मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
आसेतुशीतगिरिमध्यनिवासलोका...

श्रीशारदाम्बास्तोत्रमालिका - आसेतुशीतगिरिमध्यनिवासलोका...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


आसेतुशीतगिरिमध्यनिवासलोका-
न्स्वस्वाश्रमाद्युचितकर्मनिषक्तचित्तान् ।
श्रीघ्रं विधाय करुणामृतवारिराशे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१॥
हंसादिमस्करिवरार्चितपादपद्मे
हंसाग्र्ययाननिरते मुखनिर्जिताब्जे ।
कंसारिमुख्यसुरनायकपूज्यमाने
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२॥
श्वेताम्बुसंभवनिवासनिषक्तबुद्धे
शीतांशुराजतमहीधरतुल्य वर्णे ।
वाताम्बुमात्रपरितुष्टजनालिसेव्ये
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३॥
क्रव्यादवैरिमुखदेववरेड्यपादे
सुव्याहृतिप्रदपदाम्बुजजातुपाते ।
निर्व्याजपूर्णकरुणामृतजन्मभूमे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥४॥
भक्त्यादिगन्धरहितान्गुरुपादपद्मे
तत्सेवने च सुतरां विनिवृत्तभावान् ।
लोकानवाम्ब परिशुद्धहृदो विधाय
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥५॥
अज्ञातवेदनिचयस्मृतिमुख्यगन्धा-
न्कामार्थमात्रपुरुषार्थधियो मनुष्यान् ।
आम्नायमार्गपथिकांस्तरसा विधाय
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥६॥
देहात्मवादनिरतान्सततं हि मोदा-
त्तत्पालनैकनिरतानपि नीचवृत्त्या ।
किं च स्ववृत्तिविमुखान्परिपालयन्ती
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥७॥
पापाम्बुराशिविनिमज्जनमुह्यमान-
मेनं दुरन्तविषयाशमजास्यवासे ।
लोकं निवार्य तरसा कृपया दुराशां
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥८॥
उद्वेगकालपरितुष्टहृदम्बुजात-
मप्यैहिकादिनिचये स्पृहया विहीनम् ।
भीत्या रुषा च सुतरां रहितं विधाय
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥९॥
आकल्पकालटिनिवासनिबद्धदीक्षा
भूत्वा तथाखिलजगत्यपि धर्मवृद्धिम् ।
प्रापय्य लोकपरिरक्षणमाचरन्ती
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१०॥
भाग्याब्धिपूर्णशरदिन्दुसमूहरूपे
भक्तौघसस्यसितभिन्नपयोदपङ्क्ते ।
वेधोमनोऽम्बुजजनिबालदिवाक्राभे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥११॥
प्राणादिवायुनिचयं विनिरुद्ध्य चेतो
हृत्पङ्कजे चिरतरं तवदिव्यमूर्तेः ।
ध्यानं विभुं रचयितुं प्रविधाय मातः
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१२॥
काणादकापिलमुखेषु समस्तशास्त्रे-
ष्वव्याहतां प्रतिभया सहितां मनीषाम् ।
जात्वप्यकर्णविषयेषु वितीर्य तूर्णं
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१३॥
लक्ष्येऽखिलश्रुतिमहादिमवाक्यपङ्क्तेः
ऋक्षेशगर्वपरिशातनदक्षवक्त्रे ।
यक्षेशपाशिमुखदिक्पतिपूज्यपादे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१४॥
दारात्मजावसथपालनसक्तचित्तां-
स्तत्पालनात्तबहुदुःखततीश्च सोढ्वा ।
स्वप्नेऽपि सौख्यरहितान्परिपाल्य लोका-
ञ्छ्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१५॥
कारुण्यपूर्णनयने कलिकल्मषघ्नि
कन्दर्पवैरिसहजे कमलायताक्षि ।
कस्तूरिकामकरिकाश्रितगण्डभागे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१६॥
नैवापहाय निजधर्ममतीव कष्ट-
कालेऽपि वाणि सुतरां निजधर्मवाञ्छाः ।
भूयासुराशु पुरुषाः कुरु तद्वदम्ब
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१७॥
ईहाविहीनजनसन्ततचिन्त्यमान-
पादारविन्दयुगले प्रणतव्रजाय ।
ईशित्वसिद्धिमुखसिद्धिततिप्रदात्रि
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१८॥
बालारुणाधरविनिर्जितपक्वबिम्बे
चेलावधूतशरदभ्रसनस्तगर्वे ।
लीलाविनिर्मितविचित्रजगत्समूहे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१९॥
भक्तिं वितीर्य सुदृढां तव पादपद्मे
दुःखालयेषु विषयेषु विरक्तिदार्ढ्यम् ।
औत्सुक्यमप्यविरलं निगमान्तपाठे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२० ॥
दूर्वादिमत्तगजसिंहधुरन्धरत्वं
शर्वादिसेवितपदे तरसा वितीर्य ।
दुर्वासनां हृदि गतां तरसा प्रमथ्य
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२१॥
पादाम्बुजप्रणतलोकविचित्रकाव्य-
कर्तृत्वदानचतुरे चतुरास्यजाये ।
कुम्भीन्द्रकुम्भपरिपन्थिकुचे कुमारि
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२२॥
चापल्यनैजजनिभूमिहृदम्बुजातं
पापाम्बुराशिदृढमग्नमपेतपुण्यम् ।
आत्मावबोधविधुरं गुरुभक्तिहीनं
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२३॥
रङ्कोऽपि यत्करुणया प्रभवेत्सुरेशो
मूकोऽपि तद्गुरुमहो वचसा जयेच्च ।
सा त्वं प्रभूतधनवाग्विभवप्रदात्री
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२४॥
अम्बाशु बोधय कृपाभरितैः कटाक्षै-
स्तत्त्वं परं यदवलोकनतो न भूयात् ।
भूयोऽपि जन्म पदनम्रततेः कदाचि-
ञ्छ्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२५॥
कालट्यभिख्यपुरवासिनिबद्धभावे
कालप्रतीपसहजे कलकण्ठकण्ठे ।
कायप्रभाजिततुषारसितांशुशोभे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२६॥
यत्त्वं हि वीक्षणलवेन नतार्भकाणां
संपोषणं प्रकुरुषे जगदम्ब सार्थम् ।
मीनाम्बकत्वमभजद्भवतीह तस्मा-
च्छ्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२७॥
अष्टाङ्गयोगमखिलं तरसोपदिश्य
नीत्वा च मध्यपदवीं सहशक्तिवायुम् ।
चेतश्च धामनि परे दृढमारचय्य
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२८॥
ऐक्यावबोधनकृते प्रणमज्जनानां
वक्त्रे विधुत्वमथ नेत्रयुगे झषत्वम् ।
मध्ये च पञ्चमुखतां परिधारयन्ती
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२९॥
श्रीशंकरार्यकरपङ्कजपूजिताङ्घ्रे
पाशं विभिद्य तरसा भवनामभाजम् ।
साशंसदाहिविषयेऽप्युपभुक्तपूर्वे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३०॥
कीरार्भकप्रविलसत्करपङ्कजाते
स्वाराज्यदानपरितोषितनम्रवृन्दे ।
स्मेरास्यकान्तिपरिधूतसुधांशुबिम्बे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३१॥
कारुण्यसागरनिमग्नहृदम्बुजाते
लावण्यजन्मसदनीकृतनैजदेहे ।
कारुण्यनित्यविहृतेर्निलयाङ्गसौधे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३२॥
श्रीशेशपद्मजमुखामरपूजिताङ्घ्रे
श्रीबोधदाननिरते प्रणमज्जनेभ्यः ।
श्रीकण्ठसोदरि कृपामृतवरिराशे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३३॥
पूर्णानदीतटविहारविलोलचित्ते
तूर्णानतेष्टततिदाननिबद्धदीक्षे ।
चूर्णायिताखिलचिरात्तहृदन्धकारे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३४॥
वैराग्यजन्मनिलयैः परिसेव्यमाने
वैयासकिप्रमुखमौनिजनैर्नितान्तम् ।
सच्चित्सुखात्मकतनो विधिपुण्यराशे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३५॥
यां वेत्तुमिच्छति मखानशनाद्युपायै-
र्लोके द्विजावलिरसौ बहुपुण्यपाकात्
सोपायहीनमपि नैजकृपातिरेका-
च्छ्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३६ ॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP