संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः ४ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः ४ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ४ Translation - भाषांतर श्रीकृष्ण उवाच ।ज्ञानतोऽज्ञानतो वापियन्नरैः कलुषं कृतम् ।तस्य पापस्य शुद्ध्यर्थं विधेया निष्कृतिर्नरैः ॥१॥भस्मादिस्नानदशकमादौ कुर्याद्विचक्षणः ।यथाशक्ति षडब्दादिप्रत्याम्नायाच्चरेदपि ॥२॥तदर्धं वा तदर्धं वा तदर्धार्धमथापि वा ।यथाशक्त्या ततः कुर्याद्दश दानानि वै शृणु ॥३॥गोभूतिलहिरण्याज्यवासोधन्यगुडास्तथा ।रजतं लवणं चैव दानानि दश वै विदुः ॥४॥प्रायश्चित्ते त्वागता ये तेभ्यो दद्यान्नरो दश ।ततो यमद्वारपथे पूयशोणितसंकुले ॥५॥नदीं वैतरणीं तर्तुं दद्याद्वैतरणीं च गाम् ।कृष्णस्तनी सकृष्णाङ्गी सा वै वैतरणी स्मृता ॥६॥तिला लोहं हिरण्यं च कर्पासं लवणं तथा ।सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥७॥एतान्यष्टौ महादानान्युत्तमाय द्विजातये ।आतुरेण तु देयानि पदरूपाणि मे शृणु ॥८॥छत्रो पानहवस्त्राणि मुद्रिका च कमण्डलुः ।आसनं भाजनं पदं चाष्टविधं स्मृतम् ॥९॥तिलापात्रं सर्पिः पात्रं शय्या सोपस्करा तथा ।एतत्सर्वं प्रदातव्यं यदिष्टं चात्मनोऽपि तत् ॥१०॥अश्वो रथश्च महीषी व्यञ्जनं वस्त्रमेव च ।ब्राह्मणेभ्यः प्रदातव्यं ब्रह्मपूर्वमपि स्वयम् ॥११॥दाना न्यन्यान्यपि खग तर्पयेत्स्वीयशक्तितः ।प्रायाश्चित्तं कृतं येन दश दानान्यपि क्षितौ ॥१२॥दानं गोर्वैतरण्याश्च दानान्यष्टौ तथापि वा ।तिलपात्रं सर्पिः पात्रं शय्यादानं तथैव च ॥१३॥पददानं च विधिवन्नासौ निरयगर्भगः ।स्वातन्त्र्येणापि लवणदानमिच्छन्ति सूरयः ॥१४॥विष्णुदेहसमुत्पन्नो यतोऽयं लवणो रसः ।आतुरस्य यदा प्राणा न यान्ति वसुधातले ॥१५॥लवणं च तदा देयं द्वारस्योद्वाटनं दिवः ।यानिकानि च दानानि स्वयं दत्तानि मानवैः ॥१६॥तानितानि च सर्वाणि उपतिष्ठन्ति चाग्रतः ।प्रायश्चित्तं कृतं येन साङ्गं खग स वै पुमान् ॥१७॥पापानि भस्मसात्कृत्वा स्वर्गलोके महीयते ।अमृतं तु गवां क्षीरं यतः पतगसत्तम् ॥१८॥तस्माद्ददाति यो धेनुममृतत्वं स गच्छति ।दानान्यष्टौ तु दत्त्वा वै गन्धर्वनिलये वसेत् ॥१९॥आलयस्तत्र रौद्रे हि दह्यते येन मानवः ।छत्रदानेन सुच्छाया जायते पथि तुष्टिदा ॥२०॥असिपत्रवनं धारमतिक्रामति वै सुखम् ।अश्वारूढश्च व्रजति ददते यद्युपानहौ ॥२१॥भोजनासनदानेन सुखं मार्गे भुनक्ति वै ।प्रदेशे निर्जले दाता सुखी स्याद्वै कमण्डलोः ॥२२॥यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।न पीडयन्ति दाक्षिण्याद्वस्त्राभरणदानतः ॥२३॥तिलपात्रं तु विप्राय दत्तं पत्ररथ ध्रुवम् ।नाशयेत्त्रिविधं षापं वाङ्मनः कायसम्भवम् ॥२४॥घृतपात्रप्रदाने रुद्रलोके वसेन्नरः ।सर्वोपस्करसंयुक्तां शय्यां दत्त्वा द्विजातये ॥२५॥नानाप्सरोभिराकीर्णं विमानमधिरोहति ।षष्टिवर्षसहस्राणि क्रीडित्वा शक्रमन्दिरे ॥२६॥इन्द्रलोकात्परिभ्रष्ट इह लोके नृपो भवेत् ।सर्वोपस्करणोपेतं युवानं दोषवर्जितम् ॥२७॥योऽश्वं ददाति विप्राय स्वर्गलोके च तिष्ठति ।यावन्ति रोमाणि हये भवन्ति हि खगेश्वर ॥२८॥तावतो राजितांल्लोकानाप्नुवन्ति हि पुष्कलान् ।चतुर्भिस्तुरगैर्युक्तं सर्वोपकरणैर्युतम् ॥२९॥रथं द्विजातये दत्त्वा राजसूयफलं लभ्त् ॥३०॥दुग्धाधिकां च महिषीं नवमेघवर्णां सन्तुष्टतर्णकवलीं जघनाभिरामाम् ।दत्त्वा सुवर्णतिलकां द्विजपुङ्गवाय लोकोदयं स जयतीति किमत्र चित्रम् ॥३१॥तालवृन्तस्य दानेन वायुना वीज्यते पथि ।कान्तियुक्सुभगः श्रीमान् भवत्यम्बरदानतः ॥३२॥रसान्नोपस्करयुतं गृहं विप्राय योर्ऽपयेत् ।न हीयते तस्य वंशः स्वर्गं प्राप्नोत्यनुत्तमम् ॥३३॥भवत्यत्र खगश्रेष्ठ फलगौखलाघवम् ।श्रद्धाश्रद्धाविभेदेन दानगौरवलाघवात् ॥३४॥ततो येनाम्बुदानानि कृतान्यत्र रसास्तथा ।तदा खग तथाह्लादमापदि प्रतिपद्यते ॥३५॥अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥३६॥आसन्ने मरणे कुर्यात्संन्यासं चेद्विधानतः ।आवर्तेत पुनर्नासौ ब्रह्मभूयाय कल्पते ॥३७॥आसन्नमरणो मत्यश्चेत्तीर्थं प्रतिनयिते ।तीर्थप्राप्तौ भवेन्मुक्तिर्म्रियते यदि मार्गगः ।पदेपदे क्रतुसमं भवेत्तस्य न संशयः ॥३८॥गृह्णीयाच्चेदनशनं व्रतं विधिवदागते ।मृत्यौ न सोऽपि संसारे भूयः पर्यटति द्विज ॥३९॥किं दानमिति तुर्यस्य प्रश्नस्योत्तरमीरितम् ।दाहमृत्योरन्तरे किमितिप्रश्नोत्तरं शृणु ॥४०॥गतप्राणं ततो ज्ञात्वा स्नात्वा पुत्रादिराशु तम् ।शवं जलेन शुद्धेन क्षालयेदविचारयन् ॥४१॥परिधाप्याहते वस्त्रे चन्दनैः प्रोक्षयेत्तनुम् ।ततो मृतस्य स्थाने वै एकोद्दिष्टं समाचरेत् ॥४२॥प्रयोगपूर्वं दाहस्य योग्यतादिर्यथा भवेत् ।आंसनं प्राक्षण च स्यान्न स्यादेतच्चतुष्टयम् ॥४३॥आवाहनार्चन चैव पान्त्रालम्भावगाहने ।भवेद्दानान्नसङ्कल्पः पिण्डदानं सदा भवेत् ॥४४॥पदार्थपञ्चकं न स्याद्रेखा प्रत्यवनेजनम् ।दद्यादक्षय्यमुदकं न स्यादेतत्त्रयं पुनः ॥४५॥स्वधावाचनमाशीश्च तिलकं च खगोत्तम ।घटं दद्यात्समाषान्नं दद्याल्लोहस्य दक्षिणाम् ॥४६॥पिण्डस्य चालनं प्रोक्तं नैव प्रोक्तमिदं त्रिकम् ।प्रच्छादनविसर्गौ च स्वस्तिवाचनकं तथा ॥४७॥एषु षट्सु विधिः प्रोक्तः श्राद्धेषु मलिनेषु ते ।षडेव मरणस्थाने द्वारि चात्वरिके तथा ॥४८॥विश्रामे काष्ठचयने तथा सञ्चयने खग ।मृतिस्थाने शवो नाम भूमिस्तुष्यति देवता ॥४९॥पान्थो द्वारि भवेत्तेन प्रीता स्याद्वास्तुदेवता ।चत्वरे खेचरस्तेन तुष्येद्भृतादिदेवता ॥५०॥विश्रामे भूतसंज्ञोऽयं तुष्टस्तेन दिशो दश ।चितायां साधक इति सञ्चितौ प्रेत उच्यते ॥५१॥तिलदर्भघृतेधांसि गृहीत्वा तु सुतादयः ।गाथां यमस्य सूक्तं वाप्यधीयाना व्रजन्ति हि ॥५२॥अहरहर्नीयमानो गामश्वं पुरुषं वृषम् ।वैवस्वतो न तृप्येत सुरया त्विव दुर्मतिः ॥५३॥इमां गाथमपेतेति सूक्तं वा पथि संपठेत् ।दक्षिणस्यां दिश्यरण्यं व्रजेयुः सर्वबान्धवाः ॥५४॥पथि श्राद्धद्वयं कुर्यात्पूर्वोक्तविधिना खग ।ततः शनैर्भूतले वै दक्षिणाशिरसं शवम् ॥५५॥स्थापयित्वा चिताभूमौ पूर्वोक्तं श्राद्धमाचरेत् ।तृणकाष्ठतिलाज्यादि स्वयं निन्युः सुतादयः ॥५६॥शूद्रानीतैः कृतं कर्म सर्वं भवति निष्फलम् ।प्राचीनावीतिना भाव्यं दक्षिणाभिमुकेन च ॥५७॥वेदी तत्र प्रकर्तव्या यथाशास्त्रमथाण्डज ।प्रतेवस्त्रं द्विधा कृत्वार्धेन तं छादयेत्ततः ॥५८॥अर्धं श्मशानवासार्थं भूमावेव विनिः क्षिपेत् ।ततः पूर्वोक्तविधिना पिण्डं प्रेतकरे न्यसेत् ॥५९॥आज्येनाभ्यञ्जनं कार्यं सर्वाङ्गेषु शवस्य च ।दाहमृत्योरन्तराले विधिः पिण्डस्य तं शृणु ॥६०॥पूर्वोक्तैः पञ्चभिः पिण्डैः शवस्याहुतियोग्यता ।अन्यथा चोपघाताच्च राक्षसाद्या भवन्ति हि ॥६१॥संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम् ।अभ्युक्ष्योपसमाधाय वह्निं तत्र विधानतः ॥६२॥पुष्पाक्षतैश्च संपूज्य देवं क्रव्यादसंज्ञकम् ।श्रौतेन तु विधानेन ह्याहिताग्निं दहेद्वुधः ॥६३॥चण्डालाग्निं चिताग्निं च पतिताग्निं परित्यजेत् ।त्वं भूतकृज्जगद्योनिस्त्वं लोकपरिपालकः ॥६४॥उपसंहर तस्मात्त्वमेनं स्वर्गं नयामृतम् ।इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत् ॥६५॥अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः ।अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः ॥६६॥असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा तु नामतः ।एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकम् ॥६७॥रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत् ।दाहस्यानन्तरं तत्र कृत्वा सञ्चयनिक्रियाम् ॥६८॥प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग ।ततः प्रदक्षिणं कृक्त्वा चिताप्रस्थानवीक्षकाः ॥६९॥कनिष्ठपूर्वाः स्नानार्थं गच्छेयुः सूक्तजापकाः ।ततो जालसमीपे तु गत्वा प्रक्षाल्य चांशुकम् ॥७०॥परिधाय पुनस्तच्च ब्रृयुस्तं पुरुषं प्रति ।उदकं तु करिष्यामः सचैलं पुरुषास्ततः ॥७१॥कुरुध्वमित्येव वदेच्छतवर्षावरे मृते ।पुत्राद्या वृद्धपूर्वास्ते एकवस्त्राः शिखां विना ॥७२॥प्राचीनावीतिनः सर्वे विशेयुर्मौनिनो जलम् ।अपनः शोशुचदघमनेन पितृदिङ्मुखाः ॥७३॥जलावघट्टनं चव न कुर्युः स्नानकारकाः ।ततस्तटे समागत्य शिखां बद्ध्वा ऋजून् कुशान् ॥७४॥दक्षिणाग्रहस्तयोस्तु कृत्वाथ सतिलं जलम् ।आदायाञ्जलिना याम्यां दुः खी पैतृकतीर्थतः ॥७५॥एकवारं त्रिवारं वा दशवारमथापि वा ।भूमावश्मनि वा सर्वे क्षिपेयुर्वाग्यताः खग ॥७६॥तृप्यन्तु तृप्यतां वापि तर्पयाम्युपतिष्ठताम् ।प्रेतैतदमुकगोत्रेत्युक्तेष्वेवं समुच्चरेत् ॥७७॥जलाञ्जलौ कृते पश्चाद्विधेयं दन्तधावनम् ।त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप ॥७८॥तत उत्तीर्योदकाद्वै वस्त्राणि परिधाय च ।स्नानवस्त्रं सकृत्पीड्य विशेयुः शुचिभूतले ॥७९॥अश्रुपातं न कुर्वीत दत्त्वा दाहजलाञ्जलिम् ।श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ॥८०॥अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ।ततस्तेषूपविष्टेषु पुराणज्ञः सुकृत्स्वकः ॥८१॥शोकापनोदं कुर्वीत संसारानित्यतां ब्रुवन् ।मानुष्ये कदलीस्तन्भे असारे सारमार्गणम् ॥८२॥करोति यः स संमूढो जलबुद्वद्रसन्निभे ।पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ॥८३॥कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ।गन्त्री वसुमती नाशमुदधिर्दैवतानि च ॥८४॥फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ।एवं संश्रावयेत्तत्र मृदुशाद्वलसंस्थितान् ॥८५॥तेऽयि संश्रुत्य गच्छेयुर्गृहं बालपुरः सराः ।विदश्य र्निबपत्राणि नियता द्वारि वेश्मनः ॥८६॥आचम्य वह्निसलिलं गोमयं गौरसर्षपान् ।दूर्वाप्रवालं वृषभमन्यदप्यथ मङ्गलम् ॥८७॥प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ।श्रौतेन तु विधानेन आहिताग्निं देहद्वधः ॥८८॥ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः ।योषित्पतिव्रता या स्याद्भर्तारं यानुगच्छति ॥८९॥प्रयोग पूर्वं भर्तारं नमस्कृत्यारुहेच्चितिम् ।चितिभ्रष्टा तु या मोहात्सा प्राजापत्यमाचरेत् ॥९०॥तिस्रः कोट्योर्धकोटी य यानि लोमानि मानुषे ।तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥९१॥व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।तद्वदुद्धृत्य सा नारी तेनैव सह मोदते ॥९२॥तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः ।क्रीडते पतिना सार्धं यावदिन्द्राश्चतुर्दश ॥९३॥ब्रह्मघ्नो वा कृघ्नो वा मित्त्रिघ्नो वा भवेत्पतिः ।पुनात्यविधवा नारी तमादाय मृता तु या ॥९४॥मृते भर्तरि या नारी समारोहेद्धुताशनम् ।सारन्धतीसमाचारा स्वर्गलोके महीयते ॥९५॥यावच्चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् ।तावन्न मुच्यते सा हि स्त्रीशरीरात्कथञ्चन ॥९६॥मातृकं पैतृकं चैव यत्र चैव प्रदीयते ।कुलत्रयं पुनात्येषा भर्तारं यानुगच्छति ॥९७॥आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥९८॥पृथक्चितां समारुह्य न प्रिया गन्तुमर्हति ।क्षत्त्रियाद्याः सवर्णाश्च आरोहेयुरपीह ताः ॥९९॥चाण्डालीमवधिं कृत्वा ब्राह्मणीतः समो विधिः ।अगर्भिणीनां सर्वासामबालताक्मे(का)नामपि ॥१००॥दहनस्य विधिः प्रोक्तः सामान्येन मया खग ।विशेषमपि तस्यास्य कञ्चित्किं श्रोतुमिच्छति ॥१०१॥गरुड उवाच ।प्रोषिते तु मृते स्वामिन्यस्थ्निनाशमुपेयुषि ।कथं दाहः प्रकर्तव्यस्तन्मे वद जगत्पते ॥१०२॥श्रीकृष्ण उवाच ।अस्थीनि चेन्न लभ्यन्ते प्रोषितस्य नरस्य च ।तेषाञ्च हि गतिस्थानं विधानं कथयाम्यहम् ॥१०३॥शृणु तार्क्ष्य परं गोप्यं पत्युर्दुर्मरणेषु यत् ।लङ्घनैर्ये मृता जीवां दंष्ट्रिभिश्चाभिघातिताः ॥१०४॥कण्ठग्रहे विलग्नानां क्षीणानां तुण्डघातिनाम् ।विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः ॥१०५॥पतनोद्बन्धनजलैर्मृतानां शृणु संस्थितिम् ।सर्पव्याघ्रैः शृङ्गिभिश्च उपसर्गोपलोदकैः ॥१०६॥ब्राह्मणैः श्वापदैश्चैव पतनैर्वृक्षवैद्युतैः ।नखैर्लोहैर्गिरेः पातैर्भित्तिपातैर्भृगोस्तथा ॥१०७॥कट्वायामन्तरिक्षे च चौरचाण्डालतस्तथा ।उदक्याशुनकीशूद्ररजकादिविभूषिताः ॥१०८॥ऊर्ध्वोचछिष्टाधरोच्छिष्टोभयोच्छिष्टास्तु ये मृताः ।शस्त्रघातैर्मृता ये चास्यश्वस्पृष्टास्तथैव च ॥१०९॥तत्तु दुर्मरणं ज्ञेयं यच्च जातं विधैं विना ।तेन पापेन नरकान् भुक्त्वा प्रेतत्वभागिनः ॥११०॥न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम् ।न विधानं मृताद्यञ्च न कुर्या दौर्ध्वदैहिकम् ॥१११॥न पिण्डदानं कर्तव्यं प्रमादाच्चेत्करोति हि ।नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥११२॥अतस्तस्य सुतैः पौत्त्रैः सपिण्डैः शुभमिच्छुभिः ।नारायणबलिः कार्यो लोकगर्हाभिया खग ॥११३॥तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः ।कृते नारायणबलावौर्ध्वदेहिकयोग्यता ॥११४॥तस्य सुद्धिकरं कर्म तद्भवेन्न तदन्यथा ।नारायणबलिं सम्यक्तीर्थे सर्वं प्रक्पयेत् ॥११५॥कृष्णाग्रे कारयेद्बिप्रैर्येन पूतो भवेन्नरः ।पूर्वन्तु तर्पणं कार्यं विप्रैः पौराणवैदिकैः ॥११६॥सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् ।कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि ॥११७॥दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् ।अनादिनिधनो देवः शङ्खचक्रगदाधरः ॥११८॥अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ।तर्पणस्यावसाने स्याद्वीतरागो विमत्सरः ॥११९॥जितेन्द्रियमना भूत्वा शुचिष्मान्धर्मतत्परः ।भक्त्या तत्र प्रकुर्वीत श्राद्धान्येकादशैव तु ॥१२०॥सर्वकर्मविधाने एकैकाग्रे समाहितः ।तोयव्रीहियवान्दद्याद्गोधूमांश्च प्रियङ्गवः ॥१२१॥हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च दापयेत् ।दापयेत्सर्वसंस्यानि क्षीरं क्षौद्रसमान्वितम् ॥१२२॥वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् ।द्पयेत्सर्वपापेभ्यो न कुर्यात्पङ्क्तिवञ्चनम् ॥१२३॥भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् ।दातव्यं सर्वंविप्रेभ्यो वेदशास्त्रविधानतः ॥१२४॥शङ्खे खड्गेऽथ वा ताम्रे तर्पणञ्च पृथक्पृथक् ।ध्यानधारणसंयुक्तो जानुभ्यामवनीं गतः ॥१२५॥ऋचा वै दापयेदर्घमर्घोद्दिष्टं पृथक्पृथक् ।ब्रह्मा विष्णुश्च रुद्रश्च यमः प्रेतश्च पञ्चमः ॥१२६॥पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः ।वस्त्रयज्ञोपवीतानि पृथङ्मुद्गाः पदानि च ॥१२७॥पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि ।जलधारां ततः कुर्यात्पिण्डेपिण्डे पृथक्पृथक् ॥१२८॥शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मये पि वा ।तिलोदकं समादाय सर्वोषधिमसन्वितम् ॥१२९॥ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् ।दद्याद्ब्राह्मणमुख्याय पददानं तथैच ॥१३०॥यमोद्देशेतिलांल्लौहं ततो दद्याच्च दक्षिणाम् ।एवं विष्णुबलिं दत्त्वा यथाशक्त्या विधानतः ॥१३१॥समुद्धरति तत्क्षिप्रं नात्र कार्या विचारण नागदंशान्मृतो यस्तु विशेषस्तन्तु मे शृणु ॥१३२॥सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।विप्राय दत्त्वा विधिवत्पितुरानृण्यमाप्नुयात् ॥१३३॥एवं सर्पबलिं दत्त्वा सर्पदोषाद्विमुच्यते ।पश्चात्पुत्तलकं कार्यं सर्वोषधिसमन्वितम् ॥१३४॥पलाशस्य च वृन्तानां विभागं शृणु काश्यप ।कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ॥१३५॥शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः ।विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् ॥१३६॥चत्वारिंशच्छिरोभागे ग्रीवायां दश विन्यसेत् ।विंशत्युरः स्थले दद्याद्विंशतिञ्जठरे तथा ॥१३७॥बाहुद्वये शतं दद्यात्कटिदेशे च विंशतिम् ।ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् ॥१३८॥दद्याच्चतुष्टयं शिश्ने षड्दद्याद्वृषाणद्वये ।दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत् ॥१३९॥नारिकेलं शिरः स्थानें तुम्बं दद्याच्च तालुके ।पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम् ॥१४०॥अन्त्रेषु नालिकं तद्याद्वालुकाङ्घ्राणे एव च ।वसायां मृत्तिकां दद्याद्धरितालमनः शिलाः ॥१४१॥पारदं रेतसः स्थाने पुरीषे पित्तलं तथा ।मनः शिला तथा गात्रे तिलपक्वन्तु सन्धिषु ॥१४२॥यवपिष्टं यथा मांसे मधु शोणितमेव च ।केशेषु च जटाजूटं त्वचायाञ्च मृगत्वचम् ॥१४३॥कर्णयोस्तालपत्रञ्च स्तनयोश्चैव गुञ्जिकाः ।नासायां शतपत्रञ्च कमलं नाभिमण्डले ॥१४४॥वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम् ।घृतं नाभ्यां प्रदेयं स्यात्कौ पीने च त्रपुस्मृतम् ॥१४५॥मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेव विलेपनम् ।कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ॥१४६॥परिधानं पट्टसूत्रंहृदये चैव विन्यसेत् ।ऋद्धिवृद्धी भुजौ द्वौ च चक्षुर्भ्याञ्च कपर्दकम् ॥१४७॥दन्तेषु दाडिमीबीजान्यङ्गुलीषु च चम्पकम् ।सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकम् ॥१४८॥सर्वौषदियुतं प्रेतं कृत्वा पूजां यथोदिताम् ।साग्निके चापि विधिना यज्ञपात्रं न्यस्येत्क्रमात् ॥१४९॥स्त्रियः पुनन्तु म शिर इमं मे वरुणेन च ।प्रेतस्य पावनं कृत्वा शालग्रामशिलोदकैः ॥१५०॥विष्णुमुद्दिश्य दातव्या सुशीला गौः पयस्विनी ।तिला लौहं हिरण्यञ्च कर्पासं लवणं तथा ॥१५१॥सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ।तिलपात्रं ततो दद्यात्पददानं तथैव च ॥१५२॥कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थमात्मनः ।प्रेतमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्यच ॥१५३॥एवं पुत्तलकं कृत्वा दाहयेद्विधिपूर्वकम् ।तच्छ्रुद्धये तु संस्कर्ता पुत्रादिर्निष्कृतिं चरेत् ॥१५४॥त्रीन्कृच्छ्रान्षड्द्वादश च तथा पञ्चदशापि च ।प्रायश्चित्तनिमित्तानुसारेण विप्रवत्स्मृतः ॥१५५॥अशक्तौ गोहिरण्यादि प्रत्याम्नायं चरेदपि ।आत्मनोऽनधिकारित्वे शुद्धिमेवं चरेद्वुन्धः ॥१५६॥अशुद्धेन तु यद्दत्तमुद्दिश्याशुद्धिमेव च ।नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥१५७॥शुद्धिं सम्पाद्य कर्तव्यं दहनाद्यौर्ध्वदेहिकम् ।अकृत्वा निष्कृतिं यस्तु कुरुते दहनादिकम् ॥१५८॥मतिपूर्वममत्या च क्रमात्तनिष्कृतिं शृणु ।कृत्वाग्निमुदकं स्नानं स्पर्शनं वहनं कथाम् ॥१५९॥रज्जुच्छेदाश्रुपातञ्च तप्तकृच्छ्रेण शुध्यति ।एषामन्यतमं प्रेतं यो वहेत्तु देहत वा ॥१६०॥कटोदकक्रियां कृत्वा कृच्छ्र सान्तपनं चरेत् ।निमित्ते लघुनि स्वल्पं महन्महति कल्पयेत् ॥१६१॥गरुड उवाच ।कृच्छ्रस्य तप्तकृच्छ्रस्य तथा सान्तपनस्य च ।लक्षणं ब्रूहि मे स्वामिंस्त्रयाणामपि सुव्रत ॥१६२॥श्रीकृष्ण उवाच ।त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।उपवासस्त्र्यहञ्चैव एष कृच्छ्र उदाहृतः ॥१६३॥तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ।एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥१६४॥गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनञ्चरन् ॥१६५॥मया तेऽयं समाख्यातो दुर्मृतस्य विधिः खग ।तदा मृतं विजानीयाद्दीपनिर्वाणमागतः ॥१६६॥अग्निदाहं ततः कुर्यात्सूतकञ्च दिनत्रयम् ।दशाहं गर्तपिणाडञ्च कर्तव्यं प्रेतपूर्वकम् ॥१६७॥एवं विधिं ततः कुर्यात्ततः प्रेतश्च मुक्तिभाक् ।मृतभ्रान्त्या प्रतिकृतेः कृते दाहे स वै यदि ॥१६८॥आयाति तेन कर्तव्यं मज्जनं घृकुण्डके ।जातकर्मादिसंस्काराः कर्तव्याः पुनरेव तु ॥१६९॥ऊढामेव स्वकां भार्यामुद्वहेद्विधिवत्पुमान् ।वर्षे पञ्चदशे पक्षिन् द्वादशे वा गते सति ॥१७०॥अज्ञातस्य प्रोषितस्य कृत्वा प्रतिकृतिं दहेत् ।रजस्वलासूतिकयोर्विशेषं मरणे शृणु ॥१७१॥सूतिकायां मृतायान्तु एवं कुर्वन्ति याज्ञिकाः ।कुम्भे सलिलमादाय पञ्चगव्यं तथैव च ॥१७२॥पुण्याभिरभिमन्त्र्यापो वाचा शुद्धिं लभेत्ततः ।शतसूर्पोदकेनादौ स्नापयित्वा यथाविधि ॥१७३॥तेनैव स्नापयित्वा तु दाहं कुर्यात्स्वगेश्वर ।पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् ॥१७४॥वस्त्रान्तराकृतिं कृत्वा दाहयेद्विधिपूर्वकम् ।मृतस्य पञ्चके दाहविधिं वच्मि शृणुष्व मे ॥१७५॥आदौ कृत्वा धनिष्ठार्धमेतन्नक्षत्रपञ्चकम् ।रेवत्यन्तं सदा दूष्यमशुभं सर्वदा भवेत् ॥१७६॥दाहस्तत्र न कर्तव्यो विषादः सर्वजन्तुषु ।न जलं दीयते तेषु अशुभं सर्वदा भवेत् ॥१७७॥पञ्चकानन्तरं सर्वं कार्यं कर्तव्यमन्यथा ।पुत्त्राणां गोत्रिणां तस्य सन्तापोऽप्युपजायते ॥१७८॥गृहे हानिर्भवत्येव ऋक्षेष्वेषु मृतस्य च ।अथ वा ऋक्षमद्ये च दाहस्तु विधिपूर्वकः ॥१७९॥क्रियते मानुषाणान्तु स वा आहुतिपूर्वकः ।विप्रैर्विधिरतः कार्यो मन्त्रैस्तु विधिपूर्वकम् ॥१८०॥शवस्थानसमीपे तु क्षेप्तव्याः पुत्तलास्ततः ।दर्भकॢप्तास्तु चत्वार ऋक्षमन्त्राभिमन्त्रिताः ॥१८१॥ततो दाहः प्रकर्तव्यस्तैश्च पुत्तलकैः सह ।सूतकान्ते तदा पुत्त्रैः कार्यं शान्तिकपौष्टिकम् ॥१८२॥पञ्चकेषु मृतो योऽसौ न सतिं लभते नरः ।तिलान् गाञ्च सुवर्णञ्च तमुद्दिश्य घृतं ददेत् ॥१८३॥विप्राणां दापयेद्दानं सर्वविघ्नविनाशनम् ।भोजनोपानहौच्छत्त्रं हेममुद्रा च वाससी ॥१८४॥दक्षिणा दीयते विप्रे पातकस्य प्रमोचनः ।मयातेऽयं समाख्यातो विधिः पञ्चहरः स्थितः ।संयमिन्यां यथायानं यथावर्षं मृतक्रिया ॥१८५॥इति श्रीगारुडे महापुराणे उत्तरखण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दहनविधिकृच्छ्रलक्षणदग्धागमनरजस्वलामरणविधिपञ्चकमरणप्रायश्चित्तनिरूपणं नाम चतुर्थोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP