संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकविंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकविंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
एवेश श्रोतुमिच्छामि महाचीनक्रमं परम् ।
श्रीशिव उवाच ।
महाचीनक्रमो देवि कथ्यते क्षिप्रतो मया ॥१॥
महाचीनक्रमेणैव तारा शीघ्रफलप्रदा ।
ब्रह्मचीनो दिव्यचीनो वीरचीनस्तृतीयकः ॥२॥
महाचीनो निष्कलश्च चीनः पञ्चविधः स्मृतः ।
महाचीनक्रमो देवि द्विविधः परिकीर्तितः ॥३॥
सकलो निष्कलश्चेति सकलो बौद्धगोचरः ।
निष्कलो ब्राह्मणानाञ्च द्वितीयं श्रृणु पार्वति ॥४॥
न वक्तव्यं त्रिभुवने सारात्सारतरं परम् ।
केचिद्देवा नराः केचिद्दानवा यक्षराक्षसाः ॥५॥
नागलोकाः किन्नराश्च गन्धर्वाप्सरसां गणाः ।
ये वा पशुमृगापक्षा ये केचिज्जगतीगताः ॥६॥
एते जडतराः सर्वे परस्पर्खलात्मनः ।
कुकल्पे निरताः सर्वे कुमार्गदर्शनोत्सुकाः ॥७॥
एतेषां ब्रह्मविज्ञानमानन्दं ब्रह्मचित्सुखम् ।
न जानन्ति महेशानि कथं तत्कथयामि ते ॥८॥
नित्यमुक्तस्वभावो यः तस्मै तद्व्रतमीरितम् ।
क्षमस्व देवि चार्वंगि न वक्तव्यं मयानघे ॥९॥
श्रीदेव्युवाच ।
नमस्ते वरदस्वामिन् करूणानिधये नमः ।
अन्यदेवरता ये च तेsपि त्वत्पदकांक्षिणः ॥१०॥
तेषामेवाधिकफलं मद्भक्तानां व्यवस्थितम् ।
सिंहव्याघ्रादयो ये च ये च विघ्नानुकारिणः ॥११॥
रिपवश्च तथा पापा ये चान्ये दुष्टजन्तवः ।
ते सर्वे विलयं चान्ति पतङ्गा इव पावके ॥१२॥
गेहं दीपशिखाकारं दृश्यते दुष्टजन्तुभिः ।
केवलं प्रेमभावेन त्वयैव विभुना प्रभो ॥१३॥
किंवा शवमयो भूत्वा आसने पंचदेवताः ।
पृथिवी याति जडतां जडं तेजोमयं भवेत् ॥१४॥
तेजो वायुस्तथा पृथ्वी आकाशं तत्प्रकाशकम् ।
दानवा राक्षसा मर्त्या ये चान्ये देवतागणाः ॥१५॥
राजनश्च तथा सर्वे चान्ये तत्पादवर्तिनः ।
आज्ञां भजन्ति गन्धर्वाः किं पुनर्नरकिन्नराः ॥१६॥
यत्र यत्र भवेद्वाञ्छा तत्र सिद्धिः करे स्थिता ।
सदा तद्गामिनीं वाणीं भजते वातिनिश्चला ॥१७॥
द्वन्द्वभावं परित्यज्य किमन्यद्बहुजल्पितैः ।
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ॥१८॥
अन्ते तु जायते गौरीलोके शिव इवापरः ।
सिद्धो भवति मद्भक्तया कथितञ्च मया तव ॥१९॥
न वक्तव्यमभक्ताय परभक्ताय पापिने ।
श्रीशिव उवाच ।
महाचीनक्रमं देवि द्विविधं सूचितं पुरा ॥२०॥
महाचीनक्रमो देवि द्विविधैव प्रकार्तितः ।
तत्रैव देवदेवेशि त्रैगुण्याद्भेदभाजनम् ॥२१॥
स्नानादि मानसं शौचं मानसः प्रवरो जपः ।
पूजनं मानसं दिव्यं मानसं तर्पणादिकम् ॥२२॥
मानसो नियमः प्रोक्तो मानसं दन्तधावनम् ।
सर्व एव शुभः कालो नाशुभो विद्यते क्कचित् ॥२३॥
न विशेषो दिवारात्रौ न सन्ध्यायां महानिशि ।
वस्त्रार्द्रं मानसं शौचं देहस्पर्शादि वारिणा ॥२४॥
शुद्धिं न चार्चयेदत्र निर्विकल्पमनाश्चरेत् ।
नात्र शुद्धेरपेक्षास्ति न च मेध्यादिदूषणम् ॥२५॥
य एवं नियमैर्मन्त्रं सर्वकामसमृद्धिदम् ।
गद्यपद्यमयी वाणी सभायां तस्य जायते ॥२६॥
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ।
राजानोsपि च दासत्वं भजन्ते किं परे जनाः ॥२७॥
सर्वदा पूजयेद्देवीमस्नातः कृतभोजनः ।
महानिश्यां शुचौ देशे बलिं मन्त्रेण दापयेत् ॥२८॥
स्त्रीद्वेषो नैव कर्त्तव्यो विशेषात् पूजनं स्त्रियः ।
जपस्थाने महाशङ्खं निवेश्योर्द्ध्वं जपं चरेत् ॥२९॥
स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्राप्यचूडके ।
भक्ष्यं ताम्बूलमन्यांश्च भक्ष्यद्रव्यान्यथारुचीन् ॥३०॥
मांसं मत्स्यं दधि क्षौद्रं संविदासवयो रसः ।
उक्तान्यशेषभक्ष्याणि भुक्त्वा भक्ष्यं चरेज्जपम् ॥३१॥
दिक्कालनियमो नास्ति स्थित्यादिनियमो न च ।
न जपे कालनियमो नार्चादिषु बलिष्वपि ॥३२॥
स्वेच्छानियम उक्रोsत्र महामन्त्रस्य साधने ।
वस्त्रासनगेहदेहस्पर्शास्पर्शादि वारिणा ॥३३॥
तैलं संलाप्य देवेशि ताम्बूलं भक्षयेत् सदा ।
नानाम्बराणि संधार्य देहं वस्त्रेण मार्जयेत् ॥३४॥
मन्त्रस्नानं चरेद्देवि सर्वदा मद्गताशयः ।
महाचीनक्रमे देवि विप्रस्नानमिदं भवेत् ॥३५॥
शुद्धिंर्न चाचरेदत्त निर्विकल्पमनाश्चरेत् ।
सुगन्धिश्वेतलौहित्यकुसुमैर्चयेद्दलैः ॥३६॥
बिल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः ।
वर्जयेद्बिल्वपत्रञ्च मरुं यत्नेन वर्जयेत् ॥३७॥
केशान् संवर्द्धयेद्देवि सर्वदा तैलभूषितः ।
अष्टम्यां च चतुर्दश्यां विशेषदिवसे सदा ॥३८॥
नाधर्मो विद्यते सुभ्र किंचिद्धर्मो महान् भवेत् ।
स्वेच्छानियम उक्रोsत्र प्रचरेद्धृष्टमानसः ॥३९॥
कृतार्थं मन्यमानस्तु सन्तुष्टो निजमानसः ।
हरेर्नाम न गृह्णीयान्न स्पृशेत्तुलसीदलम् ॥४०॥
नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन ।
नान्यमन्त्रं जपेद्देवि निर्विकल्पः सदा भवेत् ॥४१॥
सद्यो मद्यं पिबेद्देवि मातङ्गीभिर्विहारवान् ।
x x x x देवि जपं कुर्यादनन्यधीः ॥४२॥
ब्रह्मीभूते मदाचारे विकल्पः कः प्रियेsस्ति वै ।
भ्रूयुग्मे कुण्डले देवि सिन्दूरं तदनन्तरम् ॥४३॥
कुचन्दनं त्रिपुण्डं च ततः सकेशरं शिवे ।
मुण्डमाला गले धार्या कपालं पाणिसङ्गतम् ॥४४॥
इत्याचारपरो नित्यं महाचीनक्रमी भवेत् ।
सर्वदानन्दहृदयः सर्वदा भक्तसेवकः ॥४५॥
कर्णनेत्रान्तरस्थो यो महाशङ्खः प्रकीर्तितः ।
पञ्चाशन्मणिमिर्माला गोनराश्वरास्थिसंभवा ॥४६॥
माला कार्या महेशानि षष्टिसिद्धीश्वरो भवेत् ।
सैव तारा महेशानि नात्र कार्या विचारणा ॥४७॥
श्रीदेव्युवाच
शिव शङ्कर विश्वेश विश्वतारक शाश्वत ।
वेदहीनाश्च ये धर्मास्तान् कथं ब्राह्मणश्वरेत् ॥४८॥
श्रीशिव उवाच ।
साधु देवि मम प्राणप्रिये साधकसुप्रिये ।
तद्भावनासमायातस्तद्भावमाचरेत्प्रिये ॥४९॥
यथा श्राद्धविधौ देवि मांसं मुख्यं प्रकीर्तितम् ।
कलौ तत्र निषिद्धं स्याद्ब्राह्मणानां महेश्वरि ॥५०॥
आत्मार्थं वा परार्थं वा पशून् हत्वा पशुर्भवेत् ।
यावन्ति तस्य रोमाणि तावद्योनिमवाप्रुयात् ॥५१॥
तस्यानुकल्पा माषाश्च मया प्रोक्तास्ति पार्वति ।
सकलं तु मया प्रोक्तं निष्फलं श्रृणु पार्वति ॥५२॥
यथा तद्भावनायां तु न च दोषोsस्ति पार्वति ।
मणिबन्धादधः पाणिः पादौ गुल्फादधः शिवे ॥५३॥
मुखं प्रक्षालयेद्देवि चीनस्नानमिदं भवेत् ।
जानुभ्यामवनिं धृत्वा भूमौ मस्तकमानयेत् ॥५४॥
चीनमार्गे नमस्काराः कीर्तितास्ते मया तव ।
पूर्वक्रमस्य देवेशि शक्रः प्रतिनिधिर्मम ॥५५॥
स्नानदानादिकं कृत्वा तथा पूजादिकं प्रिये ।
न च स्नानं च मे देहो न च पापं ममास्ति वै ॥५६॥
किं स्नानं कस्य च स्नानमस्नातः कृतभोजनः ।
सर्वमेव हृदम्भोजे मयि सर्वं प्रतिष्टितम् ॥५७॥
मयि ज्ञात्वा मन्त्रसिद्धिर्मम देवा वरप्रदाः ।
तेजोरूपं जगत्सर्वं तारिणी तत्स्वरूपधृक् ॥५८॥
तत्तेजसा च संस्पर्शं संभाव्य जपमाचरेत् ।
भावनावशमापन्नो भवेद्योगी महाकविः ॥५९॥
गुडार्द्रकरसेनैव सुरा तु ब्राह्मणस्य च ।
तदभावे जलं देवि सम्भाव्य पूजनं चरेत् ॥६०॥
तद्भावहृदयासन्नः सदा तद्गतमानसः ।
द्वन्द्वभावं परित्यज्य सर्वसिद्धीश्वरो भवेत् ॥६१॥
ब्रह्मा चैव वसिष्ठश्च तथान्ये च ऋषीश्वराः ।
निष्कलक्रममार्गेण भजन्ति सततं शिवे ॥६२॥
ताराभक्ता महेशानि ब्राह्मणा एव कीर्तिता ।
ब्रह्मविद्या महाविद्या सर्व दुर्लभा कलौ ॥६३॥
रहस्यातिरहस्यं च गोप्तव्यं पशुसङ्कटे ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६४॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे महाचीनक्रमो नामैकविंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP