मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीमदानन्दतीर्थ-भगवत्पाद...

कन्दुकस्तुतिः - श्रीमदानन्दतीर्थ-भगवत्पाद...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीमदानन्दतीर्थ-भगवत्पादाचार्य विनिर्मिता ॥

अंबरगंगा-चुंबित-पादः पदतल-विदलित-गुरुतर-शकटः । कालियनाग-क्ष्वेल-निहन्ता  सरसिज-नवदल-विकसित-नयनः ॥१॥

अंबरगंगा-चुंबित-पादः । पदतल-विदलित-गुरुतर-शकटः । कालियनाग-क्ष्वेल-निहन्ता सरसिज-नवदल-विकसित-नयनः ।
ईक्षणं दर्शनं यस्य शुभं शुभकरं, मुमुक्षूणां मोक्षदं, भोगार्थीनां भोगदं, सर्वसन्देहविच्छेदकारणं, पापिनां पावनं, हृदग्रन्देर्विच्छेदकरं, सर्वकर्माणां क्षपणं,
अविद्यायाश्च निवर्तकं स शुभेक्षणः । "भिद्यते हृदयग्रन्तिः"इत्यादि श्रुतेः ॥ त्वयि रक्षति रक्षकैः किमन्यैः त्वयि चारक्षति रक्षकैः किमन्यैः ।
इति निश्चित धीः श्रयामि नित्यं नृहरे वेगवती तटाश्रयं त्वाम् ॥ मयि प्रसादं मधुरैः कटाक्षैः वंशीनिनादानुचरै-र्विदेहि । त्वयि प्रसन्ने किमिहापरै-र्नः त्वय्यप्रसन्ने किमिहापरै-र्नः ॥

कालघनाली-कर्बुर-कायः शरशत-शकलित-रिपुशत-निवहः । संतत-मस्मान् पातु मुरारिः सततग-समजव-खगपति-निरतः ॥२॥
कालघनाली-कर्बुर-कायः । सततग-समजव-खगपति-निरतः । सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः । छन्दोमयेन गरुडेन समुह्यमानश्चक्रायुधोऽभ्यगम-दाशु यतो गजेन्द्रः । शरशत-शकलित-रिपुशत-निवहः । धनुर्धरः -श्रीमान् रामो महद्धनुर्धारयामासेति धनुर्धरः ॥ संतत-मस्मान् पातु मुरारिः ।

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिता कन्दुकस्तुतिः संपूर्णा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP