संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वरुणपश्चमीवर्णनम्

वरुणपश्चमीवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
मासे भाद्रे सित पक्षे या चतुर्थी व्दिजोत्तम ॥८८८॥
शिवाख्यासौ विनिर्दिष्टा शिवलोकफलप्रदा ।
तस्यां विशेषतो देयं ब्राह्मणानां सुभोजनम्‍ ॥८८९॥
गणेशप्रीतये चापि मोदका: स्वर्णभूषिता: ।
तस्यां दानं तथा स्रानं जपपाठादिकं तथा ॥८९०॥
विधेयं धनमिच्छद्भिर्धनदाख्येयमोरिता ।
ध्रुवेयं कथिता विप्र चतुर्थीष्वखिलास्वपि ॥८९१॥
गणेशपूजनाद्भक्त्या शुभाप्तिर्नात्र संशय: ।
अत्र चन्द्रं न पश्येत रात्रौ धीमान्‍ कथंचन ॥८९२॥
मिथ्याभिशस्तिदोषेण विशेषाच जलस्थितम्‍ ।
प्रमाददृष्टौ च सुधी.......... तिष्यके ॥८९३॥
महीभारावतारार्थं भगवान्‍ संभविष्यति ।
तस्य मिथ्याभिशस्तौ च निष्कृतिरुदिता किल ॥८९४॥
तमिमं च पठेच्छ्‍लोकं मिथ्यादोषप्रशान्तये ।
सिंह: प्रसेन मवधीत्‍ सिंहो जाम्बवता हत: ॥८९५॥
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तक: ।
इति श्री श्री नीलमते धनधा चतुर्थी वर्णनम्‍ ।
तामेव पश्चमीं प्राप्य पूज्यो देवो जलेश्वर: ॥८९६॥
पूजनीया उमादेवी यथा तु धनदस्तथा ।
अस्यां विशेषतो विप्र पुज्योऽसौ धनदो बुधै: ॥८९७॥
स्रानमाल्यानुलेपैश्च पकान्नैर्वलिभिस्तथा ।
वितानशोभिते चापि मणडले समलंकृते ॥८९८॥
धनदाख्यं मम प्रीत्यं [?] गिरिराजं समर्ययेत्‍ ।
सुवर्णकलशस्यां च लक्ष्मी संपूजयेदुध: ॥८९९॥
वस्त्रै: गोभिश्च कटकैस्तथालंकारचन्दनै: ।
ब्राह्मणान्‍ तोषयेद्भक्त्या मधुरात्रैश्च पणिडता: ॥९००॥
ततो विज्ञापयेत्‍ सम्य‍क गिरिराजं मम प्रियम्‍ ।
गिरिराज नमस्तेस्तु नीलाभिमत सत्प्रिय ॥९०१॥
भक्त्या समार्चितोऽस्माभि: सर्वकामप्रदो भव ।
इति श्री नीलमते वरुणपश्चमीवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP