मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीरामकृष्णगुरुदेवनिबद्ध...

श्रीशारदाकुसुमाञ्जलि - श्रीरामकृष्णगुरुदेवनिबद्ध...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

श्रीरामकृष्णगुरुदेवनिबद्धभावा
श्रीरामकृष्णपरिपूजितपादपद्मा ।
श्रीदक्षिणेश्वरगता भवतारिणी सा
श्रीशारदा विजयते जगदेकमाता ॥१॥
श्वेताम्बरावृतविशुद्धमनोज्ञगात्रीं
शान्तप्रसन्नवदनां करुणार्द्रनेत्राम् ।
ध्यायामि तां हृदयपद्मसुखासनस्थां
श्रीशारदां परमहंसमहाविभूतिम् ॥२॥
अम्ब प्रसीद भुवनेश्वरि मातृदेवि,
त्वामप्रमेयमहिमार्जितविश्वपूजाम् ।
क्षान्त्याधरीकृतधरां सरलान्तरङ्गां
निश्शेषदुःखशमनीं शरणं प्रपद्ये ॥३॥
विद्याविवादजटिलत्वविहीनभावा
स्वात्मानुभूतिमधुरा सततं प्रसन्ना ।
आनन्दरूपिणि पदाब्जसमाश्रितानां
शान्तिप्रदा विजयसे ललिताम्बिकेत्वम् ॥४॥
योगेश्वरेश्वरमहागुरुधर्मपत्नि,
सर्वार्थदे सकलशक्त्यवताररूपे ।
आर्तप्रपन्नपरिपालनबद्धदीक्षे
श्रीशारदाम्ब जगदम्ब नमो नमस्ते ॥५॥
दिव्यानुभूतिमुदितौ पितरौ विधाय
त्वं लब्धवत्यसि विशिष्टनवावतारम् ।
येन प्रसिद्धिमभजत्किल धर्मवाटी
वङ्गेषु मङ्गलतमा जयरामवाटी ॥६॥
ध्यानं जपं च परिपूजनमम्ब,
बाललीलासु तत्परतयैव चकर्थ नित्यम् ।
अध्यात्मजीवितमनन्तरभावि मन्ये
धन्या विशुद्धहृदया समसूचयस्त्वम् ॥७॥
बाला वधूस्त्वमयि केवलपञ्चवर्षा
प्रौढो युवा ननु वरः स तु रामकृष्णः ।
हंहो विरक्तहृदयश्च भवद्विवाहो
जातस्तथापि च परस्परभावबद्धः ॥८॥
श्रीशारदापरमहंसविशुद्धदिव्य-
दाम्पत्यमद्भुततमप्रणयप्रभावम् ।
विश्वोपदेशजननं जयतात् गुरुभ्या-
माभ्यां नमोऽस्तु सततं जगतः पितृभ्याम् ॥९॥
काले गते च युवती भवती जगाम
श्रीदक्षिणेश्वरमनुप्रियवासभूमिम् ।
आध्यात्मभौतिकसमन्वयशिक्षणेन
रेमे च तद्गुरुदयाशिशिरान्तरङ्गा ॥१०॥
श्रीशारदाम्ब निगमादृत भर्तृसेवा
लब्धावकाशमुदिता विजहौ विषादम्
अध्यात्मभौतिकसमन्वयशिक्षणेन
रेमे च तद्गुरुदयाशिशिरान्तरङ्गा ॥११॥
त्वं तत्र पुण्यचरिता निगृहीतचित्ता
श्रीरामकृष्णचरणार्पितसर्वभावा ।
आनन्दिता विविधसेवनमाचरन्ती
पूर्णामवापिथ कृतार्थतमामवस्थाम् ॥१२॥
नानाविधेषु कठिनेषु परीक्षणेषु
हे देवि लब्धविजया विनयावनम्रा ।
सम्मनिता गुरुवरेण समस्तभक्त-
वृन्देन पूजितपदा सुतरां चकासे ॥१३॥
त्वं षोडशीमहितपूजनमात्मनाथ-
योगेश्वरेण विहितं परिगृह्य शान्ता ।
सुव्यक्तशक्तिभरितामलचित्तपद्मा
धन्या बभूविथ जगद्गुरुधर्मपत्नी ॥१४॥
शुश्रूषया परमहंसगुरोस्तदीय-
दिव्योपदेशमननेन च पूर्णबोधा ।
भक्तावलीपरिनिषेवितपादपद्मा
त्वं शोभसे स्म जनपावनि मातृदेवि ॥१५॥
वन्ये च तस्करपतेः पथि सौम्यभाव-
मापाद्य वन्द्यपितृभावमुपादधाने ।
स्नेहात्मिके सकलमानसहंसि देवि
तुभ्यं नमः पतितपावनि हे भवानि ॥१६॥
हे मातृदेवि गुरुदेवमहासमाधे-
रर्वागनन्यहृदया तमनुस्मरन्ती ।
तद्दिव्यदर्शननिरस्तसमस्तशङ्का
संप्रापिथ प्रथितनित्यसुमङ्गलीत्वम् ॥१७॥
तीर्थाटनेन सुसमाहितचित्तवृत्ति-
रातन्वती हृदयनाथनिदेशमात्रम् ।
स्त्रीधर्मसुस्थिरधिया पतिगेहमेत्य
क्लेशेन वस्तुमुपचक्रमिषे त्वमेका ॥१८॥
दारिद्र्यमुत्कटमसज्जनदुर्विमर्श-
मन्यच्च पीडनमहो भवती विषेहे ।
श्रीरामकृष्णभजने जपपूजनादौ
निष्ठान्ववर्धत दिनंप्रति निर्विशङ्कम् ॥१९॥
धीरा जिगाय परुषाग्निपरीक्षणेऽस्मि-
न्नात्मेश्वरार्पितविशुद्धदृढान्तरङ्गा ।
क्षीणापि दिव्यतनुकान्तिरशेषपूज्या
संरेजिषे प्रतिपदीव शशाङ्कलेखा ॥२०॥
ज्ञात्वैतदम्ब, सहसा गुरुदेवशिष्यै-
रत्यन्तभक्तिविनयावनतान्तरङ्गैः ।
संपूजिता सुविहिताखिलकार्यजाता
सस्मर्थ हन्त गुरुदेवदयामनन्ताम् ॥२१॥
अम्ब प्रसूतिकठिनव्यथया विनैव
लब्ध्वा विनीतहृदयांस्तनयाननेकान् ।
प्रेमप्रकर्षलहरीतरलान्तरङ्गा
त्वं देवि सस्मरिथ भर्तृगिरं सहर्षम् ॥२२॥
मातस्तदाप्रभृति विश्रुतकालिघट्टं
त्वं पावनीमपि मुदा जयरामवाटीम् ।
श्रीरामकृष्णचरणस्मरणे निमग्ना
सद्भक्तपूजितपदा चिरमध्यवात्सीः ॥२३॥
योगत्रयेश्वरि विशुद्धविबोधरूपे
मन्त्रोपदेशमखिलं गुरुदेवदत्तम् ।
कारुण्यपूर्णहृदया ददिथ प्रपन्न-
लोकाय हे पतितपावनि मातृदेवि ॥२४॥
आध्यात्मिकोन्नततले विहरन्त्यथापि
गृह्यं च बन्धमधृथा ननु चित्रमेतत् ।
यद्वा तवैतदुचितं खलु रामकृष्ण-
देवस्य धर्मगृहिणी भवती विशुद्धा ॥२५॥
श्रीशारदाम्ब भवती निजजीवितेन
वैचित्र्यबन्धुरतमेन विशुद्धिभाजा ।
पूर्णप्रभावमखिलेश्वरि भारतीय-
स्त्रीत्वस्य दर्शितवती महिते नमस्ते ॥२६॥
ध्यायामि त्वां दधानां जगदतिसुभगं स्थूलरूपं विचित्रं
चैतन्यं चापि सूक्ष्मं वपुरखिलपदार्थेषु नित्यं निगूढम् ।
चिल्लीलानित्यतृप्तां प्रणतजनमनोदर्पणोद्भासिरूपां
देवीं श्रीशारदाम्बां जय जननि नमस्ते नमस्ते नमस्ते ॥२७॥
समर्पणम्
श्री शारदाम्ब महिते तव सन्निधाने
’तारावलीय’मयि
देवि समर्प्यमाणा ।
हे विश्वरूपिणि तवास्तु विनीतशुद्ध
नीराजनं च ललितं शिवदे नमस्ते॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP