संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः २८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


गरुड उवाच ।
सर्वेपामनुकम्पार्थं ब्रूहि मे मधुसूदन ।
प्रेतत्वान्मुच्यते येन दानेन सुकृतेन वा ॥१॥

शृकृष्ण उवाच ।
शृणु दानं प्रवक्ष्यामि सर्वाशु भविनाशनम् ।
सन्तप्तहाटकमयं घटकं विधाय ब्रह्मेशकेशवयुतं सह लोकपालैः ।
क्षीराज्यपूर्णविविरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ॥२॥

गरुड उवाच ।
किमेत्कथितं देव विस्तरेण वदस्व मे ।
आमुष्मिकीं क्रीयां देव उत्क्रान्तिसमयादनु ॥३॥

संसारे साधु मे नाथ ब्रूहि कृत्यं जनार्दन ।
यथा कार्या नरैः सम्यक्क्रिया चैवौर्ध्वदैहिकी ॥४॥

कथं प्रेता महाकाया रौद्ररूपा भयानकाः ।
कम्भवन्ति सुरश्रेष्ठ कर्मभिः कैः शुभाशुभैः ॥५॥

पिशाचाः सम्भवन्तीह कस्येदं कर्मणः फलम् ।
तन्मे कथय देवेश अहमिच्छामि वेदितुम् ॥६॥

भूम्यां प्रक्षिप्यते कस्मात्पञ्चरत्नं कुतो मुखे ।
अधस्ताच्च तिला दर्भाः पादौ याम्यां व्यवस्थिताः ॥७॥

किमर्थं मण्डलं भूमौ गोमयेनोपलिप्यते ।
किमर्थं स्मर्यते विष्णुः विष्णुसूक्तञ्च पठ्यते ॥८॥

किमर्थं पुत्रपुत्राश्च तस्य तिष्ठन्ति चाग्रतः ।
किमर्थं दीपदानञ्च किमर्थं विष्णुपूजनम् ॥९॥

किमर्थमातुरो दानं ददाति द्विजपुङ्गवे ।
बन्धून्मित्राण्यमित्रांश्च क्षमापयति तत्कथम् ॥१०॥

तिला लोहं हिरण्यं च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गावो दीयते केन हे तुना ॥११॥

कथं च म्रियते जन्तुर्मृतस्य च कुतो गतिः ।
अतिवाहशरीरं च कथं विश्रमते तदा ॥१२॥

शंव स्कन्धे वहेत्पुत्रो वह्निदाता च पौत्रकः ।
किमर्थं देव देवेश आज्येनाभ्यञ्जनं कुतः ॥१३॥

यमसूक्तं किमर्थं च उदीचीं दिशमाहरेत् ।
पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम् ॥१४॥

यवसर्षपदूर्वाश्चपाषाणे निम्बचर्वणम् ।
वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् ॥१५॥

अन्नाद्यं गृहमागत्य भोक्तव्यं गोत्रिभिः सह ।
नवकानि च पिण्डानि किमर्थं वितरेत्सुतः ॥१६॥

किमर्थं चत्वरे दुग्धं पात्रे पक्वे च मृन्मये ।
काष्ठत्रयं गुणे बद्ध्वा कृत्वा रात्रौ चतुष्पथे ॥१७॥

निशायां दीयते दीपो यावदब्दं दिनेदिने ।
दाहोदकं किमर्थं च संवादः स्वजनैः सह ॥१८॥

भगवन्नतिवाहस्य नवपिण्डैस्तु किं भवेत् ।
कथं देवपितृभ्यश्च वाहस्यावाहनं कथम् ।
इदं च क्रियते देव कस्मात्पिण्डं प्रदापयेत् ॥१९॥

किं तत्प्रदीयते तस्य पिण्डदानादनन्तरम् ।
अस्थिसञ्चयनं चैव शय्यादानं किमर्थकम् ॥२०॥

द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे ।
दशमे किं मलस्नानं कार्यं सर्वजनैः सह ॥२१॥

कस्मात्तैलोद्वर्तनं च स्कन्धवाहान् गृहं नयेत् ।
तैः समुद्वर्तनं चापि दद्युः स्थलजलाश्रये ॥२२॥

देशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु ।
पिण्डं चैकादशे कस्माद्वृषोत्सर्गः कथं भवेत् ॥२३॥

श्राद्धानि षोडशैतानि अब्दं यावत्कुतो वद ।
अन्नादिचोदकेनैव षष्ट्यधिकशतत्रयम् ॥२४॥

दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये ।
प्राप्ते काले च म्रियते अनित्यो मानवः प्रभो ॥२५॥

छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः ।
कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा ॥२६॥

तेजो वदस्व मे नाथ वायुराकाशमेव च ।
वायवश्चैव पञ्चैते कथं गच्छन्ति चाप्तये ॥२७॥

लोभमोहादयः पञ्च शरीरे चैव तस्कराः ।
तृष्णा कामोऽप्यहङ्कारः कुतो यान्ति जनार्दन ॥२८॥

पुण्यं वाप्यथ वापुण्यं यत्किञ्चित्सुकृतं तथा ।
नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥२९॥

सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा ।
प्रेतस्य मेलनं सार्धं कैः समं तत्र को विधिः ॥३०॥

ये दग्धा ये त्वदग्धाश्च पतिता ये नराभुवि ।
यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् ॥३१॥

पापिनो ये दुराचारा मुद्गलत्वं च ये गताः ।
आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः ॥३२॥

कपिलां यः पिबेच्छूद्रो यः पठेद्वैदिकाक्षरम् ।
धारयेद्वा ब्रह्मसूत्रं का गतिस्तस्य माधव ॥३३॥

विप्रस्य ब्राह्मणी भार्या संगृही ता यदा भवेत् ।
तस्मात्पापाच्च भीतोऽहं तन्मे वद जगत्पते ।
सर्वमेतन्मया पृष्टो वद लोकहिताय वै ॥३४॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे और्ध्वदहिककर्मकालक्रियमाणनानादानादिफलप्रश्रनिरूपणं नामाष्टाविंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP