संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः ७ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः ७ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ७ Translation - भाषांतर गरुड उवाच ।श्रुतं मे महादाख्यानं वृषोत्सर्गफलं हरे ।पुनरन्यां कथां ब्रूहि यत्र ते महिमाद्भुतः ॥१॥श्रीकृष्ण उवाच ।अहं ते कथयाम्यद्य संवादं परमाद्भुतम् ।सन्तप्तकस्य च प्रेतैस्तद्रूपज्ञापनाय वै ॥२॥विप्रः सन्तप्तकः कश्चित्तपसादग्धकिल्बिषः ।संसारासारतां ज्ञात्वारण्यष्वेव चचार ह ॥३॥वैखानसमुनिव्रातैः प्राणिपातकृतेक्षणः ।स कदाचित्तीर्थयात्रामुद्दिश्य स्माटतिद्विजः ॥४॥प्रत्याकृष्टेन्द्रियत्वाच्च बहिर्वृत्तिनिरोधकः ।संस्कारमात्रगमनो मार्गभ्रष्टो बभूव ह ॥५॥चलन्नेवं स्नानकाले मध्याह्नेऽथाभिलाषुकः ।जलस्योन्मील्य नयने दिशः सर्वा न्यभीलयत् ॥६॥स ददर्श तदा गुल्मैर्वोरुद्वृक्षशतैश्चितम् ।त्वक्सारैः शाखिशाखाभिः संकुलं गहनंवनम् ॥७॥तत्र तालास्तमालाश्च प्रियालाः पनसास्तथा ।श्रीपर्णो शालशाखोटस्यन्दनास्तिन्दुकास्तथा ॥८॥सर्जार्जुनाम्रातकाश्च श्लेष्मा तकभिभीतकौ ।पिचुमर्दश्चिञ्चिणी च कर्कन्धूकर्णिकारकाः ॥९॥एते चान्ये च बहवो वृक्षास्तेषु न दृश्यते ।पक्षिणामपि वै पन्था मनुष्यस्य कुतः पुनः ॥१०॥तस्मिन् वने महाघोरे सिंहव्याघ्रसमाकुले ।तरक्षुगवयैरृक्षैर्महिषैश्च निषेविते ॥११॥कुञ्ज रैरुरुभिर्नागैर्मर्कटैश्च तथामृगैः ।श्वापदैश्च तथा चान्यैः पिशाचै राक्षसैर्वृते ॥१२॥सन्तप्तको द्विजः किञ्चिद्भयसन्त्रस्तमानसः ।कान्दिशीकः समभवढ्यद्भविष्यो ययौ पुनः ॥१३॥झङ्कारेषु च झिल्लीनां घूकानां घूत्कृतेष्वपि ।दत्तकर्णः कुनीलाङ्गश्चचाल पदपञ्चकम् ॥१४॥स तत्र वटवृक्षाग्रे स्नायुवद्धं शवं तथा ।ददर्श तद्भुजश्चैव पञ्च प्रेतान् सुदारुणाम् ॥१५॥शिरास्थिचर्मशेषाङ्गान् पृष्ठलग्नोदरान् खग ।त्यक्तान्नासिकया नेत्रकूपपातभयादिव ॥१६॥सूचीक्रककचकव्रातघातपातितकीकसान् ।वसाक्तनवमस्तिष्कस्वादनित्यमहोत्सवान् ॥१७॥रणत्कोटिमहादंष्ट्रानस्थिग्रन्थ्यवघट्टितान् ।तान्दृष्ट्वा त्रस्तहृदयो गतिमाकुञ्च्य संस्थितः ॥१८॥ते विलोक्यागतं विप्रमटवीं जनवर्जिताम् ।अहं पूर्वमहं पूर्वं यामीत्याक्त्वा प्रदुद्रुवुः ॥१९॥तेषु द्वौद्वावगृह्णीतामस्य हस्तावथापरे ।द्वौद्वौ पादावगृह्णीतां मूर्धानं पञ्चमोऽग्रहीत् ॥२०॥स्वजात्युचितवाक्येन स्फुटवर्णवताब्रुवन् ।अहं जक्षाम्यहं भक्षामीति कर्षणतत्पराः ॥२१॥सहसैव सहैवामुं गृहात्वा व्यगमन्वियम् ।कियत्स्थितं बटौ मांसं क्रियन्नेतिन्यभालयन् ॥२२॥तेऽपश्यन्निजदंष्ट्रायः पाटितान्त्रमिमं शवम् ।अवतीर्य ततो व्योम्नो गृहीत्वा चरणैः ॥२३॥स्वखण्डितशरीरन्तु पुनर्व्योमैव चक्रमुः ।स नीयमानमात्मानं विलोक्य वियति द्विजः ॥२४॥जगाम मनसा मां स शरणं भयविह्वलः ।नमश्चक्रे चक्रधरं चेतसा चिन्मयं समम् ॥२५॥वक्रं नक्रं चक्रपातेन दूरे कृत्वा हृत्वा तस्य दुः खं मुकुन्दः ।मातङ्गं योऽमूमुचन्नक्रवक्त्रात्पाशंसोऽसौ कर्मणां मे लुनातु ॥२६॥रुद्धाञ्शुद्धान् भूपतीन्मागधेन भीमेनैनं घातयित्वा मुरारिः ।निर्बद्धान्यो भर्गयज्ञाय मुक्तश्चक्रो मेऽसौ कर्मपाशं लुनातु ॥२७॥मनसैवैह मामस्तौत्स्तूयमानोऽहमुत्थितः ।अगच्छं सहसा तत्र यत्र प्रेतैः स नीयते ॥२८॥दृष्ट्वा तैर्नोयमानन्तु कौतुकं मेऽभवत्खग ।पप्रच्छ न कियन्तं वै कालं तान्पृष्ठतोऽन्वगाम् ॥२९॥मम सन्निधिमात्रेण द्विजातिं तञ्च सर्पहन् ।तत्कालं शिविकासुप्तभूपालसुखमाविशत् ॥३०॥मणिभद्रास्ततो मेरुं गच्छन्दृष्टो मया पथि ।निकोच्याक्षि स्वपार्श्वं स नीतो वै यक्षराण्मया ॥३१॥तमवोचं महायक्षं त्वं हि प्रतिभटो भव ।प्रेतान्नाशय तद्भूयः शवञ्च हर तद्गतम् ॥३२॥इत्युक्तः स महाघोरं कृत्वा रोषं सुदुः सहम् ।जग्राह प्रेतरूपं तत्प्रेतानामपि दुः खदम् ॥३३॥स विवृत्य स्वकौ बाहू सृक्किणी परिलेलिहन् ।भेदयन्नुरुवातेन प्रेतांस्तान्संमुखो ययौ ॥३४॥बाहुभ्यां द्वौ द्वौ च पद्भ्यां मूर्ध्नैकं च समाहरत् ।प्रेतानथापि सहसा जघान दृढमुष्टिना ॥३५॥ते विवर्णमुखाः सर्वे तं द्विजञ्च शवं तथा ।एकैकं हस्तपादैश्च गृहीत्वा युद्धमारभन् ॥३६॥ते नखैस्तलघातैश्च पादघातैस्तथैव च ।दंष्ट्राघातैश्च सर्वे तमेकं प्रेतं व्यदारयन् ॥३७॥तेषां प्रहारान्विफलान्कृत्वा संप्रति तानथ ।जीवं न तु शवं तेषां जह्रे प्राणमिवान्तकः ॥३८॥हृतमात्रे शवे ते तु पारियात्रे गिरौ द्विजम् ।मुक्त्वाधमात्रे प्रमुदिता एकं प्रेतं सुदारुणाः ॥३९॥स वायुगमनः प्रेतः प्राप्तस्तैः क्षणमात्रतः ।अदृश्यतां ययौ तेऽथ हताशा विप्रमागमन् ॥४०॥प्रारब्धमात्रे विप्रस्य पाटने तत्र पर्वते ।मम स्थानस्य विप्रस्य महिम्नेव च तत्क्षणे ॥४१॥सद्यः स्मृतिः समुत्पन्ना तेषां पूर्वस्य जन्मनः ।विप्रं प्रदक्षिणीकृत्यद्विजर्षभमथाब्रुवन् ॥४२॥अद्य नः क्षन्तुमर्हेऽसीत्युक्त्वा ते सुरदाम्भिकाः ।गिरेरिव परावर्तं समुद्रस्येव शोषणम् ॥४३॥तेषां तद्वचनं श्रुत्वापृच्छत्केयूयमित्यथ ।किं माया किमु वा स्वप्न उताहो चित्तविभ्रमः ॥४४॥प्रेता ऊचुः ।अवेहि तत्त्वमेवैतत्प्रेता वै कर्मजा वयम् ।ब्राह्मण उवाच ।किंनामानः किमाचाराः कथञ्चेमां दशां गताः ॥४५॥अविनीताः कथं पूर्वं विनीताः साम्प्रतं कथम् ।प्रेता ऊचुः ।शृणु विप्रेन्द्र वक्ष्यामः प्रश्रानामनुपूर्वशः ॥४६॥उत्तराणि महायोगिंस्त्वद्दर्शनगतांहसः ।अहं पर्युषितो नाम्ना एष सूचीमुखः स्मृतः ॥४७॥तृतीयः शीघ्रगस्तुर्योरोधको लेखकः परः ।ब्राह्मण उवाच ।प्रेतानां कर्मजातानां कुतो नाम निरर्थकम् ॥४८॥निरुक्तिमेषां नाम्नां वै प्रेता वदत मा चिरम् ।श्रीकृष्ण उवाच ।एवमुक्तास्तु विप्रेण पृथगुत्तरमब्रुवन् ॥४९॥पर्युषित उवाच ।कदाचिच्छ्राद्धकाले वै मया विप्रो निमन्त्रितः ॥५०॥स च कृत्वा विलम्बेन वृद्धो मद्गृहमागतः ।अकृतश्राद्धकर्माहं तं पाकं भुक्तवान् क्षुधा ॥५१॥अददामन्नमाकृष्य विप्रे पर्युषितं कियत् ।तस्मात्पापान्मृतः पापो योनिं वै कुत्सितां गतः ॥५२॥यतः पर्युषितं दत्तं ततः पर्युषितः स्मृतः ।सूचीमुख उवाच ।कदाचिद्ब्राह्मणी काचित्तीर्थं भद्रवटं ययौ ॥५३॥पञ्चवर्षसुता वृद्धा पुत्रमात्रैकजीविता ।अहं क्षत्त्रियदायादस्तस्या रोधमकारिषम् ॥५४॥वने तु विजने तत्र पापाध्वगगतिं गतः ।तस्याः सवस्त्रं पाथेयं तत्सूनोर्वसनानि च ॥५५॥गृहीतानि मया विप्र शिरस्यापीड्य मुष्टिना ।तृषार्तस्तत्क्षणं बालः पात्रसंस्थं जलंपिबन् ॥५६॥तावन्मात्रोदके देशे मया हुङ्कृत्य वारितः ।मयाथ सकलं पीतं जलं पात्रात्तृषावता ॥५७॥बालोऽपि भयसन्त्रस्तः पिपासुर्व्यसुरापतत् ।पुत्रशोकान्मृता माता कूपे प्रास्य निजं वपुः ॥५८॥एतस्मात्पातकाद्विप्र प्रेतत्वं प्राप्तवानहम् ।सूच्यग्रप्रायविवरमुखः पर्वतदेहवान् ॥५९॥यद्यपि प्राप्नुयां भक्ष्यं भक्षितुन्तु न शक्यते ।मया क्षुधानलेनापि ज्वलतास्यं निकोचितम् ॥६०॥अत आस्ये तु विवरं सूच्यग्रेण समंमम ।एतस्मात्कारणाद्विप्रे नाम्ना सूचीमुखोऽस्म्यहम् ॥६१॥शीघ्रग उवाच ।पुराहं वैश्यजातीयः साकं सख्या च केनचित् ।वाणिज्यं कर्तुमगमं देशमन्यं महाधनः ॥६२॥मित्रं च मे बहुधनं तस्य लोभो महांस्ततः ।जातोऽप्यदृष्टवैमुख्यान्मे नष्टं मूलमप्युत ॥६३॥ततस्तस्मात्तु निष्क्रान्तावावां नावाथ निम्नगाम् ।मार्गगां तर्तुमारब्धौ लोहितायति भास्करे ॥६४॥सखा स च मदुत्सङ्गे सुष्वापाध्वक्लमाकुलः ।अभूत्तदाति पापस्य क्रूरा मतिरतीव मे ॥६५॥तमुत्सङ्गगतं सूरे नष्टे पूरेऽक्षिपं तदा ।कत्कृत्यं कुर्वतो नावि लोकैस्तु ज्ञातमेव न ॥६६॥तस्य यद्वस्तु तत्सर्वं मणिमुक्तादिकाञ्चनम् ।आदाय शीग्रगस्तस्माद्देशात्स्वगृहमागतः ॥६७॥तत्सर्वं स्वगृहे मुक्त्वा तस्य पत्न्यै न्यवेदयम् ।दस्युभिर्मे हतो भ्राता धनमाच्छिद्य वै पथि ॥६८॥प्रजावति प्रद्रुतोऽहं मा रोदीत्येवमब्रवम् ।शोकार्ता सापि तत्कालं ममत्वं गृहबन्धुषु ॥६९॥त्यक्त्वा चाति प्रियान्प्राणाञ्जुहावाग्नौ यथाविधि ।ततो निष्कण्टकं तद्धि वीक्ष्य हृष्टो गतो गृहम् ॥७०॥अभुञ्जं सर्वमागत्य यावज्जीवं तु तद्धनम् ।मित्रं पूरे हि निः क्षिप्य यदहं शीघ्रमागतः ॥७१॥एतस्मात्कारणात्प्रेतः शीघ्रगोऽहं तु नामतः ।रोधक उवाच ।अहन्तु शूद्रजातीयः पुराभूवं मुनीश्वर ॥७२॥राजप्रसादाप्तमहाशतग्रामाधिकारवान् ।वृद्धौ मे पितरावास्तां लघुरेकः सहोदरः ॥७३॥शीघ्रं स च मया भ्राता लुब्धेनैकः पृथक्कृतः ।आप्तवान्परमं दुःखं सोन्नवस्त्रविवर्जितः ॥७४॥अदत्तां पितरौ च्छन्नं किञ्चित्किञ्चित्तु तस्य च ।तस्मै पितृभ्यां यद्दत्तमाप्तेभ्यस्तन्मया श्रुतम् ॥७५॥तत्सर्वं तत्त्वतो ज्ञात्वा पित्रो रोधमकारयम् ।शून्यमन्दिर एकस्मिन्बद्ध्वा तु निगडैर्दृढैः ॥७६॥ततस्तौ जहतुः प्राणान्दुः खितौ विषपानतः ।सोसौ बालोऽपि बभ्राम पितृभ्यां रहितो द्विज ॥७७॥पुरः पत्तनखर्वाचान् खेटानपि मृतः क्षुधा ।एतस्मात्पातकाद्विप्र मृतः प्रेतत्वमागतः ॥७८॥रुद्धौ तु पितरौ यस्मान्नाम्नाहं रोधकस्ततः ।लेखक उवाच ।अहं विप्र पुराभूवमवन्त्यां द्विजलसत्तमः ॥७९॥भद्रस्य राज्ञो देवानां पूजनेऽधिकृतो ह्यहम् ।बह्व्यस्तु प्रतिमास्तत्र बभूवुर्बहुनामिकाः ॥८०॥हेम्नस्तदङ्गेषु बहु रत्नजातं बभूव ह ।तासां मे कुर्वतः पूजां पापा मतिरजायत ॥८१॥अखिलं तीक्ष्णलोहेन तासामङ्गं विशीर्य च ।उल्लेखनञ्च रत्नानां नेत्रादिभ्यः कृतं मया ॥८२॥तथाकृतान्यथाङ्गानि प्रतिमानां निरीक्ष्य च ।नेत्राणि च विरत्नानि नृपश्चुक्रोध वह्निवत् ॥८३॥प्रतिजज्ञे नृपः पश्चादेष ब्राह्मणपुङ्गवः ।आभ्यो रत्नं सुवर्णञ्च हृतं येन भविष्यति ॥८४॥ज्ञातश्च स हि मे वध्यो भविष्यति न संशयः ।अहं तत्सकलं ज्ञात्वा रात्रावसिधरो गृहम् ॥८५॥राज्ञः प्रविश्य राजानं पशुमारममारयम् ।गृहीत्वाथ मणीन् स्वर्णं निशीथेऽहं गतोऽन्यतः ॥८६॥व्याघ्रेण महातारण्ये नखटङ्कैर्विटङ्कितः ।लेखनात्प्रतिमाया यन्मया लोहेन कर्तितम् ॥८७॥एतस्मात्पातकात्प्रेतो लेखको नामतोऽस्म्यहम् ।आसीन्नरकभोगान्ते नः प्रेतत्वमिदं द्विज ॥८८॥ब्राह्मण उवाच ।संज्ञास्तादृश्य आख्याता यथैता भवता दशाः ।वदन्त्वाचारमात्रं मे प्रेता आहारमप्युत ॥८९॥प्रेता ऊचुः ।वेदमार्गानुसरणं लज्जा धर्मो दमः क्षमा ।धृतिर्ज्ञानं नैव यत्र वयं तत्र वसामहे ॥९०॥तस्य पीडां वपं कुर्मो नैव श्राद्धं न तर्पणम् ।यस्य गेहे तदङ्गात्तु मांसञ्च रुधिरं क्रमात् ॥९१॥जक्षामश्च पिबामश्च उक्त आचार एष नः ।शृणु चाहारमस्माकं सर्वलोकविगर्हितम् ॥९२॥दृष्टस्त्वया च किञ्चिद्वै ब्रूमोज्ञातं त्वयानघ ।वमनं विडू दूषिका च श्लेष्मा मूत्राश्रुणी तथा ॥९३॥एतद्भक्ष्यञ्च पानञ्च मा पृच्छातः परं द्विज ।लज्जा नो जायते स्वामिन्नाहारं वदतां स्वकम् ॥९४॥अज्ञानास्तामसा मन्दा कान्दिशीका वयं विभो ।अकस्माज्जन्मनां विप्र स्मृतिः प्राप्ता तु पौर्विकी ॥९५॥विनीतत्वाविनीतत्वे जानीमो नैव नः प्रभो ।श्रीकृष्ण उवाच ।एवं वदत्सु प्रेतेषु तथा श्रुतवति द्विजे ॥९६॥अदर्शयमहं रूपं तदा तार्क्ष्येदमेव वै ।स तु दृष्ट्वा द्विजश्रेष्ठो हृद्गतं पुरुषं पुरः ॥९७॥स्तोत्रैस्तुष्टाव पक्षीश दण्डवत्प्रणनाम माम् ।तेऽपि तेपुस्ततः प्रेता आश्चर्योत्फुल्लचक्षुषः ॥९८॥प्रणयेन स्खलद्वाचः खग नोचुः किमप्युत ।रजसा गोरचित्तानां तमसा मूढचेतसाम् ।कृपया यः समुद्धारं कुरुषे वै नमोऽस्त ते ॥९९॥एवं द्विजातौ ब्रुवति प्रभू तप्रभैश्च मुख्यांबरचारियुक्तैः ।तदा मदिच्छाप्रभवैर्विमानैः षड्भिः समन्ताद्रुरुचे गिरिः सः ॥१००॥इत्थं विमानेन मदीयलोकं गतो द्विजरसोऽप्यथ पञ्चमिस्तैः ।प्रेता ययुः स्वर्गमगण्यपुण्यं सत्सङ्गसंसर्गवशात्सुपर्णम् ॥१०१॥प्रेताः संगवशेन नाकमवन्सन्तप्तको ब्राह्मणो विष्वक्सन इति प्रसिद्धविभवो नाम्ना गणे मेऽभवत् ।एतत्ते सकलं मया निगादितं यश्चैतदुत्कीर्तयेद्यश्चेदं शृणुयान्न सोऽपि पुरुषः प्रेतत्वमाप्नोति हि ॥१०२॥इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे प्रेतकल्पे पञ्चप्रेतोपाख्यानं नाम सप्तमोऽद्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP