मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ओङ्कार-नगरस्थं तं निगमान्...

गुहपञ्चरत्नम् - ओङ्कार-नगरस्थं तं निगमान्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


ओङ्कार-नगरस्थं तं निगमान्त-वनेश्वरम् । नित्यमेकं शिवं शान्तं वन्दे गुहं उमासुतम् ॥१॥

वाचामगोचरं स्कन्दं चिदुद्यान-विहारिणम् । गुरुमूर्तिं महेशानं वन्दे गुहं उमासुतम् ॥२॥

सच्चिदनन्दरूपेशं संसार-ध्वान्त-दीपकम् । (ॐ श्री) सुब्रह्मण्यं अनाद्यन्तं वन्दे गुहं उमासुतम् ॥३॥

स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम् । निष्कलङ्कं गुणातीतं वन्दे गुहं उमासुतम् ॥४॥

निराकारं निराधारं निर्विकारं निरामयम् । निर्द्वन्द्वं च निरालम्बं वन्दे गुहं उमासुतम् ॥५॥

॥इति गुहपञ्चरत्नम् ॥

N/A

References :
Encoded and proofread by N.Balasubramanian bbalu

Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP