संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
त्रयःपञ्चाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - त्रयःपञ्चाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
गोपितं त्रिषु लोकेषु तदेव कथ्यते श्रृणु ॥१॥
भूअमु दशसहस्रं च यन्त्रं लिख्य प्रयत्नतः ।
प्रतिवारं मार्जयेद्धि वाञ्छासिद्धिमवाप्नुयात् ॥२॥
भूमौ विलिख्य देवेशि यन्नाम्ना मार्जयेत् कृती ।
तमेवाकर्षयेद्देवि वर्षं मार्गस्थितोsपि चेत् ॥३॥
विशेषेण लिखेद्भूमौ दाहयेदविचारयन् ।
अष्टोत्तरसहस्रं च कृत्वा रामां समाश्रयेत् ॥४॥
सिन्दूरेण लिखेद् भूमौ तर्जन्या मार्जयेत्कृती ।
तर्जनीधारणाद्देवि यत्फलं परिकीर्तितम् ॥५॥
तत्फलं समवाप्नोति नात्र कार्या विचारणा ।
तत्तत्स्थानेषु देवेशि लेखनाद्धारणादपि ॥६॥
मार्जनादपि देवेशि तदेव फलमाप्नुयात् ।
फलप्रदादिपुष्पाणां होमे यत्फलमीरितम् ॥७॥
तत्फलं पूजनेनापि फलं नैवेद्यतोsपि च ।
स्वस्याशक्तौ प्रतिनिधिद्वारा वा कारयेत्कृती ॥८॥
भ्राता पुत्रः पिता माता स्नुषा च रमणी तथा ।
पौत्रो गुरुस्तत्सुतश्च प्रोक्तः प्रतिनिधिर्नव ॥९॥
भ्रात्रादिपौत्रपर्यन्तं दद्यादाभरणानि च ।
सर्वस्वदानं गुर्वादौ अन्येषां तु विशेषतः ॥१०॥
उपासनायां देवेशि न च प्रतिनिधिः स्मृतः ।
साम्राज्यहोमे देवेशि तथा पोषणकर्मणि ॥११॥
प्रोक्तः प्रतिनिधिर्देवि स्वेष्टकृत्यं स्वयं चरेत् ।
यथाथर्वणहोमादौ सूक्तं सूक्तं च होमयेत् ॥१२॥
ऋग्विधौ ऋक् समाख्याता जपहौमविधौ तथा ।
यथा प्रतिनिधिः प्रोक्तस्तथाsत्र न प्रकीर्तितः ॥१३॥
यन्त्रं संस्थापयेद्देवि सर्वसिद्धिप्रदायकम् ।
स्वर्णे रौप्ये शिरोवस्त्रे कटिवस्त्रे तथा मणौ ॥१४॥
गारुडे पद्मरागे च पुष्परागे विशेषतः ।
गोमेदे हीरके नीले वैडूर्ये परिसेsपि च ॥१५॥
चतुर्विधे हीरके च तथा स्पर्शचतुर्विधे ।
प्रवाले धारयेद्देवि यथोक्तफलमाप्नुयात् ॥१६॥
स्वर्णे सर्वार्थसंसिद्धिः रौप्ये सुतसमृद्धिमान् ।
वस्त्रे सन्धारणाद्देवि दिव्यकामो नरो भवेत् ॥१७॥
शिरोवस्त्रे तु सन्धार्यं त्रैलोक्यरक्षणाय च ।
त्रैलोक्यमोहनायापि वैरिनिर्दलनाय च ॥१८॥
कटिवस्त्रे लिखेद्देवि वायुतुल्यो बली भवेत् ।
तथावरणवस्त्रेषु कामतुल्यः स्वरूपधृक् ॥१९॥
त्रैलोक्यविजयित्वं च भवेद्गारुत्मते शिवे ।
पद्मरागे शत्रुहन्ता जयकर्त्ता महामतिः ॥२०॥
महेन्द्रसदृशो भूयान्नात्र कार्या विचारणा ।
पुष्परागे लिखेन्मुद्रां धारयेत्पूर्ववत् प्रिये ॥२१॥
सूर्यकोटिप्रतीकाशः प्रतापकीर्तिमान् भवेत् ।
गोमेदे विलिखेद्यन्त्रं धारयेद्दक्षिणे करे ॥२२॥
सिद्धगन्धर्वतुल्यः स्यात्काव्ये वाचस्पर्तियथा ।
हीरके धारयेद्यस्तु मुद्रां पदमदुर्लभाम् ॥२३॥
त्रैलोक्याकर्षको भूयाद् विद्यामधुमतीजपात् ।
जङ्गमस्थावराणां च समुद्राकर्षणं चरेत् ॥२४॥
नदीं पुरीं च रत्नानिं हेमस्त्रीशैलभूरुहान् ।
अलभ्यान्यपि वस्तूनि दूराद् भूमितलादपि ॥२५॥
त्रैलोक्याकर्षणकरो वज्रमुद्राविधारणात् ।
इन्द्रनीले लिखेन्मुद्रां धारयेत्करपङ्कजे ॥२६॥
महेन्द्रसदृशो भूयाच्छक्रकर्ता नरो भवेत् ।
ऐश्वर्ये राजराजेशः प्रतापे भास्करो यथा ॥२७॥
बुद्ध्या नीलासमो लोके भवत्येव न संशयः ।
वैडूर्ये धारयेद्यस्तु किं तद्यन्न करे स्थितम् ॥२८॥
परिसे धारणाद्देवि कालीतारामयो भवेत् ।
कालीतारा स्पर्शमणिः जपात्स्पर्शमणिं लभेत् ॥२९॥
इतोsपि सिद्धिबाहुल्यं मया वक्तुं न शक्यते ।
ब्रवाले वश्यसिद्धिः स्यात् स्फाटिके कीर्तिरुत्तमा ॥३०॥
धारणाद्यत्फलं प्रोक्तं दुर्गमुद्रासबीजकम् ।
फलमेतन्महेशानि रहस्यातिरहस्यकम् ॥३१॥
चतुर्विधेsपि यन्त्रेsपि फलमेतत्प्रकीर्तितम् ।
वीजयन्त्राण्यपि शिवे धारयेदेवमेव तु ॥
रहस्यातिरहस्यञ्च किमन्यच्छ्रोतुमिच्छसि ॥३२॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मुद्रासंक्षेपो नाम त्रयःपञ्चाशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP