृत्योत्सवसमाकुलाः ॥८७॥हारनूपुरमाधुर्यैः शोभितान्यमलानि तु ।प्रयान्त्याशु विमानानि दिव्यगन्धस्रगुज्ज्वलाः ॥८८॥तस्माच्च प्रच्युता राज्ञामन्येषां च महात्मनाम् ।जायन्ते नीरुजां गेहे स द्वृत्तिपीरपालकाः ॥८९॥भोगान्सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा ।अवरोहिणीं सम्प्राप्य पूर्ववद्यन्ति मानवाः ॥९०॥जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् ।पापिष्ठानामदोमार्गाज्जीवो निष्क्रमते ध्रुवम् ॥९१॥पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च ।तेजस्तेजसि लीयते समीरे च समीरणः ॥९२॥आकाशे च तथाकाशं सर्वव्यापि निशाकरे ।तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ॥९३॥एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः ।कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः ॥९४॥संहारश्चैव कालोऽसौ पुण्यपापेन संयुतः ।पञ्चेन्द्रियसमायुक्तः सकलैर्विबुधैः सह ॥९५॥प्रविशेत्स नवे देहे पृहे दरधे गुही यथा ।शरीरे ये समासीनाः सर्वे वै सप्त धातवः ॥९६॥षाट्कौशिको ह्ययं कायः सर्वे वाताश्च देहिनाम् ।मूत्रं पुरीषं तद्योगाद्ये चान्ये व्याधयस्तथा ॥९७॥पित्तं श्लेष्मा तथा मज्जा मांसं वै मेद एव च ।अस्थि शुक्रं तथा स्नायुर्देहेन सह दह्यति ॥९८॥एष ते कथितस्तार्क्ष्य विनासः सर्वदेहिनम् ।कथयामि पुनस्तेषां शरीरं च यथा भवेत् ॥९९॥एकस्तम्बंस्नायुबद्धं स्थूणात्रयविभूषणम् ।इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् ॥१००॥विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम् ।रागद्वेषसमाकीर्णं तृष्णादुर्गमतस्करम् ॥१०१॥लोभजालपरिच्छिन्नं मोहवस्त्रेण वेष्टितम् ।सुबद्धं मायया चैतल्लोभेनाधिष्ठितं पुरम् ॥१०२॥एतद्गुणसमाकीर्णं शरीरं सर्वदेहिनाम् ।आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः ॥१०३॥एवमेव समाख्यातं शरीरं ते चतुर्विधम् ।चतुरशीतिलक्षाणि निर्मिता योनयः पुरा ॥१०४॥उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ।एतत्ते सर्वमाख्यातं निरयस्य प्रपञ्चतः ॥१०५॥अथयामि क्रमप्राप्तं प्रष्टु वा वर्तते स्पृहा ॥१०६॥इति श्रीगारुडे महापुराणे धर्मकाण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नरकतत्प्रवेशनिर्गमनादिवर्णनं नाम तृतीयोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP