प्रेतकाण्डः - अध्यायः २०
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
गरुड उवाच ।
ये केचित्प्रेतरूपेण कुत्र वासं लभन्ति ते ।
प्रेतलोकाद्विनिर्मुक्ताः कथं कुत्र व्रजन्ति ते ॥१॥
चतुर्युक्ताशीति लक्षैर्नरकैः पर्युपासिताः ।
यमेन रक्षितास्तत्र भूतैश्चैव सहस्रशः ॥२॥
विचरन्ति कथं लोके नरकाच्च विनिर्गताः ।
गरुडोदीरितं श्रुत्वा लक्ष्मीनाथोऽब्रवीदिदम् ॥३॥
श्रीकृष्ण उवाच ।
पक्षिराज शृणुष्व त्वं यत्र प्रेताश्चरन्ति वै ।
परार्थदारग्रहणाच्छ (ब) लाद्द्रोहान्निशाचराः ॥४॥
तथैव सर्वपापिष्ठः स्वात्मजान्वेषणे रताः ।
विचरन्त्यशरीरास्ते क्षुप्तिपासार्दिता भृशम् ॥५॥
बन्दीगृहवि निर्मुक्ता येभ्यो नश्यन्ति जन्तवः ।
ते व्यवस्यन्ति च प्रेता वधोपायं च बन्धुषु ॥६॥
पितृद्वदाराणि रुन्धन्ति तन्मार्गोच्छेदकास्तथा ।
पितृभा गान्विगृह्णन्ति पान्थेभ्यस्तस्करा इव ॥७॥
स्वं वेश्म पुनरागत्य मित्रस्थाने विशन्ति ते ।
तत्र स्थिता निरीक्षन्ते रोगशोकादिबन्धनाः ॥८॥
पीडयन्ति ज्वरीभूय एकान्तरमिषेण तु ।
तृतीयकज्वरा भूत्वा शीतवातादिपीडया ॥९॥
अन्यांश्च विविधान्रोगाञ्छिरोऽर्तिं च विषूचिकाम् ।
चिन्त यन्ति सदा तेषामुच्छिष्टादिस्थलस्थिताः ॥१०॥
आत्मजानां छलाल्लोका भूतसङ्घैश्च रक्षिताः ।
पिबन्ति ते च पानीयं भोजनोच्छिष्टयोजितम् ॥११॥
एवं प्रेताः प्रवर्तन्ते नानादोषैर्विकर्मिणः ॥१२॥
गरुड उवाच ।
कथं कुर्वन्ति ते प्रेताः केन रूपेण कस्य किम् ।
ज्ञायते केन विधिना जल्पन्ति न वदन्ति वा ॥१३॥
एनं छिन्धि मनोमोहं मम चेदिच्छसि प्रियम् ।
कलिकाले हृषीकेश प्रेतत्वं जायते बहु ॥१४॥
श्रीविष्णुरुवाच ।
स्वकुलं पीडयेत्पेतः परच्छिद्रेण पीडयेत् ।
जीवन्स दृश्यते स्नेही मृतो दुष्टत्वमाप्नुयात् ॥१५॥
रुद्रजापी धर्मरतो देवतातिथिपूजकः ।
सत्यवाक्प्रियवादी च न प्रेतैः स हि पीड्यते ॥१६॥
सर्वक्रियापरिभ्रष्टो नास्तिको धर्मनिन्दकः ।
असत्यवादनिरतो नरः प्रेतैः स पीड्यते ।
कलौ प्रेतत्वमाप्नोति तार्क्ष्याशुद्धक्रियापरः ॥१७॥
कृतादौ द्वापरान्ते च न प्रेतो नैव पीडनम् ।
बहूनामेकजातानामेकः सौख्यं समश्नुते ॥१८॥
एको दुष्कृतकर्मा च एकः सन्ततिमाञ्जनः ।
एकः सम्पीड्यते प्रेतैरेकः सुतधनान्वितः ॥१९॥
एकस्य पुत्रनाशः स्यादेको दुहितृमान् भवेत् ।
विरोधो बन्धुभिः सार्धं प्रेतदोषेण काश्यप ॥२०॥
सन्ततिर्दृश्यते नैव समुत्पन्ना विनश्यति ।
पशुद्रव्यविनाशश्च सा पीडा प्रेतसम्भवा ॥२१॥
प्रकृतेः परिवर्तः स्याद्विद्वेषः सह बन्धुभिः ।
अकस्माद्व्यसनप्राप्तिः सा पीडा प्रेतसम्भवा ॥२२॥
नास्तिक्यं वृत्तिलोपश्च महालोभस्तथैव च ।
स्याद्धन्तकलहो नित्यं सा पीडा प्रेतसम्भवा ॥२३॥
पितृमातृनिहन्ता च देवब्राह्मणनिन्दकः ।
इत्यादोषमवाप्नोति सा पीडा प्रेतसम्भवा ॥२४॥
नित्यकर्मविनिंमुक्तो जपहोमविवर्जितः ।
परद्रव्याणां च हर्ता सा पीडा प्रेतसम्भवा ॥२५॥
सुवृष्टौ कृषिनाशश्च व्यवहारो विनश्यति ।
लोके कलहकारी च सा पीडा प्रेतसम्भवा ॥२६॥
मार्गे जङ्गम्यमानं तं पीडयेद्वातमण्डली ।
प्रेतपीडा तु सा ज्ञेया सत्यंसत्यं खगेश्वर ॥२७॥
हीनजात्या च सम्बन्धो हीनकर्म करोति यः ।
अधर्मे रमते नित्यं सा पीडा प्रेतसम्भवा ॥२८॥
व्यसनैर्द्रव्यनाशः स्यादुपक्रान्तं विनश्यति ।
चौराग्निराजभिर्हानिः सा पीडा प्रेतसम्भवा ॥२९॥
महारोगोपलब्धिश्च बालकानां च पीडनम् ।
जाया संपीढ्यते यच्च सा पीडा प्रेतसम्भवा ॥३०॥
श्रुतिस्मृतिपुराणेषु धर्मशास्त्रसमुद्भवे ।
अभावो जायते धर्मे सा पीडा प्रेतसम्भवा ॥३१॥
देवतीर्थद्विजानां तु निन्दांयः कुरुते नरः ।
प्रत्यक्षं वा परोक्षं वा सा पीडा प्रेतसम्भवा ॥३२॥
स्ववृत्तिहरणं यच्च स्वप्रतिष्ठाहतिस्तथा ।
वंशच्छेदः नदृश्येत प्रेतदोषाद्विनान्यथा ॥३३॥
स्त्रीणां गर्भविनाशः स्यान्न पुष्पं दृश्यते तथा ।
बालानां मरणं यत्र सा पीडा प्रेतसम्भवा ॥३४॥
भावशुद्ध्या न कुरुते श्राद्धं सांवत्सरादिकम् ।
स्वयमेव न कुर्वीत सा पीडा प्रेतसम्भवा ॥३५॥
तीर्थे गत्त्वा परासक्तः स्वकृत्यं च परित्यजेत् ।
धर्मकार्ये न सम्पत्तिः सा पीडा प्रेतसम्भवा ॥३६॥
दम्पत्योः कलहश्चैव भोजने कोपसंयुतः ।
परद्रोहे मतिश्चैव सा पीडा प्रेतसंभवा ॥३७॥
पुष्पं यत्र न दृश्येन फलं तथा ।
विरहो भार्यया यत्र सा पीडा प्रेतसग्भवा ॥३८॥
येषां वै जायते चिह्नं सदोच्चाटपरं नृणाम् ।
स्वक्षेत्रे निष्फलं तेजः सा पीडा प्रेतसम्भवा ॥३९॥
स्वगोत्रघातकश्चैव हन्ति शत्रुमिवात्मजम् ।
न प्रीतिर्नापि सौख्यं च सा पीडा प्रेतसम्भवा ॥४०॥
पितृवाक्यं न कुरुते स्वपत्नीं च न सेवते ।
सदा क्रूरमतिर्व्यग्रः सा पीडा प्रेतसम्भवा ॥४१॥
विकर्मा जायते प्रेतो ह्यविधिक्रियया तथा ।
तत्कालदुष्टसंसर्गाद्वृषोत्सर्गादृते तथा ॥४२॥
दृष्टगृत्युवशाद्वापि अदग्धवपुषस्तथा ।
प्रेतत्वं जायते तार्क्ष्य पीड्यन्ते येन जन्तवः ॥४३॥
एवं ज्ञात्वा खगश्रेष्ठ प्रेतमुक्तिं समाचरेत् ।
यो वै न मन्यते प्रेतान्मृतः प्रेतत्वमाप्नुयात् ॥४४॥
प्रेतदोषः कुले यस्य सुखं तस्य न विद्यते ।
मतिः प्रीती रतिर्बुद्धिर्लक्ष्मीः पञ्चविनाशनम् ॥४५॥
तृतीये पञ्चमे पुंसि वंशच्छेदो हि जायते ।
दरिद्रो निर्धनश्चैव पापकर्मा भवेभवे ॥४६॥
ये केचित्पेतरूपा विकृतमुखदृशो रौद्ररूपाः कराला मन्यन्ते नैव गोत्रं सुतदुहितृपितॄन् भ्रातृजायां वधूं वा ।
कृत्वा काम्यं च रूपं सुखगतिरहिता भाषमाणा यथेष्टं हा कष्टं भोक्तुकामा विधिवशपतिताः संस्मरन्ति स्वपाकम् ॥४७॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रतकल्पे श्रीकृष्णगरुडसंवादे प्रेतावासतद्बाधाप्रकारनिरूपणं नाम विंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP