संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
द्वादशः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - द्वादशः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि भूतशुद्धिविनिर्णयम् ।
श्रीशिव उवाच ।
त्रिविधा भूतशुद्धिर्हि केरलादिक्रमेण च ॥१॥
पञ्चधा तत्त्वशुद्धया तु देहशुद्धिं समाचरेत् ।
इत्थं तु केरले प्रोक्ता भूतशुद्धिर्मया तव ॥२॥
काश्मीरे भूतशुद्धिस्तु शोषणादिक्रमेण तु ।
तत्त्वव्याप्तिं कृते देवि पापं क्कास्ति महीतले ॥३॥
संहारक्रमयोगेन तत्त्वव्याप्तिर्महेश्वरि ।
एवं क्रमे कृते देवि पापं तस्य क्क वर्तते ॥४॥
भूतसंशोधनद्देवि पापं तस्याsपि गच्छति ।
देहनिष्ठं भवेत्पापं तत्पापं कुत्र विद्यते ॥५॥
तत्त्वव्याप्तौ महेशानि ब्रह्मैवाहं विभावना ।
पुनर्वै मातृकाव्याप्त्यै देहशुद्धि समाश्रयेत् ॥६॥
शोषणादिक्रमे देवि पापं भूताश्रयं शिवे ।
भूते संशोधने जाते पापं क्कास्ति महेश्वरि ॥७॥
काश्मीराख्यः क्रमः प्रोक्तो गौडः काश्मीरवद्भवेत् ।
चैतन्याख्यक्रमे देवि भूतशुद्धिं शृणु प्रिये ॥८॥
तत्त्वसंख्यापनं कृत्वां संहारक्रमयोगतः ।
पापशोधनकं कर्म कुर्याद्यत्नेन पार्वति ॥९॥
संहारक्रमयोगेन शोषणादि समाचरेत् ।
पापरूपस्य देवेशि सृष्टिमार्गेण व स्थितिः ॥१०॥
सृष्टिमागण देवेशि पुनः सृष्ट्यादिकं चरेत् ।
यथा युगादिके देवि सृष्टिस्थित्यादिकं भवेत् ॥११॥
तथैव परमेशानि भूतशुद्धिः प्रकीर्तिता ।
चराचरो हि संसार कुत्र गच्छाति पार्वति ॥१२॥
तथैव भूतशुद्धौ तु भावना योग एव च ।
अनादिसिद्धा देवेशि सृष्टिभेदास्तथैव च ॥१३॥
आगमाश्च महेशानि नव वैकृतिमादृता ।
पुराणान्युपसंज्ञानि सर्वसिद्धिर्भवेच्छिवे ॥१४॥
एकस्य द्वारमाश्रित्य सा परा कालिका कला ।
प्रकाशयति देवेशि जगदेतच्चराचरम् ॥१५॥
मायापाशेन संबद्धान् क्षतान् कृत्वा महेश्वरि ।
संसारचक्रे देवेशि भ्रामयामास या कला ॥१६॥
श्रीविद्यायां तथा काल्यामूर्ध्वाम्नाये महेश्वरि ।
तस्य दर्शनमात्रेण पापमन्यस्य गच्छति ॥१७॥
स देशो धन्यतां याति समन्तात् कोटियोजनम् ।
तस्य पुण्यफलं देवि मया वक्तुं न शक्यते ॥१८॥
इति संक्षेपतः प्रोक्तं कुतः पापं महेश्वरि ।
पारायणेन षोडश्याः कालिकायास्तथापि च ॥१९॥
मन्त्रपारायणं देवि नामपारायणं तथा ।
चक्रपारायणं देवि यन्त्रपारायणं तया ॥२०॥
नाडीपारायणं देवि पञ्च पारायणं विदुः ।
श्रीविद्यायां कालिकायां पञ्चपारायणक्रमात् ॥२१॥
पारायणं नाम सन्ध्या तेन पापं न चास्ति वै ।
निर्वाणे न पापवार्त्ता परात् पूर्वं वदेत् शिवे ॥२२॥
षट्शाम्भवे महेशानि षट्चक्रक्रमयोगतः ।
पापं दूरतरं देवि केवलानां तु शोधनम् ॥२३॥
अन्येषां भूतिशुद्धिस्तु त्रिविधा परिकल्पयेत ।
इति संक्षेपतः प्रोक्त किमन्यच्छ्रोतुमिच्छसि ॥२४॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे भूतशुद्धिनिरूपणं नाम द्वादशः पटलः ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP