संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
चत्वारिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - चत्वारिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीशिव उवाच ।
अथ मालाविधानं च कथ्यते श्रृणु पार्वति ।
माला बहुविधा प्रोक्ता महाशङ्खदिभेदतः ॥१॥
महाशङ्खमयी माला दन्तमाला स्वयम्भुजा ।
वर्णमाला तथा देवि सर्वकार्यार्थसाधिनी ॥२॥
वर्णमाला त्रिधा प्रोक्ता तत्क्रमं श्रृणु पार्वति ।
पञ्चाशन्मणिभिर्माला पञ्चाशद्वर्णयोगतः ॥३॥
एतद्द्वयं समुद्धृत्य ह्यनुलोमविलोमतः ।
माला शतमयी प्रोक्ता सर्वकार्यप्रदायिका ॥४॥
अकचटतपयशास्त्वष्तवर्गाः प्रकीर्त्तिताः ।
अष्टवर्गं प्रकल्प्याथ त्वष्टोत्तरशती भवेत् ॥५॥
अष्टोत्तरशती माला सर्वकार्यार्थसिद्धिदा ।
गुरोः पञ्च गणेशस्य त्रयं च परिकीर्त्तितम् ॥६॥
शेषमिष्टाय सन्दद्यात्तेन सिद्धीश्वरो भवेत् ।
त्रयं गुरौ त्रयं देवि गाणपे परिकीर्त्तितम् ॥७॥
न्यूनातिरिक्ते द्वितयं शेषमिष्टाय योजयेत् ।
अष्टोत्तरशती माला कथिता तव वल्लभे ॥८॥
अनुलोमविलोमेन मातृकार्णं शतं भवेत् ।
मायावाक्कामश्रीयोगात् मातृकावर्णयोगतः ॥९॥
अनुलोमविलोमेन त्वष्टोत्तरशतं भवेत् ।
मायाद्याद्यन्तसम्भेदात् पराबीजं नियोजयेत् ॥१०॥
माला पञ्चविधा प्रोक्ता सर्वसिद्धिप्रदायका ।
सप्तकीलितसंरुद्धाः छिन्ना व्याकीर्णयोनयः ॥११॥
धनिर्वैरी व्ययी हीनः काणखञ्जादयोsपि च ।
तेsपि सिद्धा भवन्त्येव नात्र कार्या विचारणा ॥१२॥
महाशङ्खमयी माला तथा दन्ताख्यमालिका ।
न देया यस्य कस्यापि गोप्या तु मातृजारवत् ॥१३॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मालाविधानं नाम चत्वारिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP