संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
चतुस्त्रिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - चतुस्त्रिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
विश्वेश श्रोतुमिच्छामि लतासङ्केतमुत्तमम् ।
श्रीशिव उवाच ।
लतासङ्केतकं देवि श्रृणु यत्नेन साम्प्रतम् ॥१॥
मेधादीक्षां विना देवि न लतासाधनं भवेत् ।
कादिहादिकला नाम लता प्रोक्ता मया तव ॥२॥
बालादि शाम्भवान्तं च मेधापूर्वं प्रकाशिता ।
श्रीस्पर्शकालीमारभ्य गुह्याम्बान्तं महेश्वरि ॥३॥
मेधादीक्षा महेशानि कादिहादिमतेsपि च ।
सर्वसाम्राज्यमेधा तु द्वयोयोंगे भवेत् प्रिये ॥४॥
मणिपूराद्बिलान्तं च बालामारभ्य योजयेत् ।
मणिपूराद्बिलान्तं च स्पर्शमारभ्य योजयेत् ॥५॥
अथवा देवदेवेशि संहारसृष्टिमार्गतः ।
सृष्टिः कादिर्यदा देवि हादिः संहृतिगोचरा ॥६॥
हादिः सृष्टिस्तदा काली संहारान्तं क्रमाद् भवेत् ।
परादि सर्वातीतान्तं ब्रह्म चारभ्य पार्वति ॥७॥
शान्त्यतीतान्तगं ज्ञात्वा शिवशक्तया प्रबोधयेत् ।
अथवा वर्णवेधेन केवलां वेधरूपिणीम् ॥८॥
चक्षुष्मतः समारभ्य साम्राज्यान्तं समाचरेत् ।
मेधादीक्षायुतानां च न च मुण्डनमीरितम् ॥९॥
केशान् संवर्द्धयेद्देविं सर्वदा तैललेपनम् ।
न श्मश्रून् कृन्तयेद्देवि यावद्वेधः प्रदृश्यते ॥१०॥
वाग्वेधः श्रुति वेधश्च दृष्टिवेधस्तृतीयकः ।
स्पर्शवेधश्चतुर्थः स्यात्क्रियावेधस्तु पञ्चमः ॥११॥
अनुक्रमेण देवेशि जायन्ते साधनक्रमात् ।
ब्रह्माण्डगोलके या च या काचिज्जगतीतले ॥१२॥
समस्ताः सिद्धयस्तस्य साधकस्य पुरः स्थिताः ।
यस्य वीक्षणमात्रेण जायन्ते साधनक्रमात् ॥१३॥
स्वयमायाति पुरतो जयादीनां च का कथा ।
निर्देशवर्तिनो भूत्वा वर्तन्ते चेटका इव ॥१४॥
मनोरथमयी सिद्धिस्तस्य दासी सदा भवेत् ।
अणिमा खेचरी वीक्षा गुटिका कामरूपिता ॥१५॥
धातुवादश्च वेताला यक्षिण्यश्चिरजीविता ।
परकायप्रवेशादि चराचरपुरी गतिः ॥१६॥
षष्टिसिद्धेश्वरो भूयान्नात्र कार्या विचारणा ।
षट्कर्माणि महेशानि वीक्षया सम्मवन्ति च ॥१७॥
यावद्विभूमिका भूयात्तावत्कुर्यान्निरन्तरम् ।
यदैव भूमिका जाता तदागन्धर्वमार्गतः ॥१८॥
गन्धर्वमार्गाद्देवेशि शिव एव न संशयः ।
साम्राज्यमेधायुक्तो हि लतासाधनमाचरेत् ॥१९॥
अन्यथा कुरुते यस्तु तस्य पातो भविष्यति ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२०॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे लतासङ्कंतकं  नाम चतुस्त्रिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP