संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
कार्तिकामायां दीपमाला वर्णनम्

कार्तिकामायां दीपमाला वर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


तथा पक्षे व्यतीते तु कर्तव्या सुखसुप्तिका ॥५०५॥
पश्चदश्यां यथा विप्र तथा मे गदत: श्रृणु ।
तस्यां दिवा न भोक्तव्यं बालातुरजनं विना ॥५०६॥
सूर्ये त्वस्तमनुप्राप्ते पूजयित्वा करीषिणीम्‍ ।
दीपवृक्षास्ततो देया: देवतायतनेषु च ॥५०७॥
चतुष्पथश्मशातेषु नदीपर्वतवेश्यसु ।
वृक्षमूलेषु गोष्ठेषु चत्वरे ष्वापणेषु च ॥५०८॥
वस्त्रैश्चैवापणा: सर्वे कर्तव्याश्चोपशोभिता: ।
दीपम लापरिक्षिप्ते प्रदेशे तदनन्तरम्‍ ॥५०९॥
स्वलंकृतैश्च भोक्तव्यं व्दिजेन्द्र नववाससा ।
सुहृद्भिर्ब्राह्मणै: सार्ध बन्धुभिश्चानुयायिभि: ॥५१०॥
तत: प्राप्ते व्दीतीयेऽह्वि स्वनुलिप्तै: स्वलंकृतै: ।
क्रीडितव्यं तथा द्यतै: श्रोतव्यं गीतवदितम्‍ ॥५११॥
विशेषवच्च भोक्तव्यै पूर्वोक्तैस्तैजनै: सह ।
तस्मिन्‍ द्यते जयो यस्य तस्य  संवत्सर: शुभ: ॥५१२॥
तस्यां रात्रौ तु कर्तव्यं शय्यास्थानं सुशोभितम्‍ ।
गन्धैर्वस्त्रैस्तथा धूपै: रतैश्चैवाभिलडंतम्‍ ॥५१३॥
दीपमालापरिक्षिप्तं तथा धूपेन धूपितम्‍ ।
दयिताभिश्च सहितै स्तैर्नेया सा निशा भवेत्‍ ॥५१४॥
पूज्या नूतनवासोभि: सुहृत्संबन्धिबान्धवा: ।
ब्राह्मणा भृत्यवर्गाश्च चन्द्रदेव यथाविधि ॥५१५॥
॥इति श्री नीलमते कार्तिकामायां दीपमाला वर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP