संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
पञ्चचत्वारिशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चचत्वारिशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश शङ्कर स्वामिन्सुरादिकारणोत्तम ।
त्वया संसूचितं पूर्वं वरासनविनिर्णयम् ॥१॥
देवताsवाहनं देवि सूतकद्वयनिर्णयम् ।
यन्त्रप्राणनिर्णय च विसर्जनविनिर्णयम् ॥२॥
शिवशक्तिक्रमेणैव सम्प्रदायविनिर्णयम् ।
दशविद्याक्रमेणैव दशधूपविनिर्णयम् ॥३॥
पूर्वं संसूचितं नाथ न मह्यं तु प्रकाशितम् ।
तत्सर्वं कथय स्वामिन् यद्यहं तव वल्लभा ॥४॥
श्रीशिव उवाच ।
रहस्यातिरहस्यं ते कथं च कथयाम्यहम् ।
तथापि तव संप्रीत्या कथ्यते श्रृणु साम्प्रतम् ॥५॥
सर्वादिभूतरूपत्वात् सूतकस्य विनिर्णयम् ।
वरासनं चान्यभागे सर्वं संकथ्यते श्रृणु ॥६॥
जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् ।
सूतकद्वयसंयुक्तः स मन्त्रो नैव सिध्यति ॥७॥
गुरुकुण्डलिनीध्यानं विवाहः परिकीर्तितः ।
द्विरागमो भवेत्स्नानं संयोगस्तर्पणं भवेत् ॥८॥
अर्घ्यदानं भवेद्गर्भो गायत्री त्वष्टमासिकम् ।
भूतशुद्धयादि प्राणान्तं तत्रावयवकल्पनम् ॥९॥
देहावाप्तिर्मातृकया प्राणायामस्तु संस्क्रिया ।
ध्यानोच्चारे महेशानि बालकोत्पत्तिरीरिता ॥१०॥
मन्त्रोच्चारणतो देवि जातसूतकमीरितम् ।
जातसूतस्य दोषस्य शमनार्थं महेश्वरि ॥११॥
दश विशंति पञ्चाशद्ययाशक्त्या जपेच्छिवे ।
दशाङ्गादि पुरश्चर्या संस्कारा दश वै शिवे ॥१२॥
इदमादि मयादिष्टमन्तिमं श्रृणु साम्प्रतम् ।
संस्काराः सप्तनवकास्तथा जाड्यं हृदि शिवे ॥१३॥
प्रसन्नाञ्जलिस्तु तच्चक्रं तत्सिसद्धिसाधनं तथा ।
सोsहं भावो मातृकाप्तिः पञ्च चैतन्यमेलनम् ॥१४॥
अङ्गज्ञानञ्च तादात्म्यं तदनन्तरमीरितम् ।
विसर्जनं महेशानि मृतसूतकमीरितम् ॥१५॥
मृतसूतकशान्त्यर्थं दशविंशति वा जपेत् ।
तेन तस्य निवृत्तिर्हि भवत्येव न संशयः ॥१६॥
केरलश्चैव काश्मीरो गौड़मार्गस्त्रयात्मकः ।
सम्प्रदायत्रये प्रोक्तं त्रितयं त्रितयं भवेत् ॥१७॥
शैवकेरलकं देवि शक्तिकेरलकं तथा ।
शिवशक्तिकेरलाख्यं त्रितयं परिकीर्तितम् ॥१८॥
शुद्धोग्रगुप्तभेदेन नवधा केरलं भवेत् ।
नवधा चैव काश्मीर गौडं च नवधा भवेत् ॥१९॥
विलासाख्यस्त्रिधा देवि भेदश्चान्ये भवन्ति च ।
केरलाख्ये सम्प्रादये हृदये च विसर्जनम् ॥२०॥
मनुहृद्देवतां शम्भुं सहस्रारे विसर्जनम् ।
काश्मीराख्ये सम्प्रदाये सहस्रारे विसर्जनम् ॥२१॥
गौड़मार्गे महेशानि हृदये च विसर्जनम् ।
विसर्जनं च सम्प्रोक्तं निर्णयं सूतकस्य च ॥२२॥
श्रृणु यत्नेन देवेशि रहस्यं कथ्यते मया ।
मन्त्रस्य सूतकं प्रोक्तं मनुष्यस्य यथा भवेत् ॥२३॥
जातसूतकमादौ च तदन्ते मृतसूतकम् ।
द्वितये सूतके देवि न मन्त्रोच्चारमाचरेत् ॥२४॥
सन्ध्यां च मानसीं कुर्यादर्व्यान्तां परमेश्वरि ।
शालिग्रामं च प्रतिमां न स्पृशेत्कर्हिचित्प्रिये ॥२५॥
स्पर्शात् पाणी नरो भूयान्नात्र कार्या विचारणा ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२६॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे सूतकविनिर्णयो नाम पञ्चचत्वारिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP