मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ॐ श्रीं सौं शरवणभवाय नमः ...

सुब्रह्मण्यत्रिशतीनामावलिः - ॐ श्रीं सौं शरवणभवाय नमः ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


ॐ श्रीं सौं शरवणभवाय नमः । ॐ शरच्चन्द्रायुतप्रभाय नमः । ॐ शशाङ्कशेखरसुताय नमः । ॐ शचीमाङ्गल्यरक्षकाय नमः । ॐ शतायुष्यप्रदात्रे नमः । ॐ शतकोटिरविप्रभाय नमः । ॐ शचीवल्लभसुप्रीताय नमः । ॐ शचीनायकपूजिताय नमः । ॐ शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दिताय नमः । ॐ शचीशार्तिहराय नमः । १० ।
ॐ शम्भवे नमः । ॐ शम्भूपदेशकाय नमः । ॐ शङ्कराय नमः । ॐ शङ्करप्रीताय नमः । ॐ शंयाककुसुमप्रियाय नमः । ॐ शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दिताय नमः । ॐ शचीनाथसुताप्राणनायकाय नमः । ॐ शक्तिपाणिमते नमः । ॐ शङ्खपाणिप्रियाय नमः । ॐ शङ्खोपमषड्गलसुप्रभाय नमः । २० ।
ॐ शङ्खघोषप्रियाय नमः । ॐ शङ्खचक्रशूलादिकायुधाय नमः । ॐ शङ्खधाराभिषेकादिप्रियाय नमः । ॐ शङ्करवल्लभाय नमः । ॐ शब्दब्रह्ममयाय नमः । ॐ शब्दमूलान्तरात्मकाय नमः । ॐ शब्दप्रियाय नमः । ॐ शब्दरूपाय नमः । ॐ शब्दानन्दाय नमः  ॐ शचीस्तुताय नमः । ३० ।
ॐ शतकोटिप्रविस्तारयोजनायतमन्दिराय नमः । ॐ शतकोटिरविप्रख्यरत्नसिंहासनान्विताय नमः । ॐ शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभुवे नमः । ॐ शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकाय नमः । ॐ शतकोटीन्द्रदिक्पालहस्तचामरसेविताय नमः । ॐ शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकाय नमः ।
ॐ शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेविताय नमः । ॐ शङ्खपद्मनिधीनां च कोटिभिः परिसेविताय नमः । ॐ शशाङ्कादित्यकोटीभिःसव्यदक्षिणसेविताय नमः । ॐ शङ्खपालाद्यष्टनागकोटिभिः परिसेविताय नमः । ४० ।
ॐ शशाङ्कारपतङ्गादिग्रहनक्षत्रसेविताय नमः । ॐ शशिभास्करभौमादिग्रहदोषार्तिभञ्जनाय नमः ।
ॐ शतपत्रद्वयकराय नमः । ॐ शतपत्रार्चनप्रियाय नमः । ॐ शतपत्रसमासीनाय नमः । ॐ शतपत्रासनस्तुताय नमः । ॐ शरीरब्रह्ममूलादिषडाधारनिवासकाय नमः । ॐ शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनाय नमः । ॐ शशाङ्कार्धजटाजूटाय नमः । ॐ शरणागतवत्सलाय नमः । ५० ।
ॐ रकाररूपाय नमः । ॐ रमणाय नमः । ॐ राजीवाक्षाय नमः । ॐ रहोगताय नमः । ॐ रतीशकोटिसौन्दर्याय नमः । ॐ रविकोट्युदयप्रभाय नमः । ॐ रागस्वरूपाय नमः । ॐ रागघ्नाय नमः । ॐ रक्ताब्जप्रियाय नमः । ॐ राजराजेश्वरीपुत्राय नमः । ६० ।
ॐ राजेन्द्रविभवप्रदाय नमः । ॐ रत्नप्रभाकिरीटाग्राय नमः । ॐ रविचन्द्राग्निलोचनाय नमः । ॐ रत्नाङ्गदमहाबाहवे नमः । ॐ रत्नताटङ्कभूषणाय नमः । ॐ रत्नकेयूरभूषाढ्याय नमः । ॐ रत्नहारविराजिताय नमः । ॐ रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभिताय नमः । ॐ रवसंयुक्तरत्नाभनूपुराङ्घ्रिसरोरुहाय नमः । ॐ रत्नकङ्कणचूल्यादिसर्वाभरणभूषिताय नमः । ७० ।
ॐ रत्नसिंहासनासीनाय नमः । ॐ रत्नशोभितमन्दिराय नमः । ॐ राकेन्दुमुखषट्काय नमः । ॐ रमावाण्यादिपूजिताय नमः । ॐ राक्षसामरगन्धर्वकोटिकोट्यभिवन्दिताय नमः ।
ॐ रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकाय नमः । ॐ राक्षसानीकसंहारकोपाविष्टायुधान्विताय नमः । ॐ राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधाय नमः । ॐ रवयुक्तधनुर्हस्ताय नमः । ॐ रत्नकुक्कुटधारणाय नमः । ८० ।
ॐ रणरङ्गजयाय नमः । ॐ रामास्तोत्रश्रवणकौतुकाय नमः । ॐ रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दिताय नमः । ॐ रक्तपीताम्बरधराय नमः । ॐ रक्तगन्धानुलेपनाय नमः ।
ॐ रक्तद्वादशपद्माक्षाय नमः । ॐ रक्तमाल्यविभूषिताय नमः । ॐ रविप्रियाय नमः । ॐ रावणेशस्तोत्रसाममनोधराय नमः । ॐ राज्यप्रदाय नमः । ९० । ॐ रन्ध्रगुह्याय नमः ।
ॐ रतिवल्लभसुप्रियाय नमः । ॐ रणानुबन्धनिर्मुक्ताय नमः । ॐ राक्षसानीकनाशकाय नमः । ॐ राजीवसम्भवद्वेषिणे नमः । ॐ राजीवासनपूजिताय नमः । ॐ रमणीयमहाचित्रमयूरारूढसुन्दराय नमः । ॐ रमानाथस्तुताय नमः । ॐ रामाय नमः । ॐ रकाराकर्षणक्रियाय नमः । १०० ।
ॐ वकाररूपाय नमः । ॐ वरदाय नमः । ॐ वज्रशक्त्यभयान्विताय नमः । ॐ वामदेवादिसम्पूज्याय नमः । ॐ वज्रपाणिमनोहराय नमः । ॐ वाणीस्तुताय नमः । ॐ वासवेशाय नमः । ॐ वल्लीकल्याणसुन्दराय नमः । ॐ वल्लीवदनपद्मार्काय नमः । ॐ वल्लीनेत्रोत्पलोडुपाय नमः । ११० ।
ॐ वल्लीद्विनयनानन्दाय नमः । ॐ वल्लीचित्ततटामृताय नमः । ॐ वल्लीकल्पलतावृक्षाय नमः । ॐ वल्लीप्रियमनोहराय नमः । ॐ वल्लीकुमुदहास्येन्दवे नमः । ॐ वल्लीभाषितसुप्रियाय नमः । ॐ वल्लीमनोहृत्सौन्दर्याय नमः । ॐ वल्लीविद्युल्लताघनाय नमः । ॐ वल्लीमङ्गलवेषाढ्याय नमः । ॐ वल्लीमुखवशङ्कराय नमः । १२० ।
ॐ वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकाय नमः । ॐ वल्लीशाय नमः । ॐ वल्लभाय नमः । ॐ वायुसारथये नमः । ॐ वरुणस्तुताय नमः ।
 ॐ वक्रतुण्डानुजाय नमः । ॐ वत्साय नमः । ॐ वत्सलाय नमः । ॐ वत्सरक्षकाय नमः । ॐ वत्सप्रियाय नमः । १३० ।
ॐ वत्सनाथाय नमः । ॐ वत्सवीरगणावृताय नमः । ॐ वारणाननदैत्यघ्नाय नमः । ॐ वातापिघ्नोपदेशकाय नमः । ॐ वर्णगात्रमयूरस्थाय नमः । ॐ वर्णरूपाय नमः ।
ॐ वरप्रभवे नमः । ॐ वर्णस्थाय नमः । ॐ वारणारूढाय नमः । ॐ वज्रशक्त्यायुधप्रियाय नमः । १४० ।
ॐ वामाङ्गाय नमः । ॐ वामनयनाय नमः । ॐ वचद्भुवे नमः । ॐ वामनप्रियाय नमः । ॐ वरवेषधराय नमः । ॐ वामाय नमः । ॐ वाचस्पतिसमर्चिताय नमः ।
ॐ वसिष्ठादिमुनिश्रेष्ठवन्दिताय नमः । ॐ वन्दनप्रियाय नमः । ॐ वकारनृपदेवस्त्रीचोरभूतारिमोहनाय नमः । १५० ।
ॐ णकाररूपाय नमः । ॐ नादान्ताय नमः । ॐ नारदादिमुनिस्तुताय नमः । ॐ णकारपीठमध्यस्थाय नमः । ॐ नगभेदिने नमः । ॐ नगेश्वराय नमः । ॐ णकारनादसन्तुष्टाय नमः । ॐ नागाशनरथस्थिताय नमः । ॐ णकारजपसुप्रीताय नमः । ॐ नानावेषाय नमः । १६० ।
ॐ नगप्रियाय नमः । ॐ णकारबिन्दुनिलयाय नमः । ॐ नवग्रहसुरूपकाय नमः । ॐ णकारपठनानन्दाय नमः । ॐ नन्दिकेश्वरवन्दिताय नमः । ॐ णकारघण्टानिनदाय नमः । ॐ नारायणमनोहराय नमः । ॐ णकारनादश्रवणाय नमः । ॐ नलिनोद्भवशिक्षकाय नमः । ॐ णकारपङ्कजादित्याय नमः । १७० ।
ॐ नववीराधिनायकाय नमः । ॐ णकारपुष्पभ्रमराय नमः । ॐ नवरत्नविभूषणाय नमः । ॐ णकारानर्घशयनाय नमः । ॐ नवशक्तिसमावृताय नमः । ॐ णकारवृक्षकुसुमाय नमः । ॐ नाट्यसङ्गीतसुप्रियाय नमः । ॐ णकारबिन्दुनादज्ञाय नमः । ॐ नयज्ञाय नमः । ॐ नयनोद्भवाय नमः । १८० ।
ॐ णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणये नमः । ॐ णकारपेटकमणये नमः । ॐ नागपर्वतमन्दिराय नमः । ॐ णकारकरुणानन्दाय नमः । ॐ नादात्मने नमः । ॐ नागभूषणाय नमः । ॐ णकारकिङ्किणीभूषाय नमः । ॐ नयनादृश्यदर्शनाय नमः । ॐ णकारवृषभावासाय नमः । ॐ नामपारायणप्रियाय नमः । १९० ।
ॐ णकारकमलारूढाय नमः । ॐ नामानतसमन्विताय नमः । ॐ णकारतुरगारूढाय नमः । ॐ नवरत्नादिदायकाय नमः । ॐ णकारमकुटज्वालामणये नमः । ॐ नवनिधिप्रदाय नमः । ॐ णकारमूलमन्त्रार्थाय नमः । ॐ नवसिद्धादिपूजिताय नमः । ॐ णकारमूलनादान्ताय नमः । ॐ णकारस्तम्भनक्रियाय नमः । २०० ।
ॐ भकाररूपाय नमः । ॐ भक्तार्थाय नमः । ॐ भवाय नमः । ॐ भर्गाय नमः । ॐ भयापहाय नमः । ॐ भक्तप्रियाय नमः । ॐ भक्तवन्द्याय नमः । ॐ भगवते नमः । ॐ भक्तवत्सलाय नमः । ॐ भक्तार्तिभञ्जनाय नमः । २१० ।
ॐ भद्राय नमः । ॐ भक्तसौभाग्यदायकाय नमः । ॐ भक्तमङ्गलदात्रे नमः । ॐ भक्तकल्याणदर्शनाय नमः । ॐ भक्तदर्शनसन्तुष्टाय नमः । ॐ भक्तसङ्घसुपूजिताय नमः ।
ॐ भक्तस्तोत्रप्रियानन्दाय नमः । ॐ भक्ताभीष्टप्रदायकाय नमः । ॐ भक्तसम्पूर्णफलदाय नमः । ॐ भक्तसांराज्यभोगदाय नमः । २२० ।
ॐ भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदाय नमः । ॐ भवौषधये नमः । ॐ भवघ्नाय नमः । ॐ भवाअरण्यदवानलाय नमः । ॐ भवान्धकारमार्ताण्डाय नमः । ॐ भववैद्याय नमः । ॐ भवायुधाय नमः । ॐ भवशैलमहावज्राय नमः । ॐ भवसागरनाविकाय नमः  ॐ भवमृत्युभयध्वंसिने नमः । २३० ।
ॐ भावनातीतविग्रहाय नमः । ॐ भयभूतपिशाचघ्नाय नमः । ॐ भास्वराय नमः । ॐ भारतीप्रियाय नमः । ॐ भाषितध्वनिमूलान्ताय नमः । ॐ भावाभावविवर्जिताय नमः ।
ॐ भानुकोपपितृध्वंसिने नमः । ॐ भारतीशोपदेशकाय नमः । ॐ भार्गवीनायकश्रीमद्भागिनेयाय नमः । ॐ भवोद्भवाय नमः । २४० ।
ॐ भारक्रौञ्चासुरद्वेषाय नमः । ॐ भार्गवीनाथवल्लभाय नमः । ॐ भटवीरनमस्कृत्याय नमः । ॐ भटवीरसमावृताय नमः । ॐ भटतारागणोड्वीशाय नमः । ॐ भटवीरगणस्तुताय नमः । ॐ भागीरथेयाय नमः । ॐ भाषार्थाय नमः । ॐ भावनाशबरीप्रियाय नमः ।      ॐ भकारे कलिचोरारिभूताद्युच्चाटनोद्यताय नमः । २५० ।
ॐ वकारसुकलासंस्थाय नमः । ॐ वरिष्ठाय नमः । ॐ वसुदायकाय नमः । ॐ वकारकुमुदेन्दवे नमः । ॐ वकाराब्धिसुधामयाय नमः । ॐ वकारामृतमाधुर्याय नमः ।
ॐ वकारामृतदायकाय नमः । ॐ वज्राभीतिदक्षहस्ताय नमः । ॐ वामे शक्तिवरान्विताय नमः । ॐ वकारोदधिपूर्णेन्दवे नमः । २६० ।
ॐ वकारोदधिमौक्तिकाय नमः । ॐ वकारमेघसलिलाय नमः । ॐ वासवात्मजरक्षकाय नमः । ॐ वकारफलसारज्ञाय नमः । ॐ वकारकलशामृताय नमः । ॐ वकारपङ्कजरसाय नमः । ॐ वसवे नमः । ॐ वंशविवर्धनाय नमः । ॐ वकारदिव्यकमलभ्रमराय नमः । ॐ वायुवन्दिताय नमः । २७० ।
ॐ वकारशशिसङ्काशाय नमः । ॐ वज्रपाणिसुताप्रियाय नमः । ॐ वकारपुष्पसद्गन्धाय नमः । ॐ वकारतटपङ्कजाय नमः । ॐ वकारभ्रमरध्वानाय नमः । ॐ वयस्तेजोबलप्रदाय नमः । ॐ वकारवनितानाथाय नमः । ॐ वश्याद्यष्टक्रियाप्रदाय नमः । ॐ वकारफलसत्काराय नमः । ॐ वकाराज्यहुताशनाय नमः । २८० ।
ॐ वर्चस्विने नमः । ॐ वाङ्मनोऽतीताय नमः । ॐ वाताप्यरिकृतप्रियाय नमः । ॐ वकारवटमूलस्थाय नमः । ॐ वकारजलधेस्तटाय नमः । ॐ वकारगङ्गावेगाब्धये नमः ।
ॐ वज्रमाणिक्यभूषणाय नमः । ॐ वातरोगहराय नमः । ॐ वाणीगीतश्रवणकौतुकाय नमः । ॐ वकारमकरारूढाय नमः । २९० । ॐ वकारजलधेः पतये नमः । ॐ वकारामलमन्त्रार्थाय नमः । ॐ वकारगृहमङ्गलाय नमः । ॐ वकारस्वर्गमाहेन्द्राय नमः । ॐ वकारारण्यवारणाय नमः । ॐ वकारपञ्जरशुकाय नमः । ॐ वलारितनयास्तुताय नमः । ॐ वकारमन्त्रमलयसानुमन्मन्दमारुताय नमः । ॐ वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनाय नमः । ॐ वज्रहस्तसुतावल्लीवामदक्षिणसेविताय नमः । ३०० ।
ॐ वकुलोत्पलकादम्बपुष्पदामस्वलङ्कृताय नमः । ॐ वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहाय नमः । ॐ वासनागन्धलिप्ताङ्गाय नमः । ॐ वषट्काराय नमः । ॐ वशीकराय नमः । ॐ वासनायुक्तताम्बूलपूरिताननसुन्दराय नमः । ॐ वल्लभानाथसुप्रीताय नमः । ॐ वरपूर्णामृतोदधये नमः । ३०८ ।

N/A

References :
Encoded and proofread by KSR Ramachandran kalksr

Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP