संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
षड्विंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - षड्विंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
वद श्रीभुवनेशान्याः क्रमं परमदुर्लभम् ॥१॥
श्रीशिव उवाच ।
दिव्यभावक्रमेणैव भुवना शीघ्रसिद्धिदा ।
हकारः शिवरूपत्वात् रकारः पापनाशकः ॥२॥
हकारः कामरूपत्वात् मायारूपं प्रकीर्त्तितः ।
ब्रह्माण्डमेतद्देवेशि मायया वेष्टितं भवेत् ॥३॥
यस्या मायां विना देवि न च किञ्चित्प्रभासते ।
यद्भासारहितं किञ्चिन्न च तद् भासते क्कचित् ॥४॥
यद्भासासहितं देवि जगदेतत्प्रभासते ।
यां विना तु महेशानि जगज्जडसमं भवेत् ॥५॥
गुरुदैवतमन्त्राणामैक्यं संभावयन् धिया ।
त्रितेजस्त्वेकीकृत्याsथ तत्र मूर्तिं प्रकल्पयेत् ॥६॥
साङ्गां सावरणां ध्यात्वा तद्रूपस्तु स्वयं भवेत् ।
गुरुरूपो भवेद्देवी देवीरूपो गुरुः स्मृम्तः ॥७॥
मन्त्ररूपो भवेदात्मा चात्मानस्तन्मयो भवेत् ।
एवं क्रमेण देवेशि सदा तद्गतमानसः ॥८॥
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ।
एतस्यास्तिलकं देवि कथ्यते यत्नतः श्रृणु ॥९॥
श्वेतचन्दनबिन्दुस्तु भ्रमध्ये तु प्रलेपयेत् ।
गन्धसारं तदन्ते स्यात् त्रिपुण्ड्रं दिव्यवर्णतः ।
रक्ताक्षताश्च तन्मध्ये तेन सिद्धीश्वरो भवेत् ॥१०॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे भुवनेश्वरीक्रमो नाम षड्विंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP