संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
गरुड्वरप्राप्तिवर्णनम्

गरुड्वरप्राप्तिवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


अस्मिन्वैवस्वते प्राप्ते राजन्‍ मन्वन्तरे किल ॥६७॥
प्रजासर्ग समुत्पत्रे यथावदनुपूर्वश: |
प्रजानां पतिभि: प्राग्वदुद्भतैर्धातुराज्ञया ॥६८॥
समुद्युक्तैर्यथापूर्व समुद्भता महीस्थिति: ।
तत्र दक्षो ददौ कन्या: कश्यपाय त्रयोदश ॥६९॥
मारीचाय समाधत्स्व श्रोतुं नामानि भूपते ।
तासां यस्याश्च ये जातास्तेषां नामानि मे श्रृणु ॥७०॥
अदितेस्तनया देवा दितेर्दैत्यास्तथैव च ।
गन्धर्व्या वाजिन: पुत्रा भद्राश्च सुरभे: सुता: ॥७१॥
यक्षाश्च राक्षसाश्चैव खसायास्तनया: स्मृता: ।
ऐरावणस्त्विलापुत्र: पुल्वाया दश गायना: ॥७२॥
मुनिप्रसव  उक्तश्च दिव्यो ह्यप्सरसां गण: ।
कालाया: कालकल्पाश्च कालकेया मता: सुता: ॥७३॥
दानवाश्च दनो: पुत्रा: क्रोधाया: कन्यका दश ।
कद्रोश्च तनया नागा विनतायास्तथा सुतौ ॥७४॥
गरुडारुणौ तु विज्ञेयौ पक्षिणां प्रवरौ नृप ।
इति नीलमते मारीचकश्यपवंशवर्णनम्‍ ।
कदाचिदथ कद्रश्च विनता च परस्परम्‍ ॥७५॥
सापत्न्यासूयया राजन्‍ स्पर्धमाने यथोत्तरम्‍ ।
विधानयोगात्सततं चक्रतुर्वैरमुत्तमम्‍ ॥७६॥
प्रत्यक्षं च परोक्षं च दोशःआरोपणतत्परे ।
छलान्वेषणसक्तत्वादन्योन्यं मानभज्जने ॥७७॥
बिजर्ह्र्तुर्बहिश्चान्त:क्रोधरक्तान्तलोचने ।
कदाचिदुपविष्टे ते दूरतो यायिनं शुभम्‍ ॥७८॥
अमृतोत्थितमालोक्य शक्रेणाधिष्ठितं हयम्‍ ।
निबध्ददृष्टी ते तत्र विमृश्य च परस्परम्‍ ॥७९॥
ऊचतुश्छिद्रसक्ते च परस्परजिगीषया ।
पश्येमं देवराजेन हयरत्नं सभांश्रितम्‍ ॥८०॥
अहो रुपमहो तेजो वेगश्चास्य महाद्भतम्‍ ।
इत्यन्योन्यं समाभाष्य व्यतिक्रान्ते हयोत्तमे ॥८१॥
श्वेतं जगाद विनता कद्रू शाठयस्थिता तथा ।
कृष्णबालमहं मन्ये तमश्वं विनते सदा ॥८२॥
इत्याह कद्रूर्विनतां पणोऽभूच तयोस्तदा ।
अश्वं प्रति महिनाथ दासीभावश्च सर्वथा ॥८३॥
अथ कद्रूर्विचिन्त्स्याशु विधेयं किं मयात्र च ।
दासीभावो यथा न स्यान्ममास्मिन्‍ चरिते तथा ॥८४॥
कया युक्त्या विधास्याभि..................।
यथासौ दासितामेति सपुत्रा इति तद्भवेत्‍ ॥८५॥
तदा मया जितं नाम भवेदिति विचिन्त्य सा ।
इदमत्रोचितं पुत्रान्‍ समाहूयाब्रवीत्तदा ॥८६॥
पुत्रा मद्दास्यरक्षार्थ सूक्ष्मा भूत्वा सितास्तथा ।
विदध्व हयराजस्य कृष्णरोमत्वमासा ॥८७॥
अधिश्रित्याशु देहं तव्दालभूता: समन्तत: ।
तथा क्रुरुत येनाऽसौ कृष्णबालो भविष्यति ॥८८॥
तत्प्रेरितास्तथा पुत्रा: कद्र्‍ वा गत्वा तथा व्यधु:  ।
ततस्ते कृष्णबालं तं दृष्टा तुर्गमुत्तमम्‍ ॥८९॥
कद्रर्जितास्य वोचतां विनतां चारुदर्शनाम्‍ ।
दास्ये जितां तु विनतां गरुड: सुमहायशा: ॥९०॥
मोक्षायामास चाहृत्य सोमं शक्रान्महाबलात्‍ ।
इति नीलमते कद्रूविनवादास्यवर्णनेऽमृताहणम्‍ ।
शक्रलोकमथागत्य वैनतेयो महामना: ॥९१॥
सुधाहुरणवेलायां लोभे शक्राव्दारं परम्‍ ।
बलं तवतदतुलं विलोक्या मुदितोऽस्म्यहम् ॥९२॥
वरं वृणीप्व पुत्रैतत्‍  यथा ते सफल: श्रम: ।
भवेदिति मम प्रीतिर्नूनमित्युदितस्तदा ॥९३॥
स्मरन्वरं तदोवाच शक्रं कश्यपनन्दन: ।
मम भक्ष्या भवन्वेते कद्रूपुत्रा: सुरेश्वर ॥९४॥
वरमेनं प्रयच्छैप (?) नायत्किंचन मे मतम‍ ।
इत्युक्रो देवराजाह (?) तथेति गरुडं प्रियम‍ ॥९५॥
स शक्रच्च वरं लेभे पन्नगानां च भक्षणम्‍ ।
मातुर्वैरानुबन्धेन भक्षयामास पन्नगान्‍ ॥९६॥
इति नीलमते गरुड्वरप्राप्तिवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP