संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम्

चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


यस्मिन्देशे त्वनन्तेन हलं पूर्व निवेशितम्‍ ।
तत्र नीलस्य वसति: पूर्वमेव सुभाविता ॥४३०॥
एतस्मिन्नेव काले तु नीलो नागपतिर्विभु: ।
सेव्यमानो निकुम्मेन पिशाचेन महात्मना ॥४३१॥
नागैश्चात्युल्वणैर्भीमै: पर्यकवरमाश्रित: ।
श्रास्ते गिरिवरस्याधो धनदस्य महात्मन: ॥४३२॥
नागांस्तु नागराजानं नागकन्याश्च भूरिश: ।
उपासन्त महात्मानं कश्मीरेषु कृतालया: ॥४३३॥
केचित्स्तुवन्ति राजानं केचिव्दीजन्ति पन्नगा: ।
केचिव्दरासनातं पर्युपासन्त धार्मिकम्‍ ॥४३४॥
तेषां मध्ये गतं नीलं नीलाज्जनचयोपमम्‍ ।
मुकटेनार्क वर्णेन कुण्डलैश्च विराजितम्‍ ॥४३५॥
विद्युतो द्ये तवर्णेन वाससैकेन शोभितम्‍ ।
चन्द्ररश्मिनिकाशेन तथा चीनांशुकेन च ॥४३६॥
वितानेन विचित्रेण किडिणीजालमालिना ।
तथा फणशतैर्भीमै: सप्तभि: संविराजितम्‍ ॥४३७॥
रत्ने ज्ज्वलैर्दीपरत्नैर्ज्वालामालासमाकुलम्‍ ।
तं दृष्टा चन्द्रदेवस्य नीलोऽपं भुजगेश्वर : ॥४३८॥
कश्मीरपालको नाग: राजा कश्यपन दन: ।
नूनं स एष नीलोऽस्ति मतिस्त्त्थिमभूत्किल ॥४३९॥
चन्द्रदेवस्य विप्रस्य कश्यापान्वयशोभिन: ।
तत: प्रसादात्तस्यैव भुजगाधिपति: प्रभु: ॥४४०॥
सोऽपसर्प्य व्दिजो नागं कृत्वा प्रक्रमणं पुर: ।
जानुभ्यामवनिं गत्वा तदा स्तोत्रमुदैरय त्‍ ॥४४१॥
इति श्री नीलमते चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP