संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
द्वाविंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - द्वाविंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
गन्धर्वाख्यक्रमं देव कथयस्व मम प्रभो ।
श्रीशिव उवाच ।
गन्धर्वाख्यक्रमेणैव सुन्दरी भुवि दुर्लभा ॥१॥
गन्धर्वाख्यक्रमो देवि कथ्यते श्रृणु साम्प्रतम् ।
भ्रूमध्ये कुङ्कुमं देवि तदन्ते मलयागुरुम् ॥२॥
अष्टगन्धत्रिपुण्ड्रञ्च मध्ये कस्तूरिकान्वितम् ।
सुगन्धश्वेतलौहित्यपुष्पैः सम्भूषितो नरः ॥३॥
स्वस्तिकाङ्कितदेशस्थो रक्तप्राकारसंयुतः ।
अष्टगन्धस्य धूपेन नानासौगन्धभूषितः ॥४॥
रक्तमाल्याम्बरधरो मुक्ताहारोपशोभितः ।
पूर्णाभिषेकः शिरसि तेन तत्र न मुण्डनम् ॥५॥
केशान् संवर्द्धयेद्देवि सौगन्धतैलभूषितः ।
नानासौगन्धभोज्यैश्च राजयोग्यैर्महेश्वरि ॥६॥
आपो निसर्गतः पूताः किं पुनर्वह्नितापिताः ।
सदा चोष्णोदके स्नायात्तदभावे यथोदकम् ॥७॥
गृहं चित्रैस्तु संचित्र्यं दर्पणोदरसन्निभम् ।
वितानध्वजभूषाढ्यं घण्टानादोपशोभितम् ॥८॥
पञ्चवादित्रसंयुक्तं नानाघोषैः समन्वितम् ।
अतिसूक्ष्माम्बरैर्युक्तं स्वर्णपत्रादिरञ्चितम् ॥९॥
ग्रैवेयवलयाङ्गुल्यभूषितैर्भूषितः सदा ।
नानामधुरभोज्यैश्च दुग्धपाकैरनेककैः ॥१०॥
नानाभोगेन संयुक्तो गन्धर्वाख्यक्रमो भवेत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥११॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे गन्धर्वाख्यक्रमो नाम द्वाविंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP