संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
नौबन्धतीर्थगताश्रमवर्णनम्

नौबन्धतीर्थगताश्रमवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
तानेतान्‍ शिखरान्पश्य ब्रह्मविष्णु महेश्वरान्‍ ।
नौबन्ध शिखरं यत्तु स एव नृप शंकर: ॥२३१॥
दक्षिणे च हरि: पार्श्वे वामे ब्रह्मा प्रकीर्तित: ।
एतान्‍ हि दृष्टा मुच्यन्ते येपि दुष्कृतिनो नरा: ॥२३२॥
योऽसौ विष्णुपदो नाम क्रमसारे प्रकीर्तित: ।
तस्योदगाश्रंम चक्रे ब्रह्मा देवकर: स्वयम्‍ ॥२३३॥
पश्चार्धे चाश्रमं चक्रे कश्यपो भगवानृपि: ।
यस्मिन्देशे स्थितो विष्णुर्विजयं प्राप्तवांस्तदा ॥२३४॥
तत्राश्रमपदं चक्रे महादेव: स्वयं प्रभु: ।
तस्य चैवापरे भागे हयनन्त: स्वाश्रमं महत्‍ ॥२३५॥
चकार हलभृच्छ्रीमान्‍ वासुदेवमते स्थित: ।
महादेवाश्रमाद्भागे पश्चिमेऽर्क निशाकरौ ॥२३६॥
चक्रतु: स्वाश्चमौ पुण्यौ सुरम्यौ देव पूजितौ ।
पादेन योजने गत्वा महादेवाश्चमाध्दरि: ॥२३७॥
आत्मनश्चाश्रमं चक्रे नरसिंहेति विश्रुतम्‍ ।
अन्ये च देवा: सरसि वितोयेऽथ पृथक्‍ पृथक्‍ ॥२३८॥
चक्र: स्वस्याश्रमं तत्र मुनयश्च तपोधना: ।
आश्रमानि तथा नद्यश्चक्रस्तीर्थान्येनकश: ॥२३९॥
गन्धर्वाप्सरसो यज्ञा: शैलेन्द्राश्च सगुह्यका: ॥२४०॥
कृतालयौ तत्र जगत्प्रवर्या वप्रेन्द्ररुद्रौ सह पद्मजेन ।
कृतालयं तत्र ज त्समग्रं देशोऽयमस्ति परम: पवित्र: ॥२४१॥
इति नीलमते नौबन्धतीर्थगताश्रमवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP