मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ॐ सौं शरवणभवः शरच्चन्द्रा...

सुब्रह्मण्यत्रिशतीस्तोत्रम् - ॐ सौं शरवणभवः शरच्चन्द्रा...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


ॐ सौं शरवणभवः शरच्चन्द्रायुतप्रभः ।शशाङ्कशेखरसुतः शचीमाङ्गल्यरक्षकः ॥१॥
शतायुष्यप्रदाता च शतकोटिरविप्रभः । शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥२॥
शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः । शचीशार्तिहरश्चैव शम्भुः शम्भूपदेशकः ॥३॥
शङ्करः शङ्करप्रीतः शंयाककुसुमप्रियः  शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः ॥४॥
शचीनाथसुताप्राणनायकः शक्तिपाणिमान् । शङ्खपाणिप्रियः शङ्खोपमषड्गलसुप्रभः ॥५॥
शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः । शङ्खधाराभिषेकादिप्रियः शङ्करवल्लभः ॥६॥
शब्दब्रह्ममयश्चैव शब्दमूलान्तरात्मकः । शब्दप्रियः शब्दरूपः शब्दानन्दः शचीस्तुतः ॥७॥
शतकोटिप्रविस्तारयोजनायतमन्दिरः । शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥८॥
शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभूः । शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकः ॥९॥
शतकोटीन्द्रदिक्पालहस्तचामरसेवितः । शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकः ॥१०॥
शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेवितः । शङ्खपद्मनिधीनां च कोटिभिः परिसेवितः ॥११॥
शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेवितः । शङ्खपालाद्यष्टनागकोटीभिः परिसेवितः ॥१२॥
शशाङ्कारपतङ्गादिग्रहनक्षत्रसेवितः । शशिभास्करभौमादिग्रहदोषार्तिभञ्जनः ॥१३॥
शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।शतपत्रसमासीनः शतपत्रासनस्तुतः ॥१४॥
शारीरब्रह्ममूलादिषडाधारनिवासकः ।शतपत्रसमुत्पन्नब्रह्मगर्वनिभेदनः॥१५॥
शशाङ्कार्धजटाजूटः शरणागतवत्सलः । रकाररूपो रमणो राजीवाक्षो रहोगतः ॥१६॥
रतीशकोटिसौन्दर्यो रविकोट्युदयप्रभः । रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥१७॥
राजराजेश्वरीपुत्रो राजेन्द्रविभवप्रदः । रत्नप्रभाकिरीटाग्रो रविचन्द्राग्निलोचनः ॥१८॥
रत्नाङ्गदमहाबाहू रत्नताटङ्कभूषणः । रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥१९॥
रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभितः । रवसंयुक्तरत्नाभनूपुराङ्घ्रिसरोरुहः ॥२०॥
रत्नकङ्कणचूल्यादिसर्वाभरणभूषितः । रत्नसिंहासनासीनो रत्नशोभितमन्दिरः ॥२१॥
राकेन्दुमुखषट्कश्च रमावाण्यादिपूजितः । राक्षसामरगन्धर्वकोटिकोट्यभिवन्दितः ॥२२॥
रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकः । राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥२३॥
राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधः । रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥२४॥
रणरङ्गजयो रामास्तोत्रश्रवणकौतुकः । रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दितः ॥२५॥
रक्तपीताम्बरधरो रक्तगन्धानुलेपनः । रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥२६॥
रविप्रियो रावणेशस्तोत्रसाममनोधरः । राज्यप्रदो रन्ध्रगुह्यो रतिवल्लभसुप्रियः ॥२७॥
रणानुबन्धनिर्मुक्तो राक्षसानीकनाशकः । राजीवसम्भवद्वेषी राजीवासनपूजितः ॥२८॥
रमणीयमहाचित्रमयूरारूढसुन्दरः । रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥२९॥
वकाररूपो वरदो वज्रशक्त्यभयान्वितः । वामदेवादिसम्पूज्यो वज्रपाणिमनोहरः ॥३०॥
वाणीस्तुतो वासवेशो वल्लीकल्याणसुन्दरः । वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥३१॥
वल्लीद्विनयनानन्दो वल्लीचित्ततटामृतम् । वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥३२॥
वल्लीकुमुदहास्येन्दुः वल्लीभाषितसुप्रियः । वल्लीमनोहृत्सौन्दर्यो वल्लीविद्युल्लताघनः ॥३३॥
वल्लीमङ्गलवेषाढ्यो वल्लीमुखवशङ्करः । वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकः ॥३४॥
वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः । वक्रतुण्डानुजो वत्सो वत्सलो वत्सरक्षकः ॥३५॥
वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः । वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥३६॥
वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः । वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥३७॥
वामाङ्गो वामनयनो वचद्भूर्व्मनप्रियः । वरवेषधरो वामो वाचस्पतिसमर्चितः ॥३८॥
वसिष्ठादिमुनिश्रेष्ठवन्दितो वन्दनप्रियः । वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥३९॥
णकाररूपो नादान्तो नारदादिमुनिस्तुतः । णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥४०॥
णकारनादसन्तुष्टो नागाशनरथस्थितः । णकारजपसुप्रीतो नानावेषो नगप्रियः ॥४१॥
णकारबिन्दुनिलयो नवग्रहसुरूपकः । णकारपठनानन्दो नन्दिकेश्वरवन्दितः ॥४२॥
णकारघण्टानिनदो नारायणमनोहरः । णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥४३॥
णकारपङ्कजादित्यो नववीराधिनायकः । णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥४४॥
णकारानर्घशयनो नवशक्तिसमावृतः । णकारवृक्षकुसुमो नाट्यसङ्गीतसुप्रियः ॥४५॥
णकारबिन्दुनादज्ञो नयज्ञो नयनोद्भवः । णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणिः ॥४६॥
णकारपेटकमणिर्नागपर्वतमन्दिरः । णकारकरुणानन्दो नादात्मा नागभूषणः ॥४७v
णकारकिङ्किणीभूषो नयनादृश्यदर्शनः । णकारवृषभावासो नामपारायणप्रियः ॥४८॥
णकारकमलारूढो नामानन्तसमन्वितः । णकारतुरगारूढो नवरत्नादिदायकः ॥४९॥
णकारमकुटज्वालामणिर्नवनिधिप्रदः । णकारमूलमन्त्रार्थो नवसिद्धादिपूजितः ॥५०॥
णकारमूलनादान्तो णकारस्तम्भनक्रियः । भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥५१॥
भक्तप्रियो भक्तवन्द्यो भगवान्भक्तवत्सलः । भक्तार्तिभञ्जनो भद्रो भक्तसौभाग्यदायकः ॥५२॥
भक्तमङ्गलदाता च भक्तकल्याणदर्शनः । भक्तदर्शनसन्तुष्टो भक्तसङ्घसुपूजितः ॥५३॥
भक्तस्तोत्रप्रियानन्दो भक्ताभीष्टप्रदायकः । भक्तसम्पूर्णफलदो भक्तसाम्राज्यभोगदः॥५४॥
भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः । भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥५५॥
भवान्धकारमार्ताण्डो  भववैद्यो भवायुधम् । भवशैलमहावज्रो भवसागरनाविकः ॥५६॥
भवमॄत्युभयध्वंसी भावनातीतविग्रहः । भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥५७॥
भाषितध्वनिमूलान्तो भावाभावविवर्जितः । भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥५८॥
भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः । भारक्रौञ्चासुरद्वेषो भार्गवीनाथवल्लभः ॥५९॥
भटवीरनमस्कॄत्यो भटवीरसमावृतः । भटतारागणोड्वीशो भटवीरगणस्तुतः ॥६०॥
भागीरथेयो भाषार्थो भावनाशबरीप्रियः । भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥६१॥
वकारसुकलासंस्थो वरिष्ठो वसुदायकः । वकारकुमुदेन्दुश्च वकाराब्धिसुधामयः ॥६२॥
वकारामृतमाधुर्यो वकारामृतदायकः । वज्राभीतिदक्षहस्तो वामे शक्तिवरान्वितः ॥६३॥
वकारोदधिपूर्णेन्दुःवकारोदधिमौक्तिकम् । वकारमेघसलिलो वासवात्मजरक्षकः ॥६४॥
वकारफलसारज्ञो वकारकलशामृतम् । वकारपङ्कजरसो वसुवंशविवर्धनः ॥६५॥
वकारदिव्यकमलभ्रमरो वायुवन्दितः । वकारशशिसङ्काशो वज्रपाणिसुताप्रियः ॥६६॥
वकारपुष्पसद्गन्धो वकारतटपङ्कजम् । वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥६७॥
वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः । वकारफलसत्कारो वकाराज्यहुताशनः ॥६८॥
वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः । वकारवटमूलस्थो वकारजलधेस्तटः ॥६९॥
वकारगङ्गावेगाब्धिः वज्रमाणिक्यभूषणः । वातरोगहरो वाणीगीतश्रवणकौतुकः ॥७०॥
वकारमकरारूढो वकारजलधेः पतिः । वकारामलमन्त्रार्थो वकारगृहमङ्गलम् ॥७१॥
वकारस्वर्गमाहेन्द्रो वकारारण्यवारणः । वकारपञ्जरशुको वलारितनयास्तुतः ॥७२॥
वकारमन्त्रमलयसानुमन्मन्दमारुतः । वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनः ॥७३॥
वज्रहस्तसुतावल्लीवामदक्षिणसेवितः । वकुलोत्पल्कादम्बपुष्पदामस्वलङ्कृतः ॥७४॥
वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहः । वासनागन्धलिप्ताङ्गो वषट्कारो वशीकरः ॥७५॥
वासनायुक्तताम्बूलपूरिताननसुन्दरः । वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥७६॥
इति

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP