संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
कार्तिकपत्र्यगत्रे देवतोत्थापनम्

कार्तिकपत्र्यगत्रे देवतोत्थापनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
एकादश्यां ततो रात्रौ शुक्लपक्षस्य मानव: ।
सोपवासो हरिं देवं नृत्यगीतैविबोधयेत्‍ ॥५१६॥
आषाढमासे प्रतिमां केशवस्य तु कारयेत्‍ ।
सुप्तां च शेषपर्यके शैलमृध्देमदारुभि: ॥५१७॥
ताम्रारकूटरजतै: चित्र वापि निवेशयेत्‍ ।
लक्ष्म्युत्संगगतौ पादौ तस्यां तस्य च कारयेत्‍ ॥५१८॥
कार्तिकस्य तु शुक्लन्ते कार्य तस्यं विबोधनम्‍ ।
यथा तथा मे गदत: श्रृणु त्वं वाडवोत्तम ॥५१९॥
एकादश्यां तु कर्तव्यं रात्रौ जागरणं तथा ।
गीतैर्नृत्यैस्तथा वाद्यै: ब्रह्मघोषस्तथैव च ॥५२०॥
वीणापटहशब्दैश्च पुराणानां च वाचनै: ।
तत्कथ श्रवणैश्चान्यैस्तथा स्तोत्रोपकीर्तनै: ॥५२१॥
प्रेक्षणीयै: प्रदानैश्च भूमिशोभ भिरेवच ।
पुष्पधूपप्रदानैश्च नैवेद्यैर्विविधैस्तथा ॥५२२॥
दीपवृक्षैश्च विविधैर्यह्णिपोजाभिरेवच ।
भक्ष्यैरपूपै: शाकैश्च परमात्रै: फलैस्तथा ॥५२३॥
इक्षोर्विकारै: मधुना मृध्दीकाभव्य्दाडिमै: ।
कुटीरकस्य मज्जर्य्या मार्जन्या लवणेन च ॥५२४॥
रक्तसुत्रेण रक्तेन चन्दनेन सितेन च ।
अलक्रकेन बीजैश्च कुडुमेन सुगन्धिता ॥५२५॥
संपूज्य प्रतिमां रात्रौ व्दितीयेऽहनि पंडित: ।
स्रात्वा नदीजले पुणये प्रतिमां स्थापयेत्‍ शुभाम्‍ ॥५२६॥
उत्यिता तां परां ब्रह्मन्‍ पूर्वद्रव्यैर्विनिर्मिताम्‍ ।
यदि चित्रनिविष्टा स्यात्‍ प्रतिमा ब्राह्मणोत्तम ॥५२७॥
तस्यां स्रानादि कर्तव्यं बुधैश्चित्तोपचारत: ।
पश्चरात्रविधानेन वेद्यामावहिता बुध: ॥५२८॥
आसनस्था यथाशक्ति स्रापयेत यथाविधि ।
आदौ आज्येन तैलैन मधुना तदनन्तरम्‍ ॥५२९॥
दध्रा क्षीरेण च तत: पश्चगव्येन चाप्यथ ।
उव्दर्तन्म ततो देयं माषचुर्णैरत: परम्‍ ॥५३०॥
ततो मसूरचूर्णैश्च ततस्त्वामल्काणुभि: ।
रुद्रकाललकुत्थैश्च तगरै: कर्णकैस्तथा ॥५३१॥
प्रियडंभिश्च सिध्दार्थै ततो वै बीजपूरकै: ।
मर्वोषधिसर्वगन्धै: सर्वबीजैश्च काश्चनै: ॥५३२॥
राजतैर्मौक्तिकैश्चापि नानारत्नाम्बुमिस्तथा ।
ततोऽपि मतिमान्‍ देव प्रीत्यर्थ तं तदानयेत्‍ ॥५३३॥
माडल्यानि यथालाभं रत्नानि च कुशोदकम्‍ ।
दन्तिदन्तीध्दृतामृच वृपश्रृगोध्दता तथा ॥५३४॥
नदीतीरात्सगोस्थानाव्दल्मीकात्संगमाध्ददात्‍ ।
इन्द्रस्थानाच सरस: तथा पर्वतमस्तकात्‍ ॥५३५॥
एतै: सस्राप्य देवेशं दद्याव्दार चनां शुभाम्‍ ।
ततश्च कलशा देया यथाशक्ति स्वलंकृता: ॥५३६॥
जानिपल्लवसंपूर्णा: फलपूर्णास्तु कांचना: ।
पुणयाहे वेदशब्देन वेणुवीणारवेन च ॥५३७॥
सूतमागधशब्देन तथा वन्दिस्वनेन  च ।
स्रपयेत बुध: सम्यक्‍ प्रतिमास्थापितं हरिम्‍ ॥५३८॥
एवं संप्राप्य गोविन्दं स्वनुलिप्तं स्वलंकृतम्‍ ।
सवाससं पूजयेत जातीपुष्पै:? सकुड्‍मलै: ॥५३९॥
धूपं च सरजो दद्यात्‍ दद्याद्‍दीपंसुशोभनम्‍ ।
ततश्च पूजयेत्‍ देवं परमात्रै: सुभोभनै: ॥५४०॥
अत्रै: प्रधानरत्नैश्च पूज्या: भागवतास्तथा ।
ततोऽग्रिहवनं कार्य्य विप्रा: पूज्यास्त्वनन्तरम्‍ ॥५४१॥
वासेभिर्भूषणै: रत्नै: गोभिरश्वै: गजै: धनै: ।
यथाविभवतां विप्र भोक्तव्यं तदनन्तरम्‍ ॥५४२॥
त्रयोदश्यां तत: पूज्या जना ये रडंजीविन: ।
मल्लभट्टादयो ब्रह्मन्‍ स्वस्ववित्तानुरुपत: ॥५४३॥
चतुर्दश्यां न भोक्रव्यं पयसाऽपिवाअ ।
पश्चदश्यां तथा पूज्यो देवदेवो जनार्दन: ॥५४४॥
पौणीमासीं तु संप्राप्य न भोक्तव्यं तदा दिवा ।
ततश्चन्द्रादये प्राप्ते पूजनीयाश्च कृत्तिका: ॥५४५॥
कार्तिकेयं तथा खडं वरुणं च हुताशनम्‍ ।
माल्यै: गन्धै स्तथा धूपै: भक्ष्यै रुचाचचै स्तथा ॥५४६॥
परमात्रै स्तथा शाकै र्वहिसंतवणैस्तथा ।
दक्षूणां च विकारैश्च दीपवृक्षै: सुशोभनै: ॥५४७॥
कल्माषै: लेपिकामिश्च व्दिजांश्च परिपूजयेत्‍ ।
एवं कृत्त्वा तदा पूजां मासदत्तं तु दीपकम्‍ ॥५४८॥
वहिर्गृहात्त यद्दत्तं पटक तत्त कारयेत्‍ ।
अपां समीप नीत्वा तु सभक्ष्यं तत्र वाहयेत्‍ ॥५४९॥
तस्य मूले तु कर्तव्यं ततोवै चन्दनाचनम्‍ ।
क्षीरेण पूर्णतं कृत्वा कुर्यान्मत्स्यं च सैकतम्‍ ॥५५०॥
मुक्त नेत्रं न्यसेत्तस्मिन्‍ तं च विप्रे निवेदयेत्‍ ।
बलीवंर्द ततो दद्यात्‍ श्वेतं शक्या विशेषत: ॥५५१॥
सर्वसस्यधरं रम्यं सर्वगन्धसमन्वितम्‍ ।
सवाससं व्दिजे दद्यात्‍ श्वेतं शक्या विशेषत : ॥५५२॥
याम्यं मार्ग सुखेनैव तेन यान्ति विपचिता: ।
यावन्ति रोमकूषाणि तस्य दानस्य काश्यप ॥५५३॥
तावव्दर्पसहस्राणि स्वर्गे मोदन्ति तत्प्रदा: ।
पूजयित्वा ततो विष्णुं रक्तमाल्यादिभि: स्वयम्‍ ॥५५४॥
भोक्रव्यं गोरसप्रायं सुप्तव्यं चाप्यनन्तरम ।
देवोत्थापनमेतध्दि कर्तव्यं दिनपश्चकम्‍ ॥५५५॥
पश्चाहमेतच्च तथा सुप्तव्यं स्थण्डिले बुधै: ।
दिने दिने च स्रातव्यं नदीतोये सुशीतले ॥५५६॥
पूजनीयो हरिर्देवो ब्राह्मणा: सहुताशना: ।
यर्जनीयं तदा मांसं प्रयत्नादपि काश्यप ॥५५७॥
दैत्यदानवयक्षाश्च पिशाचा: राक्षसै: सह ।
वर्जयन्ति च ते मासं मासादा दिनपश्चकम ॥५५८॥
एवं संपूज्य देवेशं सर्वकामसमन्वितम्‍ ।
आयु: परममासाद्य विष्णुलोके महीयते ॥५५९॥
स्ववित्तशक्तथा कर्तव्यं अप्युक्तं नूनमेव तु ।
प्राप्रोतोदं फलं सर्व वित्ताशाठयं विवर्जयेत्‍ ॥५६०॥
इति श्री नीलमते कार्तिकपत्र्यगत्रे देवतोत्थापनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP